पीतैर्गंधयुतैः पुष्पैर्वस्त्रैर्हेम्ना च पूजयेत्। दशागोचरयोर्दौष्ट्ये दानं दद्याच्च शक्तितः
चणकद्विदलं चैव पीतवस्त्रं सुवर्णकं। पुष्यरागं तु विप्राय दद्याच्चारिष्टशांतये
बृहस्पते सुराचार्य सर्वशास्त्रविशारद। दानेनानेन संतुष्टो भव सौम्यो ममाधुना
एवं कृते तु राजेंद्र स्वानुकूलो भवेद्गुरुः। सर्वान्कामानवाप्नोति नरो गुरुसमर्चनात्
भार्गवस्यापि वक्ष्यामि पूजनं नृपतेधुना। यत्कृत्वा सर्वकामाप्तिः सम्यक्पुंसां प्रजायते
पंचकोणं समुद्दिष्टं मंडलं भार्गवस्य तु। चूर्णकैः श्वेतवर्णैश्च विधिना सुधिया कृतं
श्वेतगंधैश्च पुष्पैश्च वस्त्रैश्चापि सितैस्तथा। पूजयेद्भार्गवं भक्त्या नरः श्रद्धासमन्वितः
रौप्यं च दक्षिणादानं यथाशक्ति प्रकीर्तितं। दशाद्यरिष्टे चोत्पन्ने सितमश्वं प्रदापयेत्
तंडुलाः श्वेतवस्त्रं च रौप्यं चंदनमेव च। कर्पूरं च सुगंधाढ्यं देयं दानं द्विजातये
भृगुपुत्र महाभाग दानवानां पुरोहित। दानेनानेन संतुष्टो भव सर्वासुरार्चित
इति मंत्रं समुच्चार्य दद्याद्दानं यथोदितं। तस्य तुष्टो भवत्याशु भार्गवः कुरुनंदन
शनैश्चरस्य पूजार्थं मंडलं च नराकृति। कृत्वा चूर्णैः कृष्णवर्णैः पूजयेत्तत्र भक्तितः
कृष्णैर्गन्धैश्च पुष्पैश्च वस्त्रैश्चापि तथाविधैः। लोहं च दक्षिणादानं पिण्याकं च तिलस्य च
दानं शनैश्चरारिष्टे कृष्णां गां कृष्णवस्त्रकं। सुवर्णं च यथाशक्ति दद्यान्नीलमणिं तथा
सूर्यसूनो महाभाग छायापुत्र महाबल। अधोदृष्टे भव शने प्रसन्नोऽस्मात्प्रदानतः
एवं स्तुत्वा शनिं भक्त्या यश्च दद्याद्द्विजातये। स्वानुकूलो भवेत्तस्य शनिः पापे च गोचरे
राहोर्वर्णादिकं सर्वं शनिवन्मंडलं तथा। सूर्याकारं समुद्दिष्टं तत्र पूजार्कसूनुवत्
गोमेदं सर्षपाश्चैव तिला माषाश्च कृष्णकाः। महिषी च तथा च्छागो दानं राहोः प्रकीर्तितम्
सिंहिकासुत दैत्येंद्र राहो चंद्रार्कमर्दन। भव तुष्टो महाभाग दानेनानेन सुव्रत
केतोर्मंडलकं कुर्याद्ध्वजाकृतिसुशोभनम्। शनिवत्सकलं ज्ञेयं पूजावर्णादिकं नृप
सप्तधान्यं समुद्दिष्टं सस्वर्णं केतुदानकम्। एवं कृते स्वानुकूलौ भवेतां च नृणां नृप
प्रदद्यातां धनं पुत्रान्सुखं सौभाग्यमेव च। आकृष्णेति रवेर्मंत्र इमं देवास्तथा विधोः
अग्निर्मूर्धेति भौमस्य मंत्रो जप्येर्हणे तथा। उद्बुध्यस्वेतींदुसूनोर्बृहस्पते गुरोस्तथा
अन्नात्परीति शुक्रस्य शन्नोदेवीरयं शनेः। कया न इति राहोश्च केतोः केतुमिति स्मृतः
एते मंत्रास्समुद्दिष्टा ग्रहणां पूजने जपे। एवं कृते नृपश्रेष्ठानुकूला अखिला ग्रहाः
भवंति पुंसां सततं यच्छंति च सुसंपदः। एतन्महाराज मया समस्तं तुभ्यं समुद्दिष्टमिहक्रमेण
श्रुत्वा नरः सर्वश्रुतार्थसारमेतीश्वरस्यैव च सन्निधानम्। इदं पवित्रं यशसो निधानमिदं पितॄणामतिवल्लभं स्यात्
इदं च देवेष्वमृताय कल्पते पुण्यावहं पातकिनां च पुंसाम्। इति पठति यशस्यं यः शृणोतीह भक्त्या मधुमुरनकारेरर्चनं वाथ पश्येत्
मतिमपि च जनानां यो ददातींद्रलोके विधिशिवविबुधेन्द्रैः पूज्यते कल्पमेकम्। य इदं शृणुयान्नित्यमृषीणां चरितं शुभम्
विमुक्तस्सर्वपापेभ्यः स्वर्गलोके महीयते। तपः कृते प्रशंसंति त्रेतायां ज्ञानमेव च