शूलोद्धृतोपि सुचिरमविनष्टोऽथ नम्रधीः। अन्धको गणतां नीत्वा कृतो भृंगीरिटिर्द्विज
ततो देवान्समाभाष्य शुक्रमुद्गीर्णवान्शिवः। भूमौ निपतितो गर्भस्ततो भौम इति स्मृतः
शुक्रश्शिवं समाभाष्य गतो दैत्यान्मुदान्वितः। एवं भौमस्समुत्पन्नो हरांशो भूसमुद्भवः
तस्य पूजा चतुर्थ्यां तु भौमवारे च सुव्रतैः। दशाद्यरिष्टे च तथा गोचरेऽनिष्टराशिगे
त्रिकोणे मंडले चैव रक्तपुष्पानुलेपनैः। एवं वै पूजितो भौमः प्रयच्छति मतिं धनम्
पुत्रान्सुखंयशश्चैवकिंभूयःश्रोतुमिच्छसि। व्यास उवाच-। एतद्वः कथितं शिष्या धर्माख्यानं शुभावहम्
यच्छ्रुत्वा न पुनर्भूयो जायते म्रियतेपि वा। द्विजातीनां पुण्यदं च संसेव्यं च शुभेप्सुभिः
यथासुखं च गच्छध्वं कृतकृत्या ममाज्ञया। ब्रह्मोवाच-। एवं विश्राव्य भगवान्व्यासः सत्यवतीसुतः
निर्णीय धर्मं विविधं शम्याप्रासमगात्सुत। त्वमपि श्रद्धया वत्स ज्ञात्वा तत्त्वं यथासुखम्
विहरस्व यथाकालं गायमानो हरिं मुदा। लोकान्धर्मं चोपदिशन्प्रीणयन्जगतां गुरुम्
पुलस्त्य उवाच-। इत्युक्तः प्रययौ भूप नारदो गंधमादनम्। नारायणं मुनिवरं द्रष्टुं बदरिकाश्रमे
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे भौमोत्पत्तिपूजनं नामैकाशीतितमोऽध्यायः
भीष्म उवाच- श्रुतं सूर्यस्य चंद्रस्य भौमस्यापि प्रपूजनं। बुधस्य सोमसूनोश्च पूजनं कथयाधुना
पुलस्त्य उवाच-। तारागर्भसमुद्भूतो बुधश्चंद्रकुमारकः। सौम्यः क्रूरो ग्रहो ज्ञेयः शुभाशुभप्रदो नृणां
शराकारं मंडलं तु बुधस्य परिकीर्तितं। हरिन्मणिसमैर्वर्णैश्चूर्णैः कुर्यात्तु मंडलं
पूजयेत्तत्र गंधाद्यैः पुष्पैर्धूपैस्सुशोभनैः। दानं च विधिवत्कुर्याद्दशारिष्टे च गोचरे
कर्पूराश्चैव मुद्गाश्च हरिद्वस्त्रं हरिन्मणिः। सुवर्णं च यथाशक्ति दद्याद्बोधनतुष्टये
सोमपुत्र महाप्राज्ञ वेदवेदांगपारग। नमस्ते ग्रहमध्यस्थ प्रसन्नो भव मे सदा
इति स्तुत्वा महाराज बुधं भक्त्या समाहितः। प्राप्नुयान्निखिलान्कामान्सोमसूनुप्रसादतः
गुरोश्च पूजनं प्रोक्तं पट्टसाकारमंडले। पीतवर्णैः सुनिष्पन्नैश्चूर्णैराजन्सुशोभनैः
पीतैर्गंधयुतैः पुष्पैर्वस्त्रैर्हेम्ना च पूजयेत्। दशागोचरयोर्दौष्ट्ये दानं दद्याच्च शक्तितः
चणकद्विदलं चैव पीतवस्त्रं सुवर्णकं। पुष्यरागं तु विप्राय दद्याच्चारिष्टशांतये
बृहस्पते सुराचार्य सर्वशास्त्रविशारद। दानेनानेन संतुष्टो भव सौम्यो ममाधुना
एवं कृते तु राजेंद्र स्वानुकूलो भवेद्गुरुः। सर्वान्कामानवाप्नोति नरो गुरुसमर्चनात्
भार्गवस्यापि वक्ष्यामि पूजनं नृपतेधुना। यत्कृत्वा सर्वकामाप्तिः सम्यक्पुंसां प्रजायते
पंचकोणं समुद्दिष्टं मंडलं भार्गवस्य तु। चूर्णकैः श्वेतवर्णैश्च विधिना सुधिया कृतं
श्वेतगंधैश्च पुष्पैश्च वस्त्रैश्चापि सितैस्तथा। पूजयेद्भार्गवं भक्त्या नरः श्रद्धासमन्वितः
रौप्यं च दक्षिणादानं यथाशक्ति प्रकीर्तितं। दशाद्यरिष्टे चोत्पन्ने सितमश्वं प्रदापयेत्
तंडुलाः श्वेतवस्त्रं च रौप्यं चंदनमेव च। कर्पूरं च सुगंधाढ्यं देयं दानं द्विजातये
भृगुपुत्र महाभाग दानवानां पुरोहित। दानेनानेन संतुष्टो भव सर्वासुरार्चित