अश्वरत्नं सुवर्णं च रक्तवस्त्रं च धान्यकम्। ददाति भास्कर प्रीत्या स्वर्ग मर्त्यपतिः क्रमात्
एषां भेदं प्रवक्ष्यमि शृणु विप्र यथार्थवत्। उत्तमाभरणैर्युक्तं सद्वाहं यो ददाति ह
समुद्रैस्सप्तभिर्जुष्टां भूमिमेत्यारिवर्जिताम्। लभेद्भवांतरे मर्त्यमेकेनैकाधिपो भवेत्
अश्वहीनं च पत्रांगं वृषभैर्वाप्यलंकृतम्। हेममाषं द्विमाषं वा दक्षिणा विहिता बुधैः
रत्नभांडं महार्थं च हैमैरेव कृतं च यत्। स्वर्णं वा केवलं दत्वा त्रिविष्टपधनेश्वरः
रक्तवस्त्रं च धान्यं च शक्तितो यः प्रयच्छति। स्वर्गोर्व्योरीशतामेति न तं लक्ष्मीर्विमुंचति
अरोगी सुप्रसन्नात्मा दस्युजेता प्रतापवान्। यावत्प्रभासते भानुस्तावत्पूज्यतमो हि सः
माघादौ द्वादशींमायां सप्तमीं कारयेत्स तु। इहाभीष्टफलं भुक्त्वा सुरैश्चैव प्रपूज्यते
अर्काङ्गसप्तमी व्रतं कृत्वा च विधिवद्बुधः। पापात्पूत इहाभीष्टं संप्राप्य मुक्तिमाप्नुयात्
लक्षणं च प्रवक्ष्यामि मासि मासि च यो विधिः। व्रतस्यास्य प्रसादाच्च सुराणामर्चितो दिवि
शुक्लपक्षे रविदिने प्रवृत्ते चोत्तरायणे। पुंनामधेयनक्षत्रे गृह्णीयात्सप्तमीव्रतम्
हस्तो मैत्रं तथा पुष्यः श्रवो मृग पुनर्वसु। पुंनामधेय नक्षत्राण्येतान्याहुर्मनीषिणः
पंचम्यामेकभक्तं तु षष्ठ्यां नक्तं प्रकीर्तितम्। सप्तम्यामुपवासं च अष्टम्यां पारणं भवेत्
अर्काग्रं शुचिगोमयं सुमरिचं तोयं फलं चाश्नुते । मूलं नक्तमुपोषणं च विधिवत्कृत्वैकभक्तं तथा। क्षीरं वाप्यशनं घृताक्तमिति च प्रोक्ताः क्रमेणामुना। कृत्वा वासरसप्तमीं दिनकृतः प्राप्नोत्यभीष्टं फलं
अर्काग्रं ग्रामात्पूर्वोत्तरदिग्गतार्कविटपस्य शाखाग्रस्थितं। विशिष्टं सूक्ष्मपत्रद्वयं सतोयं दन्तैरस्पृष्टं पातव्यं। शुचिगोमयं भूमावपतितं मद्याङ्गुष्ठाभ्यां पलमात्रं दन्तैरस्पृष्टं सतोयं पातव्यम्। सुमरिचमव्रणमपुरातनं स्थूलमवशुष्कमेकं दन्तैरस्पृष्टं सतोयं पातव्यम्। तोयं ब्रह्मपित्रङ्गुलीमूलप्रसरं पातव्यम्फलं खर्जूरनारिकेलानामन्यतमं दंतैरस्पृष्टं पातव्यं घृताक्तमिति चाहारं मयूरडिंभपरिमाणं। घृतमपि तत्परिमाणम्
आत्मनो द्विगुणां छायां यदा कुर्वीत भास्करः। तदा नक्तं विजानीयान्न नक्तं निशिभोजनं
प्रथमं पूजयेद्देवं फलपुष्पादिमंत्रकैः। अन्नदानं ततः कुर्याद्विध्युक्तपरिमाणकं
ततो ध्यानम्-। सर्वलक्षणसंपूर्णं सर्वाभरणभूषितं। द्विभुजं रक्तवर्णं च रक्तपंकजधृत्करं
तेजोबिंबं बहुजलमध्यस्थं सपरिच्छदं। पद्मासनगतं देवं रक्तगंधानुलेपनं
आदित्यं चिंतयेद्देवं पूजाकाले विशेषतः। अथ मंत्रश्चायं-। भास्कराय विद्महे सहस्ररश्मये धीमहि तन्नः सूर्यः प्रचोदयात्
जप्य एष परः प्रोक्तःसप्तम्यां विजयावहः। करवीरैः करंजैश्च रक्तकुंकुमसन्निभैः
पश्चाच्च पारणा कार्या तथाष्टम्यां विशेषतः। अष्टम्यामेव कर्तव्यं नवम्यां नैव पारणं
व्रते फलं न चाप्नोति नवम्यां पारणे कृते। पारणं त्वपराह्णे तु कटुतिक्ताम्लवर्जितं
तंडुलं शोधयेद्यत्नात्तृणबीजादिकं त्यजेत्। मुद्ग माष तिलादीनि घृतं च परिवर्जयेत्१०० 1.77.100 ब्राह्मणान्भोजयेद्भक्त्या शक्तः क्षीरादिहव्यकैः। यथाशक्त्यन्नपानैश्च व्यंजनैश्च निरामिषैः
विप्राय दक्षिणां दद्याद्विभज्य चानुरूपतः। इमामनंतफलदां यः कुर्यात्सप्तमीं नरः
सर्वपापप्रशमनीं धनपुत्रविवर्धनीम्। मासि मासि द्विजश्रेष्ठ व्रतं कृत्वार्कतुष्टये
यः कुर्यात्पारणं भक्त्या सूर्यलोकं स गच्छति। कल्पकोटिं वसेत्स्वर्गे ततो याति परां गतिं
इदमेव परं गुह्यं भाषितं शंभुना पुरा। श्रवणात्सततं तस्य व्रतस्य परिपालनात्। श्रावयेद्वापि लोकस्य फलं तुल्यं प्रकीर्तितं
वैशम्पायन उवाच- भगवंस्त्वत्प्रसादाच्च श्रुतं मे पावनं व्रतं। अपरं श्रोतुमिच्छामि ब्रध्नस्य च प्रियं च यत्
व्यास उवाच- कैलासशिखरे रम्ये सुखासीनं महेश्वरं। प्रणम्य शिरसा भूमौ स्कंदो वचनमब्रवीत्