सप्तम्यां च सिते पक्षे पंचदश्यां तथैव च। रोगाद्विमुच्यते रोगी न रोगात्कृच्छ्रमेष्यति
परमं चामरं सत्वमाब्रह्मस्तंबमात्रके। ब्रह्मांडे चाणुमात्रे च सूरः संभावयिष्यते
संहारांतं क्रमात्सर्वमुत्पत्तिस्थितिकारणात्। प्राणसर्गे जनानां स पाता विश्वचरस्तनौ
मृत्युकाले तनोर्मध्यात्प्राणेन सह गच्छति। शीर्षान्तस्थः सदा चंद्रो द्विरष्टकलया युतः
अहर्निशं सुधावृष्टिं देहे वर्षत्यधोमुखः। जंतवस्तेन जीवंति महासत्वानुमात्रकाः
उर्व्यां सस्यानि पुष्णाति तथा स्थावरजंगमान्। एताभ्यां पुष्पवद्भ्यां च धारितं जनितं जगत्
तयोराराधनात्पुष्टिः सदा पुण्यापरार्धिका। साधयेत्सर्वकार्याणि साधकः सर्वदा शुचिः
न पूजयति यो मोहात्सुधांशुं मानवाधमः। आयुस्तस्य क्षयं याति नरकं चाधिगच्छति
निष्कलंक कलाधार गंगाधर शिरोमणे। द्वितीयायां जगन्नाथ तुभ्यं चंद्र नमोस्तु ते
तिथिमन्यामनुप्राप्य नमस्कारं विधोरपि। प्रकरोति नरो यस्तु सोभीष्टं फलमाप्नुयात्
अत्रिनेत्रोद्भव श्रीमन्क्षीरोद मथनोद्भव। महेशमुकटावास तुभ्यं चंद्र नमोस्तुते
दिव्यरूप नमस्तुभ्यं सुधाकर जगत्पते। शुक्लपक्षे तथा कृष्णे त्रियामायां विदुर्बुधाः
ऊँ ह्रां ह्रीं सोमाय नमः इति जप्यमंत्रः। प्रभाते जपनीयः-। एवं यः पूजयेत्सोमं श्रावयेच्च शृणोति वा। स पीयूषसमो लोके भवेज्जन्मनि जन्मनि
एवं सहस्रनाम्ना यः स्तौति पूजयते भुवि। सोऽक्षयं लभते स्वर्गं पुनरावृत्तिदुर्लभम्
इति सोमपूजा-। पित्तले भाजने कांस्ये दधिपूर्णे घृते शिवे। न्यूनोऽधिकस्तु विभवाच्छ्रुत्वा कर्मविमत्सरः
स्वर्णे वा राजते वारे सौम्ये कृष्णभवे बुधम्। संस्थाप्य सर्वसंस्थाने दद्याद्बहुसुताय च
परं भवति सौभाग्यं पीयूषादधिकं भृशम्। स्त्रीणां च पुरुषाणां च न दौर्भाग्यं कदाचन
रूपसौभाग्यकामोहं दधिपूर्णं च भाजनम्। ददामि कांस्यपात्रस्थं देहि सौभाग्यरूपकम्
द्विजाय वाक्यपूर्वेण दद्याद्विमत्सरो नरः। शक्तितो दक्षिणा देया तथा वस्त्रादिकं नवम्
भोज्यान्नं सर्वसम्पूर्णं तांबूलं सुमनोहरम्। पुष्पमालादिकं दद्याद्रूपसौभाग्यहेतवे
एवं यः कुरुते दानं सोमोद्दिष्टं द्विजातये। स्वर्लोके नरलोके वा रूपसौभाग्यभुग्भवेत्
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे सोमार्चनं। नामाशीतितमोऽध्यायः
वैशंपायन उवाच-। उद्भवं लोहितांगस्य संतोषं तु जनेषु च। प्रभावं वैभवं तेजः श्रोतुमिच्छामि तत्त्वतः
व्यास उवाच-। हरांशसंभवो देवः कुजातः पृथिवीसुतः। सत्त्वस्थस्सत्वसंपूर्णश्शूरः शक्तिधरो भुवि
तीक्ष्णः क्रूरग्रहो देवो लोहितांगः प्रतापवान्। कुमारो रूपसंपन्नो विद्युत्पातमयः प्रभुः
अनेन भर्जिता दैत्याः क्रव्यादाय सुरद्विषः। दशायोगाच्च मनुजा उद्भिज्जाः पशुपक्षिणः
वैशंपायन उवाच-। शंभोरेष कथं जातः कथं जातो महीसुतः। ग्रहो देवः कथं क्रूर एतदिच्छामि वेदितुम्
कथमस्य भवेत्तुष्टिः सर्वलोकेषु सर्वदा। गुरो मय्याप्तभावे तु वद निस्संशयं मुखात्
व्यास उवाच-। हिरण्याक्षकुले धीमानसुराणां च पार्थिवः। अंधकेति समाख्यातो दैत्यः सर्वसुरांतकृत्
जातो विष्णुवरादेव जातो विष्णुपराक्रमः। तेनैव निर्जिता देवास्सेन्द्राः क्रतुभुजः क्रमात्