उत्तमांगं प्रदत्तं मे पितृभक्तेन तेन ते । तवार्थे द्विजशार्दूल मामेवं परिभुंक्ष्व वै
तस्य तैर्भ्रातृभिर्दृष्टं साहसं वेदशर्मणः । वेपितांगत्वमापन्नास्ते बभूवुः परस्परम्
मृता नो धर्मसाध्वी सा माता सत्यसमाधिना । अयमेव महाभागः पितुरर्थे मृतः शुभः
धन्योयं धन्यतां प्राप्तः पितुरर्थे कृतं शुभम् । एवं संभाषितं तैस्तु भ्रातृभिः पुण्यचारिभिः
समाकर्ण्य द्विजो वाक्यं ज्ञात्वा भक्तिपरायणम् । निकृत्तं च शिरस्तेन पुत्रेण वेदशर्मणा
धर्मशर्माणमाहाथ शिर एतत्प्रगृह्यताम्
सूत उवाच- तदादाय महात्माऽसौ निर्जगाम त्वरान्वितः । पितृभक्त्या तपोभिश्च सत्यार्जवबलेन सः
धर्ममाकृष्टवांश्चैव धर्मशर्मा ततस्तदा । समाकृष्टस्तु वै धर्मस्तपसा तस्य धीमतः
धर्मशर्माणमायातं इदं वचनमब्रवीत् । कस्मात्त्वया समाहूतो धर्मशर्मन्समागतः
तन्मे कथय कार्यं त्वं तत्करोमि न संशयः । धर्मशर्मोवाच- यद्यस्ति गुरुशुश्रूषा यदि निष्ठाऽचलं तपः
तेन सत्येन मे धर्म वेदशर्मा स जीवतु । धर्म उवाच- दमशौचेन सत्येन तपसा तव सुव्रत
पितृभक्त्या तव भ्राता वेदशर्मा महाभुजः । पुनरेव महात्मासौ जीवनं च लभिष्यति
तपसानेन तुष्टोस्मि पितृभक्त्या महामते । वरं वरय भद्रं ते दुर्लभं धर्मवित्तमैः
एवमाकर्णितं तेन सुवाक्यं धर्मशर्मणा । वैवस्वतं महात्मानं समुवाच महायशाः
देहि मे त्वचलां भक्तिं पितुः पादार्हणे पुनः । धर्मे रतिं तथा मोक्षं सुप्रसन्नो यदा मम
तमुवाच ततो धर्मो मत्प्रसादाद्भविष्यति । एवमुक्ते महावाक्ये वेदशर्मा तदोत्थितः
प्रसुप्तवन्महाप्राज्ञो धर्मशर्माणमब्रवीत् । क्व सा देवी गता भ्रातः क्व स तातो भवेदिति
समासेन समाख्यातं यथा पित्रा नियोजितः । समाज्ञाय ततो हृष्टो धर्मशर्मा तमब्रवीत्
ममाद्यैव महाभाग शिरसा जीवितेन च । संमुखी भव वै भ्रातः कोन्यो मे त्वादृशो भुवि
भ्रातरं चैवमाभाष्य उत्सुकः पितरं प्रति । गमनाय मतिं चक्रे भ्रात्रा च धर्मशर्मणा
द्वावेतौ तु गतौ तत्र पितरं हृष्टमानसौ । द्वाभ्यां तत्र समास्थाय शिवशर्माणमुत्तमम्
धर्मशर्मा तदोवाच पितरं दीप्तिसंयुतम् । ममाद्यैव महाभाग तपसा जीवितेन च
वेदशर्मा समानीतस्तं पुत्रं प्रगृहाण भोः । शिवशर्मा ततो हृष्टो भक्तिं विज्ञाय तस्य च
न किंचिदब्रवीत्तं तु पुनश्चिंतामुपेयिवान् । पुरतो विनयेनापि वर्तमानं महामतिम्
विष्णुशर्माणमाभाषीद्वत्स मे वचनं कुरु । इंद्रलोकं व्रजस्वाद्य तस्मादानय चामृतम्
अनया कान्तया सार्द्धं स्थातुमिच्छामि सांप्रतम् । सागराद्यत्समुत्पन्नममृतं व्याधिनाशनम्
साधुनेच्छति मामेषा यथैनां तु लभाम्यहम् । तथा कुरुष्व शीघ्रं त्वमन्यथान्यं प्रयास्यति
वृद्धं ज्ञात्वावमन्येत इयं बाला सुरूपिणी । अद्य देव्यानया सार्द्धं प्रियया भुवनत्रये
निर्दोषो व्याधिनिर्मुक्तो यथा तात भवाम्यहम् । तथा कुरुष्व मे वत्स मद्भक्तोसि यदा भुवि
एवमाकर्ण्य तद्वाक्यं पितुस्तस्य महात्मनः । विष्णुशर्मा तदोवाच पितरं दीप्ततेजसम्