ततो देवा विधिं गत्वा वचनं चेदमब्रुवन्। अन्धकेनैव चास्माकं हृतं राज्यं सुखं मखः
तस्मात्तस्य वधोपाय उच्यतां तद्विधीयताम्। अथ धाताऽब्रवीद्वाक्यं देवानस्य च नैधनम्
नास्ति विष्णुवरादेव पीयूषस्य च भक्षणात्। किंतु तस्यासुरत्वस्य यथा परिभवो ध्रुवम्
कुर्वे लोकहितार्थाय श्रद्धां कामसमन्विताम्। विचिकित्सा तु तत्रैव सर्वास्त्रीरतिगच्छति
त्यक्त्वैकां पार्वतीं दुर्गां न तस्य मानसं स्थिरम्। ततः क्रुद्धो जगत्स्वामी तं च वैरूप्यतां नयेत्
ततोऽसुरत्वं संत्यज्य गणस्तस्य भविष्यति। एवमुक्त्वा प्रजाध्यक्षः श्रद्धां कामसमन्विताम्
विचिकित्सां स्वमायां च प्रेषयामास तं प्रति। ततो विचेष्टितः कामाद्योषान्वेषणतत्परः
स्वदारान्परयोषां च नापश्यद्विचिकित्सया। ततो मायाप्रयुक्तोसौ त्रैलोक्यं विचचार ह
दृष्टं च हिमवत्पृष्ठे स्त्रीरत्नं चातिशोभनं। दृष्ट्वा च पार्वतीं दैत्यः कामस्य वशगोऽभवत्
ज्ञानलोपात्ततो दुर्गां ग्रहीतुं तां स चेच्छति। उमा च कोटवीरूपं कृत्वा देहस्य चात्मनः
ईश्वरस्यांतिकस्था च ग्रहीतुं तां ससार सः। ततः कामविचेताश्च उन्मत्तीकृतचेतनः
न जहाति शिवां धात्रीं पार्वतीं दैत्यपुंगवः। ततो ध्यानात्समागम्य मिलितः पार्वतीं धवः
दृष्ट्वा तं च स दैत्येन्द्रः प्रगतस्तु स्वमालयम्। सज्जीकृत्य स्वयोधांश्च शंभुं जेतुं समुत्सुकः
गौरीमेव समानेतुं काममोहादचेतनः। एतच्छ्रुत्वा तु त्रिदशा गत्वा तं नंदिनेरिताः
अकुर्वंश्च महद्युद्धं घोरं लोकभयंकरम्। दैत्यान्रणे मृतांस्तत्र दैत्याचार्यो ह्यजीवयत्
एतद्वृत्तं तु कैलासे सर्वे चैव न्यवेदयन्। क्रोधाच्छंभुस्तदा वाक्यं नंदिनं निजगाद ह
गच्छ दैत्यालयं वीर द्रुतमेव ममाज्ञया। पश्यतां सर्वदैत्यानां दैत्येंद्रस्य च संसदि
गृहीत्वा चिकुरेऽत्यर्थं भार्गवं तं दुरात्मकम्। लब्ध्वा चास्मत्सकाशं वै विह्वलं चानय क्षणात्
ततो नंदीश्वरः श्रीमान्पार्वतीपतिनेरितः। काव्यं तं कुंतले धृत्वा दैत्यानां पुरतो बलात्
आनयंतं च तं दैत्या जघ्नुः प्रहरणैः शरैः। न शेकुस्ते रुजां कर्तुं नंदिनो बलशालिनः
देवानामग्रतो नंदी गृहीत्वा तं च कुंतले। हरस्य पुरतो हृष्टः सह तेन समाययौ
गृहीत्वा भार्गवं शंभुरसुराणां गुरुं रुषा। अगिलद्रौद्रमूर्तोऽसौ कालांतकसमः प्रभुः
ततो दैत्यपतिः क्रुद्धः सर्वसैन्यवृतो बली। दुद्राव शंकरं तत्र घोरैः प्रहरणादिभिः
त्रिदशाश्च तथा क्रुद्धास्ततो विद्याधरादयः। प्रययुः समरं तत्र दैत्यानां च भृशं रुषा
एतस्मिन्नंतरे घोरं युद्धं भीष्मं समुत्थितम्। देवदानवयोरेवं सर्वलोकभयंकरम्
ततः प्रत्ययितास्त्रैश्च देवा निघ्नंति दानवान्। दनुजा निर्जरांस्तत्र विनिघ्नंति महाहवे
शातकुंभमयाङ्गैस्ते शरैर्वज्रसमानकैः। बिभिदू रत्नपुंखैश्च परस्परजयैषिणः
दीपयंति भृशं कांतैस्तद्गात्राणि नभांसि च। वीर्यवंतो महादैत्या न मोघैरस्त्रसंचयैः
हत्वा च पातयामासुः काश्यपाः सुरसत्तमाः। जगद्व्याप्तं महासैन्यं बलायुधसुसंवृतम्
नीतं क्षयं सुरैः सर्वैः शस्त्रैः प्रत्ययितैः क्षणात्। स्वयं च युध्यमानेन महादेवेन यत्नतः