यज्ञसूत्रं ससिंदूरं दत्वा चार्घं सुशोभनम्। सर्वपापं क्षयं याति सप्तजन्मकृतं च यत्
नरकैः पीड्यते तावद्रोगैः पापैश्च दुःखदैः। हविष्यं भोजयेदन्नं शुद्धमातपतंडुलैः
वर्जयेच्च शिलाघृष्टं शृंगबेरं तु शाककम्। कोरदूषकपत्रं च रंभाच्छागीघृतं तथा
केशकीटादिकं वर्ज्यमुष्णोदस्नानमेव च। अल्पबीजादिकं सर्वं व्रते सूरस्य वर्जयेत्
अन्यच्च नाचरेत्तत्र धर्मचिंतां विना व्रती। सौरव्रतं महापुण्यं पुराणैरभिनंदितम्
वर्षकोटिसहस्राणि वर्षकोटिशतानि च। आदित्यस्य समं भोग्यं लभते दिवि शाश्वतम्
एवं स्वर्गक्षयादेव राजा भूमौ महाधनी। मर्त्यलोके पुराभ्यासात्करोति भास्करव्रतम्
तथा स्वयं सुखं भोग्यं लभते दिवि शाश्वतम्। आरोग्यं संपदं जन्मी भास्करस्य प्रसादतः
रविवारे भवेद्या च सप्तमी माघशुक्लके। महाजयेति विख्याता अन्यत्र विजया स्मृता
विजया कोटिलक्षं स्यादनंतं स्यान्महाजया। तत्रैकेन व्रतेनैव मुच्यते जन्मबंधनात्
अश्वरत्नं सुवर्णं च रक्तवस्त्रं च धान्यकम्। ददाति भास्कर प्रीत्या स्वर्ग मर्त्यपतिः क्रमात्
एषां भेदं प्रवक्ष्यमि शृणु विप्र यथार्थवत्। उत्तमाभरणैर्युक्तं सद्वाहं यो ददाति ह
समुद्रैस्सप्तभिर्जुष्टां भूमिमेत्यारिवर्जिताम्। लभेद्भवांतरे मर्त्यमेकेनैकाधिपो भवेत्
अश्वहीनं च पत्रांगं वृषभैर्वाप्यलंकृतम्। हेममाषं द्विमाषं वा दक्षिणा विहिता बुधैः
रत्नभांडं महार्थं च हैमैरेव कृतं च यत्। स्वर्णं वा केवलं दत्वा त्रिविष्टपधनेश्वरः
रक्तवस्त्रं च धान्यं च शक्तितो यः प्रयच्छति। स्वर्गोर्व्योरीशतामेति न तं लक्ष्मीर्विमुंचति
अरोगी सुप्रसन्नात्मा दस्युजेता प्रतापवान्। यावत्प्रभासते भानुस्तावत्पूज्यतमो हि सः
माघादौ द्वादशींमायां सप्तमीं कारयेत्स तु। इहाभीष्टफलं भुक्त्वा सुरैश्चैव प्रपूज्यते
अर्काङ्गसप्तमी व्रतं कृत्वा च विधिवद्बुधः। पापात्पूत इहाभीष्टं संप्राप्य मुक्तिमाप्नुयात्
लक्षणं च प्रवक्ष्यामि मासि मासि च यो विधिः। व्रतस्यास्य प्रसादाच्च सुराणामर्चितो दिवि
शुक्लपक्षे रविदिने प्रवृत्ते चोत्तरायणे। पुंनामधेयनक्षत्रे गृह्णीयात्सप्तमीव्रतम्
हस्तो मैत्रं तथा पुष्यः श्रवो मृग पुनर्वसु। पुंनामधेय नक्षत्राण्येतान्याहुर्मनीषिणः
पंचम्यामेकभक्तं तु षष्ठ्यां नक्तं प्रकीर्तितम्। सप्तम्यामुपवासं च अष्टम्यां पारणं भवेत्
अर्काग्रं शुचिगोमयं सुमरिचं तोयं फलं चाश्नुते । मूलं नक्तमुपोषणं च विधिवत्कृत्वैकभक्तं तथा। क्षीरं वाप्यशनं घृताक्तमिति च प्रोक्ताः क्रमेणामुना। कृत्वा वासरसप्तमीं दिनकृतः प्राप्नोत्यभीष्टं फलं
अर्काग्रं ग्रामात्पूर्वोत्तरदिग्गतार्कविटपस्य शाखाग्रस्थितं। विशिष्टं सूक्ष्मपत्रद्वयं सतोयं दन्तैरस्पृष्टं पातव्यं। शुचिगोमयं भूमावपतितं मद्याङ्गुष्ठाभ्यां पलमात्रं दन्तैरस्पृष्टं सतोयं पातव्यम्। सुमरिचमव्रणमपुरातनं स्थूलमवशुष्कमेकं दन्तैरस्पृष्टं सतोयं पातव्यम्। तोयं ब्रह्मपित्रङ्गुलीमूलप्रसरं पातव्यम्फलं खर्जूरनारिकेलानामन्यतमं दंतैरस्पृष्टं पातव्यं घृताक्तमिति चाहारं मयूरडिंभपरिमाणं। घृतमपि तत्परिमाणम्
आत्मनो द्विगुणां छायां यदा कुर्वीत भास्करः। तदा नक्तं विजानीयान्न नक्तं निशिभोजनं
प्रथमं पूजयेद्देवं फलपुष्पादिमंत्रकैः। अन्नदानं ततः कुर्याद्विध्युक्तपरिमाणकं
ततो ध्यानम्-। सर्वलक्षणसंपूर्णं सर्वाभरणभूषितं। द्विभुजं रक्तवर्णं च रक्तपंकजधृत्करं
तेजोबिंबं बहुजलमध्यस्थं सपरिच्छदं। पद्मासनगतं देवं रक्तगंधानुलेपनं
आदित्यं चिंतयेद्देवं पूजाकाले विशेषतः। अथ मंत्रश्चायं-। भास्कराय विद्महे सहस्ररश्मये धीमहि तन्नः सूर्यः प्रचोदयात्