वस्त्रपुष्पादिकं सर्वं ताभ्यां नित्यं प्रयच्छति । तांबूलं बहुगंधाढ्यमुभयोरर्पयेत्स तु
सोमशर्मा महाभागस्ताभ्यामपि च पूरयेत् । मूलं पयः सुभक्ष्याद्यं नित्यमेव ददात्यसौ
तयोस्तु वांछितं नित्यं सोमशर्मा महायशाः । अनेन क्रमयोगेन नित्यमेव प्रसादयेत्
सोमशर्मा सुधर्मात्मा पितरौ परिपूजयेत् । सोमशर्माणमाहूय पिता कुत्सति निष्ठुरः
निंदितैर्निष्ठुरैर्वाक्यैस्ताडयेन्मुनिसन्निधौ । कृतकार्ये कृते पुण्ये नित्यमेव सुते पुनः
न कृतं शोभनं मह्यं त्वयैव कुलपांसन । एवं नानाविधैर्वाक्यैर्निष्ठुरैर्दुःखदायकैः
अताडयद्दंडघातैः शिवशर्मा सदातुरः । एवं कृतेपि धर्मात्मा नैव कुप्यति कर्हिचित्
मनसा वचसा चैव कर्मणा त्रिविधेन च । संतुष्टः सर्वदा सोपि पितरं परिपूजयेत्
तद्वत्स सोमशर्मा वै मातरं च दिनेदिने । यज्ज्ञात्वा शिवशर्मा च चरितं स्वीयमीक्षते
अमृतं मत्कृते चापि आनीतं विष्णुशर्मणा । पुण्ययुक्तः स धर्मात्मा पितृभक्तिपरः सदा
एवं बहुतिथे काले शतसंख्ये गते सति । शिवशर्मा पितस्यैव भक्तिं दृष्ट्वा विचिंत्य वै
मया वै पूर्वमित्युक्तं सुपुत्रं यज्ञसंज्ञकम् । मातृखंडानिमान्पुत्र यत्र तत्र क्षिपस्व हि
मद्वाक्यं पालितं तेन कृता न मातरि कृपा । एतत्स्वल्पतरं दुःखं निर्जीवे घातमिच्छतः
साहसं तु कृतं तेन पुत्रेण वेदशर्मणा । अस्याधिकमहं मन्ये यतोऽयं चलते न च
निमेषमात्रमेवापि साहसं कारयेत्पुनः । अपरं सत्यसंपन्नं प्रभावं तपसः पुनः
नित्यं समाराधनेपि अधिकं चास्य दृश्यते । तस्मादस्य परीक्षा च समये तपसः कृता
भक्तिभावात्तथा सत्यान्नैव पुत्रः प्रणश्यति । मायया च निजांगेऽपि कुष्ठरोगो निदर्शितः
श्लेष्ममूत्रमलानां च घृणां नैव करोति च । व्रणान्विशोधयेन्नित्यं स्वहस्तेन महायशाः
पादसंवाहनं दद्याच्छौचं चैव महामतिः । दुःसहं वचनं मह्यं दारुणं सहते सदा
भर्त्सने ताडने चैव सदाभीष्टप्रवाचकः । एवं दुःखसमाचारो मम पुत्रो महामतिः
दुःखानां सागरं मन्ये बहुक्लेशैस्तु क्लेशितः । अपनेष्याम्यहं दुःखं विष्णोश्चैव प्रसादतः
विचार्य मनसा विप्रः शिवशर्मा महामतिः । पुनर्मायां चकाराथ कुंभादपहृतं पयः
पश्चात्तं च समाहूय सोमशर्माणमब्रवीत् । तव हस्ते मया दत्तममृतं व्याधिनाशनम्
तन्मे शीघ्रं प्रयच्छस्व यथा पानं करोम्यहम् । येन नीरुग्भवाम्यद्य प्रसादाद्विष्णुशर्मणः
एवमुक्ते तदा वाक्ये ऋषिणा शिवशर्मणा । समुत्थाय त्वरायुक्तः सोमशर्मा कमंडलुम्
तं च रिक्तं ततो दृष्ट्वा ह्यमृतेन विना कृतम् । कस्य पापस्य वै कर्म केन मे विप्रियं कृतम्
इति चिंतापरो भूत्वा सोमशर्मा सुदुःखितः । पितुरग्रे च वृत्तांतं कथयिष्याम्यहं यदा
ततः कोपं प्रयास्येत गुरुर्मे व्याधिपीडितः । सुचिरं चिंतयित्वा तु सोमशर्मा महामतिः
यदि मे सत्यमस्तीति गुरुशुश्रूषणं यदि । तपस्तप्तं मयापूर्वं निर्व्यलीकेन चेतसा
दमशौचादिभिः सत्यं धर्ममेव प्रपालितम् । तदा घटोऽमृतयुतो भवत्वेष न संशयः