अर्काङ्गाख्यविधिस्त्वत्तो मयैवं विस्तराच्छ्रुतः। वारादेर्यत्फलं नाथ श्रोतुमिच्छामि तत्त्वतः
ईश्वर उवाच- रक्तपुष्पै रवेर्वारे त्वर्घ्यं दद्याद्व्रती नरः। नक्ताहारं हविष्यान्नं कृत्वा स्वर्गान्न हीयते
सप्तम्याश्च सदाचारं सर्वमेवार्कवासरे। कुर्वतः प्रीतिमाप्नोति सगणः परमेश्वरः
शूरस्य सदृशं याति तिथिवारस्य पालनात्। एकेन गाणपत्यस्य यावत्सूरो नभस्तले
सर्वकामप्रदं पुण्यमैश्वर्यं रोगनाशनम्। स्वर्गदं मोक्षदं पुण्यं रवेर्वारे व्रतं हितम्
रविवारेण संक्रांत्या सप्तम्या तद्दिने शिवे। व्रतपूजादिकं चाप्यं सर्वं चाक्षयतां व्रजेत्
आदित्यवासरे शुभ्रे ग्रहाधिपप्रपूजनम्। प्राणादहतवक्त्रेण निःसार्य मंडले न्यसेत्
द्विभुजं रक्तपद्मस्थं सुगलं रक्तवाससं। सर्वरक्ताभरणं ध्यात्वा हस्ताभ्यां पुष्पं विधृतसंघ्रायैशान्यां क्षिपेत्
आदित्याय विद्महे भास्कराय धीमहि। तन्नो भानुः प्रचोदयात्
ततो गुरूपदिष्टेन विधिना च विलेपनम्। विलेपनांते सद्धूपं धूपांते च प्रदीपकम्
प्रदीपांते च नैवेद्यं ततो वारि निवेदयेत्। ततो जप्यं स्तुतिं मुद्रां नमस्कारं तु कारयेत्
अंजलि प्रथमा मुद्रा द्वितीया धेनुका स्मृता। एवं यः पूजयेदर्कं रविसायुज्यमाव्रजेत्
मम ब्रह्मवधं घोरं कपालं करलग्नकम्। रवेस्तस्यप्रसादात्तु मुक्तं वाराणसीतटे
रवेः परतरं दैवं त्रैलोक्ये तु न विद्यते। यस्य प्रसादतो घोरान्मुक्तोहं गुरुकिल्बिषात्
स्कंद उवाच-। श्रुत्वा त्वत्तो गिरं नाथ विस्मयो मेऽभवत्प्रभो। त्वदन्योस्ति न को देवः कथं ब्रह्मवधं त्वयि
त्वं च ज्ञानीश्वरो योगी लोके भोक्ताऽक्षरोऽव्ययः। देवानां गुरुरेकस्त्वं व्याप्तरूपी महेश्वरः
सर्वज्ञो वरदो नित्यं सर्वेषां प्राणिनां प्रभुः। दुष्कृतं ते कुतो नाथ तथा क्रोधो विशेषतः
शिव उवाच- लोकानां च हितार्थाय पृथग्भूता युगे युगे। सर्वं कुर्मो वयं पुत्र ब्रह्मविष्णुमहेश्वराः
नास्माकं बंधमोक्षौ च नाकार्यं कार्यमेव वा। तथा लोकस्य रक्षार्थं चरामो विधिपूर्वकम्
सर्वं च परमं चैव सर्वविघ्नविनाशनम्। सर्वरोगप्रशमनं सर्वार्थप्रतिसाधकम्
एकोसौ बहुधा भूत्वा कालभेदादनिंदितः। मासे मासे तु तपति एको द्वादशतां व्रजेत्
मित्रो मार्गशिरे मासि पौषे विष्णुः सनातनः। वरुणो माघमासे तु सूर्यो वै फाल्गुने तथा
चैत्रे मासि तपेद्भानुर्वैशाखे तापनः स्मृतः। ज्येष्ठमासे तपेदिंद्र आषाढे तपते रविः
गभस्तिः श्रावणे मासि यमो भाद्रपदे तथा। हिरण्यरेताश्वयुजि कार्तिके तु दिवाकरः
इत्येते द्वादशादित्या मासि मासि प्रकीर्तिताः। उरुरूपा महातेजा युगांतानलवर्चसः
य इदं पठते नित्यं तस्य पापं न विद्यते। न रोगो न च दारिद्र्यं नावमानो भवेत्क्वचित्
अक्षयं लभते स्वर्गं सुखं राज्यं यशः क्रमात्। महामंत्रं प्रवक्ष्यामि सर्वप्रीतिकरं परम्
ऊँ नमः सहस्रबाहवे आदित्याय नमोनमः। नमस्ते पद्महस्ताय वरुणाय नमोनमः
नमस्तिमिरनाशाय श्रीसूर्याय नमोनमः। नमः सहस्रजिह्वाय भानवे च नमोनमः
त्वं च ब्रह्मा त्वं च विष्णू रुद्रस्त्वं च नमोनमः। त्वमग्निः सर्वभूतेषु वायुस्त्वं च नमोनमः