नष्टं जगदिदं राजंस्तस्मान्नो वक्तुमर्हसि। अयमस्य प्रतीकारो ह्यस्माभिरवगम्यते
सूरं मंत्रैर्महादेवं यत्नादाराधय प्रभो। राजोवाच- केनोपायेन विप्रेंद्रास्तोषयिष्यामि भास्करं
अमेध्येनाथ कुष्ठेन लोकानां गर्हितेन च। अदृश्यः सर्वभूतानां गर्हितोस्मि द्विजातयः
किं करिष्यामि राज्यं च किं स्यादाराधनेन तु। द्विजा ऊचुः-। अत्र स्थित्वा स्वराज्ये तु समुपास्य विरोचनं
प्रमुच्य किल्विषाद्घोरात्स्वर्गं मोक्षं च लप्स्यसे। एतच्छ्रुत्वा तु राजेंद्रः प्रणिपत्य द्विजोत्तमान्
आकार्षीत्तस्य सूर्यस्य परमाराधनं च यत्। नित्यपूजां तथा मंत्रैरुपहारैर्विलेपनैः
फलैर्नानाविधैरर्घैरक्षतातप तंडुलैः। जपापुष्पार्कपर्णैश्च करवीरकरंजकैः
रक्तकुंकुमसिन्दूरैस्तथा वासंतिकादिभिः। सुगंधकदलीपत्रैस्तत्फलैः सुमनोहरैः
अर्घ्यमौदुंबरे कृत्वा सदा सूर्याय पार्थिवः। आदित्यसंमुखो दत्ते सदा मंत्रिपुरोहितैः
महिषीभिस्तथा चार्घो भोगिनीभिः समंततः। सर्वैरंतःपुरस्थैश्च सपत्नीकैश्च रक्षिभिः
चेटवर्गैस्तथान्यैश्च दीयतेऽर्घो दिनेदिने। अर्कशांतिभिरत्युग्रैः स्तोत्रमंत्रादिभिः परैः
मूलमंत्रान्यमंत्रैश्च यजंति स्म दिवाकरं। तथार्कांगव्रतं चान्यत्कृतं तैः सुसमाहितैः
क्रमात्समांसमासाद्य रोगस्यांतं गतो नृपः। बाधिते चामये घोरे स राजा निखिलं जगत्
नियम्य कारयामास कल्ये च याजनव्रतम्। एवमेव जपापुष्पं सुगंधं कदलीफलम्
बाणैर्जायाभिरालभ्यमर्कपर्णान्यपुष्पकं। एवमेव महापुण्यं कृत्वा सर्वजनप्रियं
हविष्यान्नो निराहारो जनो यजति भास्करम्। एवमेव त्रिभिर्वर्गैरर्चितस्तैर्विभाकरः
संतुष्टो भूपमागम्य कृपया चाब्रवीद्वचः। वरं वरय चाभीष्टं यस्ते मनसि वर्तते
सर्वेषां वो हितार्थाय सानुगः पुरवासिनाम्। राजोवाच-। यदीच्छसि वरं दातुं सर्वलोचनमत्प्रियम्
सर्वेषां नः परं स्वर्गं त्वत्सकाशे भवत्विति। सूर्य उवाच-। अमात्यास्ते द्विजा विप्राः सदारास्सपरिच्छदाः
नवीनयौवनाः शुद्धा यावदाभूतसंप्लवम्। तिष्ठंतु मत्पुरे रम्ये सर्वभोगैर्निरामयाः
सुरद्रुमैः सुसंपूर्णैः प्रासादैर्द्रुमकल्पकैः। प्रमदाभिर्महाभाग नृत्यगीतादिभिः परैः
पंचकल्पांतरे राजा मन्वादौ त्वं भविष्यसि। अमी ते मनुजा भूप पुरस्थाश्च पुरोधसः
तथा जनपदस्थाश्च विद्वांसो धनिनो नराः। तत्र मत्तो वरं लब्ध्वा सुखं स्वर्गमवाप्स्यथ
एवमुक्त्वा जगच्चक्षुस्तत्रैवांतरधीयत। ततो भद्रेश्वरो राजा सपुरो दिवि मोदते
तत्र कीटादयो ये च ते पीताः ससुतादयः। स्वर्गे देवद्रुमे भोग्यं कुर्वंति महदद्भुतम्
एवमेव नृपा विप्रा मुनयश्शंसितव्रताः। ये च क्षत्रादयो वर्णास्सूर स्वर्गं ययुर्द्रुतम्
कैश्चिदभ्यर्थितं वित्तं पुत्रदारास्तथापरैः। सुखं स्वर्गं तथारोग्यं भास्करस्य प्रसादतः
पुण्यकूटमिदं भद्रं यः पठेन्मानवः शुचिः। सर्वपापक्षयस्तस्य रुद्रवत्पूजितो भुवि
सर्वसाक्षी भवेत्स्वर्गे वरदो भास्करप्रियः। शृणोति संयतो मर्त्यः सोभीष्टं फलमाप्नुयात्
पारगः सर्वपापानां भास्करस्यैव संसदि। वावदूको भवेन्नित्यं श्रवणात्पुण्यवान्धनी