दृष्ट्वा वृंदारिकां तत्र महांतश्चाप्सरोगणाः । तुष्टुवुर्नभसस्तुष्टा ववृषुः पुष्पवृष्टिभिः
शुष्ककाष्ठचयं कृत्वा तत्र वृंदाकलेवरम् । निधायाग्निं च प्रज्वाल्य स्मरदूती विवेश तम्
दग्धं वृंदांगरजसां बिंबं तद्गोलकात्मकम् । कृत्वा तद्भस्मनः शेषं मंदाकिन्यां विचिक्षिपुः
यत्र वृंदा परित्यज्य देहं ब्रह्मपथं गता । आसीद्वृंदावनं तत्र गोवर्द्धनसमीपतः
देव्योऽथ स्वर्गमेत्य त्रिदशपतिवधूसत्त्वसंपत्तिमाहुर्देवीभ्यस्तन्निशम्य प्रमुदितमनसो निर्जराद्याश्च सर्वे । शत्रोर्दैत्यस्य हित्वा प्रबलतरभयं भीमभेर्यो निजघ्नुः श्रुत्वा तत्रासनस्थः । परिजननिवहोवापशोभां शुभस्य
श्रीमहादेवउवाच- हरिद्वारं महापुण्यं शृणु देवर्षिसत्तम । यत्र गंगा वहत्येव तत्रोक्तं तीर्थमुत्तमम्
यत्र देवा वसंतीह ऋषयो मनवस्तथा । यत्र देवः स्वयं साक्षात्केशवो नित्यमाश्रितः
पुरा पूर्वं तु भो वत्स तीर्थं जातं महत्तदा । यस्य दर्शनमात्रेण दूरतो याति पातकम्
यत्र गंगा महारम्या जाता पुण्य विशेषतः । विष्णुपादोदकी जाता तच्चरणस्पर्शनात्ततः
भगीरथेन भो विद्वन्नानीता तत्र मार्गतः । उद्धारः पूर्वजानां तु कृतस्तेन महात्मना
नारदउवाच- कोऽयं देव समाख्यातो भगीरथ महातपाः । येन तीर्थं समानीतं लोकानां हितकारणात्
गंगातीर्थं महत्पुण्यं सर्वपापप्रणाशनम् । लोकाः सर्वे वदंत्येवमेतत्तीर्थोत्तमोत्तमम्
गंगागंगेति यो ब्रूयाद्योजनानां शतैरपि । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति
कथं तेन समानीता किं कार्यं वद सुव्रत । महादेव उवाच- येन गंगा यथानीता गंगाद्वारेऽतिशोभने
तत्सर्वं संप्रवक्ष्यामि क्रमानुक्रमयोगतः । पूर्वमासीद्धरिश्चंद्रस्त्रैलोक्ये सत्यपालकः
रोहितस्तस्यपुत्रोऽभूदेको विष्णुपरायणः । तस्यापि च वृकः पुत्रो धर्मिष्ठः सत्पथिस्थितः
तस्य पुत्रः सुबाहुश्च जातोस्मिन्वै कुले तदा । तस्य पुत्रो गरो नाम नात्यंतं धार्मिकोऽभवत्
कदाचित्कालयोगेन दुःखी जातोऽत्र कारणात् । राजा तु तत्र देशेन तर्जितो धर्मकारणात्
स्वकुटुंबं गृहीत्वा तु गतोऽसौ भार्गवाश्रमे । रक्षितो भार्गवेणाथ कृपया तत्र वै तदा
तत्र पुत्रो ह्यभूत्तस्य सगरो नाम वै द्विज । ववृधे चाश्रमे पुण्ये भार्गवेणाभिरक्षितः
उपवीतादिकं सर्वं क्षत्रियस्य तदा कृतम् । शस्त्राणां च तथाभ्यासो वेदानां तु तथैव च
आग्नेयास्त्रं ततो लब्ध्वा भार्गवात्सगरो नृपः । जघान पृथिवीं गत्वा तालजंघान्सहैहयान्
सशकान् पारदांश्चैव जघान स महातपाः । नारद उवाच- माहात्म्यं सगरस्याथ वद शंकर विस्तरात्
महादेव उवाच- सूर्यवंशी महाराजो विख्यातः स महाबली । गरस्य व्यसने तात हृतं राज्यमभूत्किल
हैहयैस्तालजंघाद्यैः शकैः सार्द्धं च नारद । यवनाः पारदाश्चैव कांबोजाः पह्लवास्तथा
एते पंचगणा ब्रह्मन्हैहयार्थे पराक्रमान् । हृतराज्यस्ततो राजा सगरोऽथ वनं ययौ
पत्न्याचानुगतो दुःखी स वै प्राणानवासृजत् । तस्य पत्नी तु कल्याणी सगर्भा च व्रतान्विता
सपत्न्या भार्गवस्तस्य वृतः पूर्वं सुतेप्सया । सा तु भर्तृचितां कृत्वा वने तं प्ररुरोद ह
और्वस्तां वारयित्वा च गरपत्नीं तु नारद । न्यवेदयत तत्पुत्रं धर्मिष्ठं सात्विकं प्रियम्
निवेदिते ततो बाले मरणात्सा न्यवर्त्तत । ततो मासद्वये जाते ववर्द्धौर्वस्य चाश्रमे