विजयं देवतानां तु दानवानां महत्क्षयम् । कृतं हि देवदेवेन स्थापितं भुवनत्रयम्
ऋषय ऊचुः- इन्द्रत्वं कस्य संजातं देवानां शब्दधारकम् । केन दत्तं त्वमाचक्ष्व विस्तराद्द्विजसत्तम
सूत उवाच- विस्तरेण प्रवक्ष्यामि इन्द्रत्वे येन सत्तमः । प्राप्त एष महाभागो यथा पुण्यतमेन च
हतेषु तेषु दैत्येषु समस्तेषुमहाहवे । अतिनष्टेषु पापेषु गोविंदेन महात्मना
ततो देवाः सगंधर्वा नागा विद्याधरास्तथा । संप्रोचुर्माधवं सर्वे बद्धप्रांजलयस्ततः
भगवन्देवदेवेश हृषीकेश नमोस्तु ते । विज्ञापयामहे त्वां वै तत्सर्वमवधार्यताम्
शास्ता गोप्ता च पुण्यात्मा अस्माकं कुरु केशव । राजानं पुण्यधर्माणं त्वमिंद्रं लोकशासनम्
त्रैलोक्यस्य प्रजा देव यमाश्रित्य सुखं लभेत् । वासुदेव उवाच- मम लोके महाभागा वैष्णवेन समन्वितः
तेजसा ब्राह्मणश्रेष्ठश्चिरकालं निवासितः । तस्य कालः प्रपूर्णश्च मम लोके महात्मनः
वसतस्तस्य विप्रस्य मद्भक्तस्य सुरोत्तमाः । तेजसा वैष्णवेनैव भवतां पालको हि सः
भविष्यति स धर्मात्मा स च धर्मानुरंजकः । पालको धारकश्चैव स च ब्राह्मणसत्तमः
भविष्यति स धर्मात्मा भवतां त्राणकारणात् । अदित्यास्तनयश्चैव सुव्रताख्यो महामनाः
महाबलो महावीर्यः स व इंद्रो भविष्यति । सूत उवाच- एवं वरान्स देवेशो दत्वा देवेभ्य उत्तमम्
देवा विजयिनः सर्वे विष्णुना सह सत्तमाः । कश्यपं पितरं दृष्टुं मातरं च ततो गताः
प्रणेमुस्ते महात्मान उभावेतौ सुखासनौ । ऊचुः प्रांजलयः सर्वे हर्षेण महतान्विताः
युवयोश्च प्रसादेन देवत्वं हि गता वयम् । हर्षेण महताविष्टो देवान्वाक्यमुवाच सः
कश्यप उवाच- यूयं वै सत्यधर्मेण वर्तमानाः सदैव हि । आवयोश्च प्रसादेन तपसश्च प्रभावतः
प्राप्तवंतो भवंतस्तु देवत्वं चाक्षयं पदम् । वरमेव ददाम्येषां बहुप्रीतिसमन्विताः
अमरा निर्जराश्चैव अक्षयाश्च भविष्यथ । सर्वकामसमृद्धार्थाः सर्वसिद्धिसमन्विताः
देवा नागाश्च गंधर्वा मत्प्रसादान्महासुराः । विष्णुरुवाच- वरं वरय भद्रं ते देवमातर्यशस्विनि
मनसा चेप्सितं सर्वं तत्ते दद्मि सुनिश्चितम् । अदितिरुवाच- पूर्वं पुत्रवती भूता प्रसादात्तव माधव
अमरा निर्जराः सर्वे अक्षयाः पुण्यवत्सलाः । अमी पुत्रा मया लब्धाः श्रूयतां मधुसूदन
सुतरां त्वं च गोविंद सर्वकामसमृद्धिदः । मम गर्भे वसंश्चैव भवांश्च मम नंदनः
त्वया पुत्रेण नित्यं च यथा नंदामि केशव । एवं महोदयं नाथ पूरयस्व मनोरथम्
वासुदेव उवाच- भवत्या देवकार्यार्थं गंतव्यं मानुषीं तनुम् । तदाहं तव गर्भे वै वासं यास्यामि निश्चितम्
युगे द्वादशके प्राप्ते भूभारहरणाय वै । जमदग्निसुतो देवि रामो नाम द्विजोत्तमः
प्रतापतेजसायुक्तः सर्वक्षत्रवधाय च । तव पुत्रो भविष्यामि सर्वशस्त्रभृतां वरः
सप्तविंशतिके प्राप्ते त्रेताख्ये तु तथा युगे । रामो नाम भविष्यामि तव पुत्रः पतिव्रते
पुनः पुत्रो भविष्यामि तवैव शृणु पुण्यधेः । अष्टाविंशतिके प्राप्ते द्वापरांते युगे तदा
सर्वदैत्यविनाशार्थे भूभारहरणाय च । वासुदेवाख्यस्ते पुत्रो भविष्यामि न संशयः