या लक्ष्मीर्दिवसे पुण्ये दीपावल्यां च भूतले । गवां गोष्ठे तु कार्तिक्यां सा लक्ष्मीर्वरदा मम
शंकरश्च भवानी च क्रीडया द्यूतमास्थितौ । भवान्याभ्यर्चिता लक्ष्मीर्धेनुरूपेण संस्थिता
गौर्या जित्वा पुरा शंभुर्नग्नो द्यूते विसर्जितः । अतोऽयं शंकरो दुःखी गौरी नित्यं सुखेस्थिता
प्रथमं विजयो यस्य तस्य संवत्सरं सुखम् । एवं गते निशीथे तु जने निद्रार्धलोचने
तावन्नगरनारीभिस्तूर्य डिंडिमवादनैः । निष्कास्यते प्रहृष्टाभिरलक्ष्मीश्च गृहांगणात्
पराजये विरुद्धं स्यात्प्रतिपद्युदिते रवौ । प्रातर्गोवर्द्धनः पूज्यो द्यूतं रात्रौ समाचरेत्
भूषणीयास्तथा गावो वर्ज्या वहनदोहनात् । गोवर्द्धनधराधार गोकुलत्राणकारक
विष्णुबाहुकृतोच्छ्राय गवां कोटिप्रदो भव । या लक्ष्मीर्लोकपालानां धेनुरूपेण संस्थिता
घृतं वहति यज्ञार्थे मम पापं व्यपोहतु । अग्रतः संतु मे गावो गावो मे संतु पृष्ठतः । गावो मे हृदये संतु गवां मध्ये वसाम्यहम्
इतिगोवर्द्धनपूजा । सद्भावेनैव संतोष्य देवान्सत्पुरुषान्नरान् । इतरेषामन्नपानैर्वाक्यदानेन पंडितान्
वस्त्रैस्तांबूलदीपैश्च पुष्पकर्पूरकुंकुमैः । भक्ष्यैरुच्चावचैर्भोज्यैरंतःपुर निवासिनः
ग्रामर्षभं च दानैश्च सामंतान्नृपतिर्धनैः । पदातिजनसंघांश्च ग्रैवेयैः कटकैः शुभैः
स्वानमात्यांश्च तान्राजा तोषयेत्स्वजनान्पृथक् । यथार्थं तोषयित्वा तु ततो मल्लान्नटांस्तथा
वृषभांश्च महोक्षांश्च युद्ध्य्मानान्परैः सह । राजान्यांश्चापि योधांश्च पदातीन्स समलंकृतान्
मंचारूढः स्वयं पश्येन्नटनर्तकचारणान् । योधयेद्वासयेच्चैव गोमहिष्यादिकं च यत्
वत्सानाकर्षयेद्गोभिरुक्तिप्रत्युक्ति वादनात् । ततोपराह्णसमये पूर्वस्यां दिशि पावके
मार्गपालद्यं प्रबध्नीयाद्दुर्गस्तंभेऽथ पादपे । कुशकाशमयीं दिव्यां लंबकैर्बहुभिर्गुह
वीक्षयित्वा गजानश्वान्मार्गपाल्यास्तले नयेत् । गावैर्वृषांश्चमहिषान्महिषीर्घंटिकोत्कटाः
कृतहोमैर्द्विजेंद्रैस्तु बध्नीयान्मार्गपालिकाम् । नमस्कारं ततः कुर्यान्मंत्रेणानेन सुव्रतः
मार्गपालि नमस्तुभ्यं सर्वलोकसुखप्रदे । मार्गपालीतले स्कंद यांति गावो महावृषाः
राजानो राजपुत्राश्च ब्राह्मणाश्च विशेषतः । मार्गपालद्यं समुल्लंघ्य निरुजः सुखिनो हि ते
कृत्वैतत्सर्वमेवेह रात्रौ दैत्यपतेर्बलेः । पूजां कुर्यात्ततः साक्षाद्भूमौ मंडलके कृते
बलिमालिख्य दैत्येंद्रं वर्णकैः पंचरंगकैः । सर्वाभरणसंपूर्णं विंध्यावलिसमन्वितम्
कूष्मांडमय जंभोरु मधुदानवसंवृतम् । संपूर्णं हृष्टवदनं किरीटोत्कटकुंडलम्
द्विभुजं दैत्यराजानं कारयित्वा स्वके पुनः । गृहस्य मध्ये शालायां विशालायां ततोऽर्चयेत्
मातृभ्रातृजनैः सार्द्धं संतुष्टो बंधुभिः सह । कमलैः कुमुदैः पुष्पैः कल्हारै रक्तकोत्पलैः
गंधपुष्पान्ननैवेद्यैः सक्षीरैर्गुडपायसैः । मद्यमांससुरालेह्य चोष्य भक्ष्योपहारकैः 6.122.
मंत्रेणानेन राजेंद्र सः मंत्री सपुरोहितः । पूजां करिष्यते यो वै सौख्यं स्यात्तस्य वत्सरम्
बलिराज नमस्तुभ्यं विरोचनसुत प्रभो । भविष्येंद्र सुराराते पूजेयं प्रतिगृह्यताम्
एवं पूजाविधिं कृत्वा रात्रौ जागरणं ततः । कारयेद्वै क्षणं रात्रौ नटनर्तकगायकैः