राजानो राजपुत्राश्च ब्राह्मणाश्च विशेषतः । मार्गपालद्यं समुल्लंघ्य निरुजः सुखिनो हि ते
कृत्वैतत्सर्वमेवेह रात्रौ दैत्यपतेर्बलेः । पूजां कुर्यात्ततः साक्षाद्भूमौ मंडलके कृते
बलिमालिख्य दैत्येंद्रं वर्णकैः पंचरंगकैः । सर्वाभरणसंपूर्णं विंध्यावलिसमन्वितम्
कूष्मांडमय जंभोरु मधुदानवसंवृतम् । संपूर्णं हृष्टवदनं किरीटोत्कटकुंडलम्
द्विभुजं दैत्यराजानं कारयित्वा स्वके पुनः । गृहस्य मध्ये शालायां विशालायां ततोऽर्चयेत्
मातृभ्रातृजनैः सार्द्धं संतुष्टो बंधुभिः सह । कमलैः कुमुदैः पुष्पैः कल्हारै रक्तकोत्पलैः
गंधपुष्पान्ननैवेद्यैः सक्षीरैर्गुडपायसैः । मद्यमांससुरालेह्य चोष्य भक्ष्योपहारकैः 6.122.
मंत्रेणानेन राजेंद्र सः मंत्री सपुरोहितः । पूजां करिष्यते यो वै सौख्यं स्यात्तस्य वत्सरम्
बलिराज नमस्तुभ्यं विरोचनसुत प्रभो । भविष्येंद्र सुराराते पूजेयं प्रतिगृह्यताम्
एवं पूजाविधिं कृत्वा रात्रौ जागरणं ततः । कारयेद्वै क्षणं रात्रौ नटनर्तकगायकैः
लोकैश्चापि गृहस्यांते सपर्यां शुक्लतंडुलैः । संस्थाप्य बलिराजानं फलैः पुष्पैश्च पूजयेत्
बलिमुद्दिश्य वै तत्र कार्यं सर्वं च पावके । यानि यान्यक्षयान्याहु ऋषयस्तत्वदर्शिनः
यदत्र दीयते दानं स्वल्पं वा यदि वा बहु । तदक्षयं भवेत्सर्वं विष्णोः प्रीतिकरं शुभम्
रात्रौ ये न करिष्यंति तव पूजां बलेर्नराः । तेषामश्रोत्रियं धर्मं सर्वं त्वामुपतिष्ठतु
विष्णुना च स्वयं वत्स तुष्टेन बलये पुनः । उपकारकरं दत्तमसुराणां महोत्सवम्
तदा प्रभृति सेनाने प्रवृत्ता कौमुदी सदा । सर्वोपद्रवविद्रावा सर्वविघ्नविनाशिनी
लोकशोकहरा काम्या धनपुष्टिसुखावहा । कुशब्देन मही ज्ञेया मुद हर्षे ततो द्वयम्
धातुत्वे निगमैश्चैव तेनैषा कौमुदी स्मृता । कौमोदं ते जना यस्मान्नानाभावैः परस्परम्
हृष्टतुष्टाः सुखापन्नास्तेनैषा कौमुदी स्मृता । कुमुदानि बलेर्यस्यां दीयंते तेन षण्मुख
अघार्थं पार्थिवैः पुत्र तेनैषा कौमुदी स्मृता । एकमेवमहोरात्रं वर्षेवर्षे च कार्तिके
दत्तं दानवराजस्य आदर्शमिव भूतल । यः करोति नृपो राज्ये तस्य व्याधिभयं कुतः
सुभिक्षं क्षेममारोग्यं तस्य संपदनुत्तमा । नीरुजश्च जनाः सर्वे सर्वोपद्रववर्जिताः
कौमुदी क्रियते तस्माद्भावं कर्तुं महीतले । यो यादृशेन भावेन तिष्ठत्यस्यां च षण्मुख
हर्षदुःखादिभावेन तस्य वर्षं प्रयाति हि । रुदिते रोदते वर्षं हृष्टे वर्षं प्रहर्षितम्
भुक्ते भोक्ता भवेद्वर्षं स्वस्थे स्वस्थं भविष्यति । तस्मात्प्रहृष्टैः कर्त्तव्या कौमुदी च शुभैर्नरैः
वैष्णवी दानवी चेयं तिथिः प्रोक्ता च कार्तिके
दीपोत्सवंजनित सर्वजनप्रसादं कुर्वंति ये शुभतया बलिराजपूजाम् । दानोपभोगसुखबुद्धिमतां कुलानां हर्षं प्रयाति सकलं प्रभुदं च वर्षम्
स्कंदैतास्तिथयो नूनं द्वितीयाद्याश्च विश्रुताः । मासैश्चतुर्भिश्च ततःप्रावृट्काले शुभावहाः
प्रथमा श्रावणे मासि तथा भाद्रपदे परा । तृतीयाश्वयुजेमासि चतुर्थी कार्तिके भवेत्
कलुषा श्रावणे मासि तथा भाद्रपदेमला । आश्विने प्रेतसंचारा कार्तिके याम्यकामता