सा पुत्रं दीप्तिसंयुक्तं द्वितीयमिव भास्करम् । सुभगं चारुसर्वांगं सर्वलक्षणसंयुतम्
चतुर्बाहुं महाकायं लोकपालं सुरेश्वरम् । तेजोज्वालासमाकीर्णं चक्रपद्मसुहस्तकम्
चंद्रबिंबानुकारेण वदनेन महामतिः । राजमानं महाप्राज्ञं तेजसा वैष्णवेन च
अन्यैश्च लक्षणैर्दिव्यैर्दिव्यभावैरलंकृतम् । सर्वलक्षणसंपूर्णं चंद्रास्यं कमलेक्षणम्
आजग्मुस्ते त्रयो देवा ऋषयो वेदपारगाः । गंधर्वाश्च ततो नागाः सिद्धाविद्याधरास्तथा
ऋषयः सप्त ते दिव्याः पूर्वापरमहौजसः । अन्ये च मुनयः पुण्याः पुण्यमंगलदायिनः
आजग्मुस्ते महात्मानो हर्षनिर्भरमानसाः । तस्मिञ्जाते महाभागे भगवंतो महौजसि
आजग्मुर्देवताः सर्वे पर्वतास्तु तपस्विनः । क्षीराद्याः सागराः सर्वे नद्यश्चैव तथामलाः
प्रीतिमंतस्ततः सर्वे ये चान्ये हि चराचराः । मंगलैस्तु महोत्साहं चक्रुः सर्वे सुरेश्वराः
ननृतुश्चाप्सराः संघा गंधर्वा ललितं जगुः । वेदमंत्रैस्ततो देवा ब्राह्मणा वेदपारगाः
स्तुवंति तं महात्मानं सुतं वै कश्यपस्य च । ब्रह्मा विष्णुश्च रुद्रश्च वेदाश्चैव समागताः
सांगोपांगैश्च संयुक्तास्तस्मिञ्जाते महौजसि । त्रैलोक्ये यानि सत्वानि पुण्ययुक्तानि सत्तम
समागतानि तत्रैव तस्मिञ्जाते महौजसि । मंगलं चक्रिरे सर्वे गीतपुण्यैर्महोत्सवैः
हर्षेण निर्भराः सर्वे पूजयंतो महौजसः । ब्रह्माद्याश्च त्रयो देवाः कश्यपोथ बृहस्पतिः
चक्रिरे नामकर्माणि तस्यैव हि महात्मनः । वसुदत्तेति विख्यातो वसुदेति पुनस्तव
आखंडलेति तन्नाम मरुत्वान्नाम ते पुनः । मघवांश्च बिडौजास्त्वं पाकशासन इत्यपि
शक्रश्चैव हि विख्यात इंद्रश्चैवेति ते सुतः । इत्येतानि च नामानि तस्यैव च महात्मनः
चक्रुश्च देवताः सर्वाः संतुष्टा हृष्टमानसाः । स्नानं तु कारयामासुः संस्काराणि महासुरः
विश्वकर्माणमाहूय ददुराभरणानि च । तानि पुण्यानि दिव्यानि तस्मै ते तु महात्मने
जाते तस्मिन्महाभागे देवराजे महात्मनि । एवं मुदं ततः प्रापुः सर्वे देवा महौजसः
पुण्ये तिथौ तथा ऋक्षे सुमुहूर्ते महात्मभिः । इंद्रत्वे स्थापितो देवैरभिषिक्तः सुमंगलैः
प्राप्तमैंद्रपदं तेन प्रसादात्तस्य चक्रिणः । तपश्चकार तेजस्वी वसुदत्तः सुरेश्वरः
उग्रेण तेजसा युक्तो वज्रपाशांकुशायुधः
सूत उवाच- उग्रं समस्तं तपसः प्रभावं विलोक्य शुक्रो निजगाद गाथाम् । लोकेषु कोन्यो न भविष्यतीति यथा हि चायं च सुदर्शनीयः
विष्णोः प्रसादान्न परो महात्मा संप्राप्तमैश्वर्यमिहैव दिव्यम्
अनेन तुल्यो न भविष्यतीति लोकेषु चान्यस्तपसोग्रवीर्यः
सूत उवाच- कश्यपस्य च भार्यान्या दनुर्नाम तपस्विनी । पुत्रशोकेन संतप्ता संप्राप्ता दितिमंदिरम्
रोदमाना प्रणम्यैव पादपद्मयुगं तदा । दुःखेन महता प्राप्ता दितिस्तां प्रत्यबोधयत्
दितिरुवाच- तवैव हि महाभागे किमिदं रोदकारणम् । पुत्रिण्यश्चैकपुत्रेण लोके नार्यो भवंति वै
भवती शतपुत्राणां गुणिनामपि भामिनि । माता त्वमसि कल्याणि शुंभादीनां महात्मनाम्