द्वापरे यज्ञमित्याहुर्दानमेकं कलौ युगे। सर्वेषामेव दानानामिदमेवैकमुत्तमम्
अभयं सर्वभूतानां नास्ति दानमतः परम्। दानं प्रधानं शूद्रस्य त्वित्याह भगवान्प्रभुः
दानेन सर्वकामाप्तिस्तस्य संजायते तपः। पुण्यं पवित्रमायुष्यं सर्वपापविनाशनम्
पुराणमेतत्कथितं तीर्थश्राद्धानुवर्णनम्। शृणोति यः पठेद्वापि श्रीमान्संजायते नरः
सर्वपापविनिर्मुक्तः सलक्ष्मीकं हरिं लभेत्। इदं महाराज अगादि तुभ्यं पुण्यं महापातकनाशनं च
ब्रह्मार्करुद्रैश्च सुपूजितं च श्रोतव्यमेतत्प्रवदंति तज्ज्ञाः। सृष्टिखंडमिदं राजन्मया तुभ्यं प्रकीर्तितम्
पुराणस्यादिभूतं च नवधा सृष्टि पौष्करम्। द्विजेभ्यः श्रावयेद्विद्वान्यश्च वै शृणुयात्पठेत्। कल्पकोटिशतं साग्रं ब्रह्मलोके स मोदते
इति श्रीपाद्मपुराणे सृष्टिखंडे पुराणावतारे ग्रहार्चनवर्णनंनाम द्व्यशीतितमोऽध्यायः
ॐ श्रीगणेशाय नमः ऋषय ऊचुः- शृणु सूत महाभाग सर्वतत्त्वार्थकोविद । संदेहमागतं विद्वन्दारुणं बुद्धिनाशनम्
केचित्पठंति प्रह्लादं पुराणेषु द्विजोत्तमाः । पंचवर्षान्वितेनापि केशवः परितोषितः
देवासुरे कथं प्राप्ते हरिणा सह युध्यति । निहतो वासुदेवेन प्रविष्टो वैष्णवीं तनुम्
सूत उवाच- कश्यपेन पुरा ज्ञातं कृतं व्यासेन धीमता । ब्रह्मणा कथितं पूर्वं व्यासस्याग्रे स्वयं प्रभोः
तमेवं हि प्रवक्ष्यामि भवतामग्रतो द्विजाः । संदेहकारणं जातं छिन्नं देवेन वेधसा
व्यास उवाचः- शृणु सूत महाभाग ब्रह्मणा परिभाषितम् । प्रह्लादस्य यथा जन्म पुराणेप्यन्यथा श्रुतम्
जातमात्रः सर्वसुखं वैष्णवं मार्गमाश्रितः । महाभागवतश्रेष्ठः प्रह्लादो देवपूजितः
विष्णुना सह युद्धाय सपुत्रः संगरंगतः । निहतो वासुदेवेन प्रविष्टो वैष्णवीं तनुम्
सृष्टिभावं शृणुष्व त्वमस्यैव च महात्मनः । संगरं प्राप्य पुत्राद्यैर्विष्णुना सह वीर्यवान्
प्रविष्टो वैष्णवं तेजः संप्राप्य स्वेन तेजसा । पुराकल्पे महाभाग यथा जातः स वीर्यवान्
वृत्तांतं तस्य वीरस्य प्रवक्ष्यामि समासतः । पश्चिमे सागरस्यांते द्वारका नाम वै पुरी
सर्वऋद्धिसमायुक्ता सर्वसिद्धिसमन्विता । तस्यामास्ते सदा देवो योगज्ञो योगवित्तमः
शिवशर्मेति विख्यातो वेदशास्त्रार्थकोविदः । तस्यापि पंचपुत्रास्तु बभूवुः शास्त्रकोविदाः
यज्ञशर्मा वेदशर्मा धर्मशर्मा तथैव च । विष्णुशर्मा महाभागो नूनं तत्कर्मकोविदः
पंचमः सोमशर्मेति पितृभक्तिपरायणः । पितृभक्तिं विना चैव धर्ममन्यं द्विजोत्तमाः
न विदंति महात्मानस्तद्भावेन तु भाविताः । तेषां तु भक्तिं संपश्यञ्छिवशर्मा द्विजोत्तमः
चिंतयामास मेधावी निष्कर्षिष्ये सुरोत्तमान् । पितृभक्तेषु यो भावो नैतेषां मनसि स्थितः
यथा जानाम्यहं चाथ करिष्ये बुद्धिपूर्वकम् । विष्णोश्चैव प्रसादात्स सर्वसिद्धिर्बभूव ह
सद्भावं चिंतयामास अंजनार्थं द्विजोत्तमाः । उपायं ब्राह्मणश्रेष्ठस्तपसस्तेजसः किल
चकार सोप्युपायज्ञो मायया ब्रह्मवित्तमः । तेषामग्रे ततो व्याजं शिवशर्मा व्यदर्शयत्
महता ज्वररोगेण मृता माता विदर्शिता । तैस्तु दृष्टा मृता माता पितरं वाक्यमब्रुवन्
ययावयं महाभाग गर्भोदरे प्रवर्द्धिताः । कलेवरं परित्यज्य स्वयमेव गता क्षयम्