यावदेव महाभागश्चिंतयित्वा विलोकयेत् । तावच्चामृतपूर्णस्तु पुनरेवाभवद्घटः
तं दृष्ट्वा हर्षसंयुक्तः सोमशर्मा महायशाः । गत्वा गुरुं नमस्कृत्य कुंभमादाय सत्वरम्
गृहाण त्वं पितश्चेमं पयः कुंभं समागतम् । पानं कुरु महाभाग गदान्मुक्तो भवाचिरम्
एतद्वाक्यं महापुण्यं सत्यधर्मार्थकं पुनः । शिवशर्मा सुतस्यापि श्रुत्वा च मधुराक्षरम्
हर्षेण महताविष्ट इदं वचनमब्रवीत्
शिवशर्मोवाच- तपसा दमशौचाभ्यांगुरुशुश्रूषया तथा । भक्त्याभावेन तुष्टोस्मि तवाद्य चसुपुत्रक
त्यजामि वैकृतं रूपं मत्तः सुखमवाप्नुहि । एवमुक्वा सुतं विप्रो दर्शयामास तां तनुम्
यथापूर्वं स्थितौ तौ तु तथा स दृष्टवान्गुरू । दीप्तिमंतौ महात्मानौ सूर्यबिंबोपमावुभौ
ननाम पादौ सद्भक्त्या उभयोस्तु महात्मनोः । ततः सुतं समामंत्र्य हर्षेण महतान्वितः
विष्णोः प्रसादाद्धर्मात्मा भार्यया सह केशवम् । जगाम निजपुण्यैश्च योगाभ्यासेन सत्तमः
प्रविष्टो वैष्णवं धाम स मुनिर्दुर्लभं पदम् । नत्वन्यैः प्राप्यते पुण्यैस्तपोभिर्मुक्तिदं पदम्
विष्णोस्तु चिंतनैर्न्यासध्यानज्ञानैः स्तवैस्तथा । न दानैस्तीर्थयात्राभिर्दृश्यते मधुसूदनः
समाधिज्ञानयोगेन दृश्यते परमं पदम् । महायोगैर्यथा विप्रः प्रविष्टो वैष्णवीं तनुम्
सूत उवाच- ततस्तत्र तपस्तेपे सोमशर्मा महाद्युतिः । अश्मलोष्टसमं मेने कांचनंभूषणं पुनः
जिताहारः स धर्मात्मा निद्रया परिवर्जितः । स सर्वान्विषयांस्त्यक्त्वा एकांतमपि सेवते
योगासनसमारूढो निराशो निःपरिग्रहः । तस्य वेला सुसंप्राप्ता मृत्युकालस्य वै तदा
आगता दानवा विप्रं सोमशर्माणमंतिके । मृत्युकाले तु संप्राप्ते प्राणयात्रा प्रवर्तिनः
शालिग्रामे महाक्षेत्रे ऋषीणां मानवर्द्धने । केचिद्वदंति वै दैत्याः केचिद्वदंति दानवाः
एवंविधो महाशब्दः कर्णरंध्रं गतस्तदा । तस्यैव विप्रवर्यस्य सुचिरात्सोमशर्मणः
ज्ञानध्यानविलग्नस्य प्रविष्टं दैत्यजं भयम् । तेन ध्यानेन तस्यापि दैत्यभीत्यैव वै तदा
सत्वरं चैव तत्प्राणा गतास्तस्य महात्मनः । दैत्यभयेन संयुक्तः स हि मृत्युवशं गतः
तस्माद्दैत्यगृहे जातो हिरण्यकशिपोः सुतः । देवासुरे महायुद्धे निहतश्चक्रपाणिना
युद्ध्यमानेन तेनापि प्रह्लादेन महात्मना । सुदृष्टं वासुदेवत्वं विश्वरूपसमन्वितम्
योगाभ्यासेन पूर्वेण ज्ञानमासीन्महात्मनः । सस्मार पूर्वकं सर्वं चरितं शिवशर्मणः
प्रागहं सोमशर्माख्यः प्रविष्टो दानवीं तनुम् । अस्मात्कायात्कदा पुण्यं केवलं धाम उत्तमम्
प्रयास्यामि महापुण्यैर्ज्ञानाख्यैर्मोक्षदायकम् । समरे म्रियमाणेन प्रह्लादेन महात्मना
एवं चिंता कृता पूर्वं श्रूयतां द्विजसत्तमाः । एवं तु च समाख्यातं सर्वसंदेहनाशनम्
सूत उवाच- प्रह्लादे निहते संख्ये देवदेवेन चक्रिणा । रुरुदे कमला सा तु हतपुत्रा च कामिनी
प्रह्लादस्य तु या माता हिरण्यकशिपोः प्रिया । प्रह्लादस्य महाशोकैर्दिवारात्रौ प्रशोचति
पतिव्रता महाभागा कमला नाम तत्प्रिया । रोदमानां दिवारात्रौ नारदस्तामुवाच ह