सुरद्रुमैः सुसंपूर्णैः प्रासादैर्द्रुमकल्पकैः। प्रमदाभिर्महाभाग नृत्यगीतादिभिः परैः
पंचकल्पांतरे राजा मन्वादौ त्वं भविष्यसि। अमी ते मनुजा भूप पुरस्थाश्च पुरोधसः
तथा जनपदस्थाश्च विद्वांसो धनिनो नराः। तत्र मत्तो वरं लब्ध्वा सुखं स्वर्गमवाप्स्यथ
एवमुक्त्वा जगच्चक्षुस्तत्रैवांतरधीयत। ततो भद्रेश्वरो राजा सपुरो दिवि मोदते
तत्र कीटादयो ये च ते पीताः ससुतादयः। स्वर्गे देवद्रुमे भोग्यं कुर्वंति महदद्भुतम्
एवमेव नृपा विप्रा मुनयश्शंसितव्रताः। ये च क्षत्रादयो वर्णास्सूर स्वर्गं ययुर्द्रुतम्
कैश्चिदभ्यर्थितं वित्तं पुत्रदारास्तथापरैः। सुखं स्वर्गं तथारोग्यं भास्करस्य प्रसादतः
पुण्यकूटमिदं भद्रं यः पठेन्मानवः शुचिः। सर्वपापक्षयस्तस्य रुद्रवत्पूजितो भुवि
सर्वसाक्षी भवेत्स्वर्गे वरदो भास्करप्रियः। शृणोति संयतो मर्त्यः सोभीष्टं फलमाप्नुयात्
पारगः सर्वपापानां भास्करस्यैव संसदि। वावदूको भवेन्नित्यं श्रवणात्पुण्यवान्धनी
इदं गुह्यातिगुह्यं च भास्करेण प्रचारितं। इदं यमाय कथितं क्षितौ व्यासेन कीर्तितम्
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे भद्रेश्वराख्यानं नामैकोनाशीतितमोऽध्यायः
वैशंपायन उवाच- श्रुतो ग्रहेश्वरस्यैष प्रभावस्त्वत्प्रसादतः। रव्यादीनां ग्रहाणां च साधनं नो वद द्विज
के ते रव्यादयस्तेषां कथं तोषः कथं प्रियम्। काले देशे तु संप्राप्ते दर्शनं तच्छिवाशिवम्
व्यास उवाच-। ग्रहादयो ये लोके तु भुंजंति पुण्यपातकम्। शिवाशिवं च कुर्वंति विश्वकर्मक्षयाय वै
सूरः कालोंतको ज्ञेयो जनेषु च ग्रहेषु च। तिग्मसौम्याच्च योगात्स निग्रहानुग्रहे प्रभुः
ग्रहभावाच्च तस्यैव संतोषं निगदाम्यहम्। उदुम्बरपलाशाभ्यां पल्लवाभ्यां जुहोति यः
आकृष्णेनेति मंत्रेण मूलकेनाथ शांतये। जुहुयादाज्ययुक्ताभ्यामभीष्टफलहेतवे
शांतये सर्वरोगाणां वधबंधविमोचने। एकैकेन तु मंत्रेण होतव्यं च शतंशतम्
शितं चच्छागलं दद्यात्सूरायादित्यवासरे। भोजयेद्ब्राह्मणान्शक्त्या हव्यकव्यैर्मनोहरैः
सप्तम्यां च सिते पक्षे पंचदश्यां तथैव च। रोगाद्विमुच्यते रोगी न रोगात्कृच्छ्रमेष्यति
परमं चामरं सत्वमाब्रह्मस्तंबमात्रके। ब्रह्मांडे चाणुमात्रे च सूरः संभावयिष्यते
संहारांतं क्रमात्सर्वमुत्पत्तिस्थितिकारणात्। प्राणसर्गे जनानां स पाता विश्वचरस्तनौ
मृत्युकाले तनोर्मध्यात्प्राणेन सह गच्छति। शीर्षान्तस्थः सदा चंद्रो द्विरष्टकलया युतः
अहर्निशं सुधावृष्टिं देहे वर्षत्यधोमुखः। जंतवस्तेन जीवंति महासत्वानुमात्रकाः
उर्व्यां सस्यानि पुष्णाति तथा स्थावरजंगमान्। एताभ्यां पुष्पवद्भ्यां च धारितं जनितं जगत्
तयोराराधनात्पुष्टिः सदा पुण्यापरार्धिका। साधयेत्सर्वकार्याणि साधकः सर्वदा शुचिः
न पूजयति यो मोहात्सुधांशुं मानवाधमः। आयुस्तस्य क्षयं याति नरकं चाधिगच्छति
निष्कलंक कलाधार गंगाधर शिरोमणे। द्वितीयायां जगन्नाथ तुभ्यं चंद्र नमोस्तु ते
तिथिमन्यामनुप्राप्य नमस्कारं विधोरपि। प्रकरोति नरो यस्तु सोभीष्टं फलमाप्नुयात्