एकोसौ बहुधा भूत्वा कालभेदादनिंदितः। मासे मासे तु तपति एको द्वादशतां व्रजेत्
मित्रो मार्गशिरे मासि पौषे विष्णुः सनातनः। वरुणो माघमासे तु सूर्यो वै फाल्गुने तथा
चैत्रे मासि तपेद्भानुर्वैशाखे तापनः स्मृतः। ज्येष्ठमासे तपेदिंद्र आषाढे तपते रविः
गभस्तिः श्रावणे मासि यमो भाद्रपदे तथा। हिरण्यरेताश्वयुजि कार्तिके तु दिवाकरः
इत्येते द्वादशादित्या मासि मासि प्रकीर्तिताः। उरुरूपा महातेजा युगांतानलवर्चसः
य इदं पठते नित्यं तस्य पापं न विद्यते। न रोगो न च दारिद्र्यं नावमानो भवेत्क्वचित्
अक्षयं लभते स्वर्गं सुखं राज्यं यशः क्रमात्। महामंत्रं प्रवक्ष्यामि सर्वप्रीतिकरं परम्
ऊँ नमः सहस्रबाहवे आदित्याय नमोनमः। नमस्ते पद्महस्ताय वरुणाय नमोनमः
नमस्तिमिरनाशाय श्रीसूर्याय नमोनमः। नमः सहस्रजिह्वाय भानवे च नमोनमः
त्वं च ब्रह्मा त्वं च विष्णू रुद्रस्त्वं च नमोनमः। त्वमग्निः सर्वभूतेषु वायुस्त्वं च नमोनमः
सर्वगः सर्वभूतेषु नहि किंचित्त्वया विना। चराचरे जगत्यस्मिन्सर्वदेहे व्यवस्थितः
इति जप्त्वा लभेत्कामं स्वर्गभोग्यादिकं क्रमात्। आदित्यो भास्करः सूर्यो अर्को भानुर्दिवाकरः
सुवर्णरेता मित्रश्च पूषा त्वष्टा च ते दश। स्वयंभूस्तिमिराशश्च द्वादशः परिकीर्तितः
नामान्येतानि सूर्यस्य शुचिर्यस्तु पठेन्नरः। सर्वपापाच्च रोगाच्च मुक्तो याति परां गतिम्
पुनरन्यत्प्रवक्ष्यामि भास्करस्य महात्मनः। रक्ताख्याये रक्तनिभास्सिंदूरारुणविग्रहाः
यानि नामानि मुख्यानि तच्छृणुष्व षडानन। तपनस्तापनश्चैव कर्त्ता हर्त्ता ग्रहेश्वरः
लोकसाक्षी त्रिलोकेषु व्योमाधिपो दिवाकरः। अग्निगर्भो महाविप्रः स्वर्गः सप्ताश्ववाहनः
पद्महस्तस्तमोभेदी ऋग्वेदो यजुस्सामगः। कालप्रियं पुंडरीकं मूलस्थानं च भावितम्
यः स्मरेच्च सदा भक्त्या तस्य रोगभयं कुतः। शृणु कार्तिक यत्नेन सर्वपापहरं शुभम्
न संदेहो मनाक्कार्य आदित्यस्य महामते। ऊँ इंद्राय नमः ऊँ विष्णवे नमः
एष जप्यश्च होमश्च संध्योपासनमेव च। सर्वशांतिकरश्चैव सर्वविघ्नविनाशनः
नाशयेत्सर्वरोगांश्च लूताविस्फोटकादिकान्। कामलादिकरोगांश्च ये रोगाश्चैव दारुणाः
एकाहिकं त्र्यहिकं च ज्वरं चातुर्थिकं तथा। कुष्ठं रोगं क्षयं रोगं कुक्षिरोगं ज्वरं तथा
अश्मरीमूत्रंकृच्छ्रांश्च नानारोगामयांस्तथा। ये वातप्रभवा रोगा ये रोगा गर्भसंभवाः
मर्दयन्तो महारोगा मर्दिता वेदनात्मकाः। विलयं यांति ते सर्व आदित्योच्चारणेन तु
रक्ष मां देवदेवेश ग्रहरोगभयेषु च। प्रशमं यांति ते सर्वे कीर्तिते तु दिवाकरे
मूलमंत्रं प्रवक्ष्यामि सर्वकामार्थसाधकम्। भुक्तिमुक्तिप्रदं नित्यं भास्करस्य महात्मनः
मंत्रश्चायं ॐ ह्रां ह्रीं सः सूर्याय नमः। अनेन मंत्रेण सदा सर्वसिद्धिर्भवेद्ध्रुवं५० 1.78.
व्याधयो वै न बाधंते न चानिष्टं भयं भवेत्। सूर्यावर्तोदकं यस्तु गृहीत्वा तु क्रमेण तु
तस्य प्राशनमात्रेण नरो रोगात्प्रमुच्यते। न दातव्यं न ख्यातव्यं जप्तव्यं च प्रयत्नतः