सर्वमेतत्करिष्यामि भवतः सुखमुत्तमम् । एवमाभाष्य धर्मात्मा विष्णुशर्मा महामतिः
पितरं तं नमस्कृत्य पुनः कृत्वा प्रदक्षिणम् । बलेन महता सोपि तपसा नियमेन च
अंतरिक्षगतश्चासीद्गच्छमानस्य धीमतः । स महावायुवेगेन ऐंद्रं संप्रतिगच्छति
सूत उवाच- प्रस्थितस्तेन मार्गेण प्रविष्टो गगनांतरे । स दृष्टो देवदेवेन सहस्राक्षेण धीमता
उद्यमं तस्य वै ज्ञात्वा चक्रे विघ्नं सुराधिराट् । मेनिकांतामुवाचेदं गच्छ त्वं मम शासनात्
समाचरस्वास्य शीघ्रं गत्वा विघ्नं सुमध्यमे । अस्यैव विप्रवर्यस्य पुत्रस्य शिवशर्मणः
तथा कुरुष्व भद्रं ते यथा नायाति मे गृहम् । एवमाकर्ण्य तद्वाक्यं मेनिका प्रस्थिता त्वरात्
सूत उवाच- रूपौदार्यगुणोपेता सर्वालंकारभूषिता । नंदनस्य वनस्यांते दोलायां समुपस्थिता
सुस्वरेण प्रगायंती गीतं वीणास्वरोपमम् । तेन दृष्टा विशालाक्षी चतुरा चारुलोचना
व्यवसायं ततो ज्ञात्वा तस्या विघ्नमनुत्तमम् । इंद्रेण प्रेषिता चैषा न च भद्रकरा भवेत्
एवं ज्ञात्वा जगामाथ सत्वरेण द्विजोत्तमः । तया दृष्टस्तथा पृष्टः क्व यास्यसि महामते
विष्णुशर्मा तदोवाच मेनिकां कामचारिणीम् । इंद्रलोकं प्रयास्यामि पितुरर्थे त्वरान्वितः
मेनिका विष्णुशर्माणं प्रत्युवाच प्रियं पुनः । कामबाणैः प्रभिन्नाहं त्वामद्य शरणं गता
रक्षस्व द्विजशार्दूल यदि धर्ममिहेच्छसि । यावद्धि त्वं मया दृष्टः कामाकुलितचेतसा
कामानलेन संदग्धा तावदेव न संशयः । संभ्रांता कामसंतप्ता प्रसादसुमुखो भव
विष्णुशर्मोवाच- चरित्रं देवदेवस्य विदितं मे वरानने । भवत्याश्चप्रजानामिनाहंचैतादृशःशुभे
भवत्यास्तेजसा रूपैरन्ये मुह्यंति शोभने । विश्वामित्रादयो देवि पुत्रोहं शिवशर्मणः
योगसिद्धिं गतस्यापि तपः सिद्धस्य चाबले । कामादयो महादोषा आदावेव विनिर्जिताः
अन्यं भज विशालाक्षि इंद्रलोकं व्रजाम्यहम् । एवमुक्त्वा जगामाथ त्वरितो द्विजसत्तमः
निष्फला मेनका जाता पृष्टा देवेन वज्रिणा । विभीषां दर्शयामास नानारूपां पुनः पुनः
यथानलेन संदग्धास्तृणानां संचया द्विजाः । भस्मीभूता भवंत्येव तथा तास्ता विभीषिकाः
विप्रस्य तेजसा तस्य पितृभक्तस्य सत्तमाः । प्रलयं गतास्तु घोरास्ता दारुणा भीषिका द्विजाः
स विघ्नान्दर्शयामास सहस्राक्षः पुनः पुनः । तेजसाऽनाशयद्विप्रः स्वकीयेन महायशाः
एवं विघ्नान्बहूंस्तस्य इंद्रस्यापि महात्मनः । नाशयामास मेधावी तपसस्तेजसापि वा
नष्टेषु तेषु विघ्नेषु दारुणेषु महत्सु च । ज्ञात्वा तस्य कृतान्विघ्नान्दारुणान्भीषणाकृतीन्
अथ क्रुद्धो महातेजा विष्णुशर्मा द्विजोत्तमः । इंद्रं प्रति महाभागो रागरक्तांतलोचनः
इंद्र लोकादहं चेंद्रं पातयिष्यामि नान्यथा । निजधर्मे रतस्याद्य यो विघ्नं तु समाचरेत्
तस्य दंडं प्रदास्यामि यो वै हन्यात्स हन्यते । एवमन्यं करिष्यामि देवानां पालकं पुनः
एवं समुद्यतो विप्र इंद्रनाशाय सत्तमः । तावदेव समायातो देवेंद्रः पाकशासनः
भो भो विप्र महाप्राज्ञ तपसा नियमेन च । दमेन सत्यशौचाभ्यां त्वत्समो नास्ति चापरः