एष जप्यश्च होमश्च संध्योपासनमेव च। सर्वशांतिकरश्चैव सर्वविघ्नविनाशनः
नाशयेत्सर्वरोगांश्च लूताविस्फोटकादिकान्। कामलादिकरोगांश्च ये रोगाश्चैव दारुणाः
एकाहिकं त्र्यहिकं च ज्वरं चातुर्थिकं तथा। कुष्ठं रोगं क्षयं रोगं कुक्षिरोगं ज्वरं तथा
अश्मरीमूत्रंकृच्छ्रांश्च नानारोगामयांस्तथा। ये वातप्रभवा रोगा ये रोगा गर्भसंभवाः
मर्दयन्तो महारोगा मर्दिता वेदनात्मकाः। विलयं यांति ते सर्व आदित्योच्चारणेन तु
रक्ष मां देवदेवेश ग्रहरोगभयेषु च। प्रशमं यांति ते सर्वे कीर्तिते तु दिवाकरे
मूलमंत्रं प्रवक्ष्यामि सर्वकामार्थसाधकम्। भुक्तिमुक्तिप्रदं नित्यं भास्करस्य महात्मनः
मंत्रश्चायं ॐ ह्रां ह्रीं सः सूर्याय नमः। अनेन मंत्रेण सदा सर्वसिद्धिर्भवेद्ध्रुवं५० 1.78.
व्याधयो वै न बाधंते न चानिष्टं भयं भवेत्। सूर्यावर्तोदकं यस्तु गृहीत्वा तु क्रमेण तु
तस्य प्राशनमात्रेण नरो रोगात्प्रमुच्यते। न दातव्यं न ख्यातव्यं जप्तव्यं च प्रयत्नतः
अभक्तेष्वनपत्येषु पाषण्डलौकिकेषु च। कटुतैलसमायुक्तं नस्ये पाने च दापयेत्
सूर्यावर्तजलं पुत्र सर्वरोगाद्विमुच्यते। मूलमंत्रस्तु जप्तव्यः संध्यायां होमकर्मसु
जप्यमाने तु नश्यंति रोगाः क्रूरग्रहास्तथा। किमन्यैर्बहुभिः शास्त्रैर्मंत्रैर्वा बहुविस्तरैः
सर्वशांतिरियं वत्स सर्वार्थप्रतिसाधिका। नास्तिकाय न दातव्या देवब्राह्मणनिंदके
गुरुभक्ताय दातव्या नान्येभ्योपि कदाचन। प्रातरुत्थाय यो नित्यं कीर्तयिष्यति मानवः
गोघ्नः कृतघ्नकश्चैव मुच्यते सर्वपातकैः। शरीरारोग्यकृच्चैव धनवृद्धियशस्करः
जायते नात्र संदेहो यस्य तुष्येद्दिवाकरः। एककालं द्विकालं वा त्रिकालं नित्यमेव च
यः पठेद्रविसान्निध्ये सोऽभीष्टं फलमाप्नुयात्। पुत्रार्थी लभते पुत्रं कन्यार्थी कन्यकां लभेत्
विद्यार्थी लभते विद्यां धनार्थी लभते धनं। शृणुयात्संयुतो भक्त्या शुद्धाचारसमन्वितः
सर्वपापविनिर्मुक्तस्सूर्यलोकं व्रजत्यपि। भास्करस्य व्रते यच्च व्रताचारमखेषु च
पुण्यस्थानेषु तीर्थेषु पठेत्कोटिगुणं भवेत्। ग्रहे भोज्येषु पूजायां ब्रह्मभोज्ये द्विजाग्रतः
य इदं पठते विप्रस्तस्यानंतफलं भवेत्। तपस्विनां च विप्राणां देवानामग्रतः सुधीः
यः पठेत्पाठयेद्वापि सुरलोके महीयते
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे सूर्यशांतिर्नामाष्टसप्ततितमोऽध्यायः
व्यास उवाच- मध्यदेशे स्वराट् सम्राट् भद्रेश्वर इति श्रुतः। तपोभिर्बहुभिः पूतो व्रतैर्नानाविधैरपि
देवांस्तु पूजयेन्नित्यं सुभावेन सदा खलु। तस्य सव्येऽभवत्कुष्ठं करे श्वेतमजायत
ततो भिषक्प्रयोगाच्च लक्षणं दृश्यते पुरा। आहूय द्विजमुख्यांश्च मंत्रिणः सोब्रवीद्वचः
राजोवाच-। किल्बिषं मे करे विप्रा दुःसहं लोकगर्हितं। तस्मात्पुण्यं महाक्षेत्रं यत्र त्यक्ष्यामि विग्रहं
आज्ञापयत धर्मज्ञाः परलोकहिताय वै। वंशहीनस्य मे वीराः प्रेत्यामुत्र हितं च यत्
तद्ब्रूत सुप्रसन्ना म उद्दिष्टं यत्करोम्यहं। द्विजा ऊचुः। परित्यक्ते त्वया राष्ट्रे धर्मशीलेन धीमता