जन्मजन्मनि त्वं माता पिता चैव भविष्यथः । पितोवाच- शृणुध्वं मामकाः पुत्राः सुवरं पुण्यदायकम्
मयि तुष्टे सुता भोगा ननु भुंजंतु चाक्षयान् । पुत्रा ऊचुः- यदि तात प्रसन्नोसि वरं दातुमिहेच्छसि
अस्मान्प्रेषय गोलोकं वैष्णवं दाहवर्जितम् । पितोवाच- गच्छध्वं वैष्णवं लोकं यूयं विगतकल्मषाः
मत्प्रसादात्तपोभिश्च पितृभक्त्यानया स्वया । एवमुक्ते तु तेनापि सुवाक्ये ऋषिणा ततः
शंखचक्रगदापाणिर्गरुडारूढ आगतः । सपुत्रं शिवशर्माणमित्युवाच पुनः पुनः
सपुत्रेण त्वयाद्यैव जितो भक्त्यास्मि वै द्विज । पुत्रैः सार्द्धं समागच्छ चतुर्भिः पुण्यकारिभिः
अनया भार्यया सार्द्धं पुण्यया पतिकाम्यया । शिवशर्मोवाच- अमी गच्छंतु पुत्रा मे वैष्णवं लोकमुत्तमम्
कंचित्कालं तु नेष्यामि भूमौ वै भार्यया सह । अनेनापि सुपुत्रेण अंत्येन सोमशर्मणा
एवमुक्ते शुभे वाक्ये ऋषिणा सत्यभाषिणा । तानुवाचाथ देवेशः सुपुत्राञ्छिवशर्मणः
गच्छंतु मोक्षदं लोकं दाहप्रलयवर्जितम् । एवमुक्ते ततो विप्राश्चत्वारः सत्यचेतसः
विष्णुरूपधराः सर्वे बभूवुस्तत्क्षणादपि । इंद्रनीलसमावर्णैः शंखचक्रगदाधराः
सर्वाभरणसौभाग्या विष्णुरूपा महौजसः । हारकंकणशोभाढ्या रत्नमालाभिशोभिताः
सूर्यतेजःप्रतीकाशास्तेजोज्वालाभिरावृताः । प्रविष्टा वैष्णवं कायं पश्यतः शिवशर्मणः
दीपं दीपा यथा यांति तद्वल्लीना महामते । गतास्ते वैष्णवं धाम पितृभक्त्या द्विजोत्तमाः
प्रभावं तु प्रवक्ष्यामि सुसत्यं सोमशर्मणः
सूत उवाच- गतेषु तेषु गोलोकं वैष्णवं तमसः परम् । शिवशर्मा महाप्राज्ञः कनिष्ठं वाक्यमब्रवीत्
ब्राह्मण उवाच- सोमशर्मन्महाप्राज्ञ त्वं पितुर्भक्तितत्परः । अमृतस्य महाकुंभं रक्ष दत्तं मयाधुना
तीर्थयात्रां प्रयास्यामि अनया भार्यया सह । एवमस्तु महाभाग करिष्ये रक्षणं शुभम्
कुंभं दत्वा स मेधावी तस्य हस्ते महात्मनः । दशवर्षप्रमाणं तु तपस्तेपे निरंतरम्
कुंभं रक्षति धर्मात्मा दिवारात्रमतंद्रितः । पुनः स हि समायातः शिवशर्मा महायशाः
मायां कृत्वा महाप्राज्ञो भार्यया सह तं सुतम् । कुष्ठरोगातुरो भूत्वा तस्य भार्या च तादृशी
मांसपिंडोपमौ जातौ द्वावेतौ मायया कृतौ । संनिधिं तस्य घोरस्य विप्रस्य सोमशर्मणः
समागतौ हि तौ दृष्ट्वा सर्वतो हि सुदुःखितौ । कृपया परयाविष्टः सोमशर्मा महायशाः
तयोः पादं नमस्कृत्य भक्त्या नमितकंधरः । भवादृशौ न पश्यामि तपसाभिसमन्वितम्
गुणव्रातैः सुपुण्यैश्च किमिदं वर्तितं त्वयि । दासवद्देवताः सर्वा वर्तंते सर्वदा तव
आदेशं प्राप्य विप्रेंद्र आकृष्टास्तेजसा तव । तवांगे केन पापेन गदोयं वेदनान्वितः
संजातो ब्राह्मणश्रेष्ठ तन्मे कथय कारणम् । इयं पुण्यवती माता महापुण्या पतिव्रता
या हि भर्तृप्रसादेन त्रैलोक्यं कर्तुमिच्छति । सा कथं दुःखमाप्नोति किं नास्ति तपसः फलम्
रागद्वेषौ परित्यज्य विविधेनापि कर्मणा । या च शुश्रूषते कांतं देववद्गुरुवत्सला
सा कथं दुःखमाप्नोति कुष्ठरोगं सुदुःखदम् । शिवशर्मोवाच- मा शुचस्त्वं महाभाग भुज्यते कर्मजं फलम्