मायां कृत्वा महाप्राज्ञो भार्यया सह तं सुतम् । कुष्ठरोगातुरो भूत्वा तस्य भार्या च तादृशी
मांसपिंडोपमौ जातौ द्वावेतौ मायया कृतौ । संनिधिं तस्य घोरस्य विप्रस्य सोमशर्मणः
समागतौ हि तौ दृष्ट्वा सर्वतो हि सुदुःखितौ । कृपया परयाविष्टः सोमशर्मा महायशाः
तयोः पादं नमस्कृत्य भक्त्या नमितकंधरः । भवादृशौ न पश्यामि तपसाभिसमन्वितम्
गुणव्रातैः सुपुण्यैश्च किमिदं वर्तितं त्वयि । दासवद्देवताः सर्वा वर्तंते सर्वदा तव
आदेशं प्राप्य विप्रेंद्र आकृष्टास्तेजसा तव । तवांगे केन पापेन गदोयं वेदनान्वितः
संजातो ब्राह्मणश्रेष्ठ तन्मे कथय कारणम् । इयं पुण्यवती माता महापुण्या पतिव्रता
या हि भर्तृप्रसादेन त्रैलोक्यं कर्तुमिच्छति । सा कथं दुःखमाप्नोति किं नास्ति तपसः फलम्
रागद्वेषौ परित्यज्य विविधेनापि कर्मणा । या च शुश्रूषते कांतं देववद्गुरुवत्सला
सा कथं दुःखमाप्नोति कुष्ठरोगं सुदुःखदम् । शिवशर्मोवाच- मा शुचस्त्वं महाभाग भुज्यते कर्मजं फलम्
नरेण कर्मयुक्तेन पापपुण्यमयेन हि । शोधनं च कुरुष्व त्वमुभयो रोगयुक्तयोः
शुश्रूषणं महाभाग यदि पुण्यमिहेच्छसि । एवमुक्ते शुभे वाक्ये सोमशर्मा महायशाः
शुश्रूषां वा करिष्यामि युवयोः पुण्ययुक्तयोः । मया पापेन दुष्टेन कृपणेन द्विजोत्तम
किं कर्तव्यमिहाद्यैव यो गुरुं न हि पूजयेत् । एवमाभाष्य दुःखाद्वा तयोर्दुःखेन दुःखितः
श्लेष्ममूत्रपुरीषं च उभयोः पर्यशोधयत् । पादप्रक्षालनं चक्रे अंगसंवाहनं तथा
स्नानस्थानादिकं सोपि तयोर्भक्त्यान्वितः स्वयम् । द्वावेतौ हि गुरू विप्रः सोमशर्मा महायशाः
तीर्थं नयति धर्मात्मा स्कंधमारोप्य सत्तमः । द्वावेतौ हि स्वहस्तेन स्नापयित्वा तु मंगलैः
सुमंत्रैर्वेदविच्चैव स्नानस्य विधिपूर्वकम् । तर्पणं च पितॄणां तु देवतानां तु पूजनम्
द्वाभ्यामपि स धर्मात्मा स कारयति नित्यशः । स्वयं होमं ददात्यग्नौ पचत्यन्नमनुत्तमम्
संज्ञापयति सुप्रीतौ द्वावेतौ च महागुरू । शय्यासने च तौ विप्रः प्रस्वापयति नित्यशः
वस्त्रपुष्पादिकं सर्वं ताभ्यां नित्यं प्रयच्छति । तांबूलं बहुगंधाढ्यमुभयोरर्पयेत्स तु
सोमशर्मा महाभागस्ताभ्यामपि च पूरयेत् । मूलं पयः सुभक्ष्याद्यं नित्यमेव ददात्यसौ
तयोस्तु वांछितं नित्यं सोमशर्मा महायशाः । अनेन क्रमयोगेन नित्यमेव प्रसादयेत्
सोमशर्मा सुधर्मात्मा पितरौ परिपूजयेत् । सोमशर्माणमाहूय पिता कुत्सति निष्ठुरः
निंदितैर्निष्ठुरैर्वाक्यैस्ताडयेन्मुनिसन्निधौ । कृतकार्ये कृते पुण्ये नित्यमेव सुते पुनः
न कृतं शोभनं मह्यं त्वयैव कुलपांसन । एवं नानाविधैर्वाक्यैर्निष्ठुरैर्दुःखदायकैः
अताडयद्दंडघातैः शिवशर्मा सदातुरः । एवं कृतेपि धर्मात्मा नैव कुप्यति कर्हिचित्
मनसा वचसा चैव कर्मणा त्रिविधेन च । संतुष्टः सर्वदा सोपि पितरं परिपूजयेत्
तद्वत्स सोमशर्मा वै मातरं च दिनेदिने । यज्ज्ञात्वा शिवशर्मा च चरितं स्वीयमीक्षते
अमृतं मत्कृते चापि आनीतं विष्णुशर्मणा । पुण्ययुक्तः स धर्मात्मा पितृभक्तिपरः सदा