अपहाय गता सेयं स्वर्गे तात किमुच्यते । शिवशर्मोपरिभवं पुत्रं भक्तिपरायणम्
यज्ञशर्माणमाहूय इत्युवाच द्विजोत्तमः । शिवशर्मोवाच- अनेनापि सुतीक्ष्णेन शस्त्रेण निशितेन वै
विच्छिद्यांगानि सर्वाणि यत्र तत्र क्षिपस्व ह । तत्कृतं तेन पुत्रेण यथादेशः श्रुतः पितुः
समायातः पुनः पश्चात्पितरं वाक्यमब्रवीत् । यथादिष्टं त्वया तात तत्सर्वं कृतवानहम्
समादिश ममान्यच्च कार्यकारणमद्य च । तच्च सर्वं करिष्यामि दुर्जयं दुर्लभं पितः
तमाज्ञाय महाभागं पितृभक्तं स च द्विजः । निश्चयं परमं ज्ञात्वा द्वितीयस्य विचिंतयन्
वेदशर्माणमाहूय गच्छ त्वं मम शासनात् । स्त्रिया विना न शक्नोमि स्थातुं कंदर्पमोहितः
मायया दर्शिता नारी सर्वसौभाग्यसंपदा । एनामानय वत्स त्वं ममार्थे कृतनिश्चयः
एवमुक्तस्तथा प्राह करिष्ये तव सुप्रियम् । पितरं तं नमस्कृत्य तामुवाच गतस्ततः
त्वां देवि याचते तातः कामबाणप्रपीडितः । अतस्त्वं जरया युक्ते प्रसादसुमुखी भव
भज त्वं चारुसर्वांगि पितरं मम सुंदरि । एवमाकर्णितं तस्य मायया वेदशर्मणः
स्त्र्युवाच- जरया पीडितस्यापि नैवेच्छामि कदाचन । सश्लेष्ममुखरोगस्य व्याधिग्रस्तस्य सांप्रतम्
शिथिलस्यापि चार्तस्य तस्य वृद्धस्य संगमम् । भवंतं रंतुमिच्छामि करिष्ये तव सुप्रियम्
भवंतं रूपसौभाग्यैर्गुणरत्नैरलंकृतम् । दिव्यलक्षणसंपन्नं दिव्यरूपं महौजसम्
किं करिष्यसि तातेन वृद्धेन शृणु मानद । ममांगभोगभावेन सर्वं प्राप्स्यसि दुर्लभम्
यद्यत्त्वमिच्छसे विप्र तद्ददामि न संशयः । एतद्वाक्यं महच्छ्रुत्वा अप्रियं पापसंकुलम्
वेदशर्मोवाच- अधर्मयुक्तं ते वाक्यमयुक्तं पापमिश्रितम् । नेदृशं मां वदेर्देवि पितृभक्तिमनागसम्
पितुरर्थं समायातस्त्वामहं प्रार्थये शुभे । अन्यदेवं न वक्तव्यं भज त्वं पितरं मम
यद्यत्त्वमिच्छसे देवि त्रैलोक्ये सचराचरम् । तत्तद्दद्मि न संदेहो देवराज्याधिकं शुभे
स्त्र्युवाच- एवं समर्थो दातुं मे पितुरर्थे यदा भवान् । तदा मे दर्शयाद्यैव सेंद्रास्त्वं समहेश्वरान्
दातुमेवं समर्थोसि दुर्लभं सांप्रतं किल । किं ते बलं महाभाग दर्शयस्व त्वमात्मनः
वेदशर्मोवाच- पश्य पश्य बलं देवि प्रभावं तपसो मम । मयाहूताः समायाता इंद्राद्याः सुरसत्तमाः
वेदशर्माणमूचुस्ते किं कुर्मो हि द्विजोत्तम । यमेवमिच्छसे विप्र तं ददामो न संशयः
वेदशर्मोवाच- यदि देवाः प्रसान्ना मे प्रसादसुमुखा यदि । ददंतु विमलां भक्तिं पादयोः पितुरेव मे
एवमस्तु सुराः सर्वे यथायातास्तथा गताः । तमुवाच तथा दृष्ट्वा दृष्टं ते तपसो बलम्
देवैस्तु नास्ति मे कार्यं यदि दातुमिहेच्छसि । यन्मां नयसि गुर्वर्थं तत्कुरुष्व मम प्रियम्
देहि त्वं स्वं शिरो विप्र स्वहस्तेन निकृत्य वै । वेदशर्मोवाच- धन्योहमद्य संजातो मुक्तश्चैव ऋणत्रयात्
स्वशिरो देवि दास्यामि गृह्यतां गृह्यतां शुभे । शितेन तीक्ष्णधारेण शस्त्रेण द्विजसत्तमः
निकृत्य स्वं शिरश्चाथ दत्तं तस्यै प्रहस्य च । रुधिरेण प्लुतं सा च परिगृह्य गता मुनिम्
स्त्र्युवाच- तवार्थे प्रेषितं विप्र पुत्रेण वेदशर्मणा । एतच्छिरः संगृहाण निकृत्तं चात्मनात्मनः