षडशीतिसहस्राणि षडशीतौ फलं भवेत्। विष्णुपद्यां तु लक्षं तु अयने कोटिकोटकं
विष्णुपद्यां तु यद्दानमक्षयं परिकीर्तितं। दातुर्वदामि सान्निध्यं सदा जन्मनिजन्मनि
शीते तूलपटीदानान्न दुःखं जायते तनौ। तुलादाने तल्पदाने द्वयोरेवाक्षयं फलं
सर्वोपकरणां शय्यां यो ददाति विमत्सरः। वर्णमुख्याय विप्राय स राजपदवीं लभेत्
तथैवाग्निं जलं दत्वा नदीतीरे पथिप्रगे। दत्वा च तैलतांबूलमूर्व्या अधिपतिर्भवेत्५० 1.77.50 सत्यभावाद्द्विजं नत्वा धनी चाक्षयतां व्रजेत्। माघे मास्यसिते पक्षे पंचदश्यामहर्मुखे
पितॄंस्तिलजलैरेव तर्पयित्वाक्षयो दिवि। सुलक्षणां च गां दत्वा हेमशृंगां मणिप्रभाम्
रौप्यखुरप्रदेशां च तथा कांस्यसुदोहनाम्। एतां दत्वा द्विजाग्र्याय सार्वभौमो भवेन्नृपः
दत्वान्नाभरणं राजा मंडलेशो धनीश्वरः। तिलधेनुं तु यो दद्यात्सर्वोपस्करणान्विताम्
सप्तजन्मार्जितात्पापान्मुक्तो नाकेऽक्षयो भवेत्। भोज्यान्नं ब्राह्मणे दत्वा अक्षयं स्वर्गमश्नुते
धान्यं वस्त्रं तथा भृत्यं गृहपीठादिकं च यत्। यो ददाति द्विजाग्र्याय तं च लक्ष्मीर्न मुंचति
यत्किंचिद्दीयते दानं स्वल्पं वा यदि वा बहु। अक्षयं परलोकेषु युगाद्यासु तथैव च
यद्वा देवार्चनं स्तोत्रं धर्माख्यानप्रतिश्रवः। पुनाति सर्वपापेभ्यो दिवि पूज्यो भवत्यसौ
तृतीया माघमासस्य सिता मन्वंतरा स्मृता। तस्यां यद्दीयते दानं सर्वमक्षयमुच्यते
धनं भोग्यं तथा राज्यं नाकं कल्पांतरस्थितम्। तस्माद्दानं सतां पूजा प्रेत्यानंतफलप्रदा
मन्वंतरा तु माघे स्यात्सप्तमी या शितीतरा। तिथिः पुण्यतमा प्रोक्ता पुराणैरभिरक्षिता
माघमासे सिते पक्षे सप्तमी कोटिभास्करा। तामुपोष्य नरः पुण्यां मुच्यते नात्र संशयः
सूर्यग्रहणतुल्या हि शुक्ला माघस्य सप्तमी। अरुणोदयवेलायां तस्यां स्नानं महाफलम्
यच्च तत्र कृतं पापं मया सप्तसु जन्मसु। तन्मे रोगं च शोकं च भास्करी हंतु सप्तमी
जननी सर्वभूतानां सप्तमी सप्तसप्तिके। सप्तम्यामुदिते देवि नमस्ते रविमंडले
अर्कपत्रं यवाः पुष्पं सुगंधं बदरीफलम्। तत्पत्रे ताम्रपात्रे वा युक्तमानीय तण्डुलम्
यज्ञसूत्रं ससिंदूरं दत्वा चार्घं सुशोभनम्। सर्वपापं क्षयं याति सप्तजन्मकृतं च यत्
नरकैः पीड्यते तावद्रोगैः पापैश्च दुःखदैः। हविष्यं भोजयेदन्नं शुद्धमातपतंडुलैः
वर्जयेच्च शिलाघृष्टं शृंगबेरं तु शाककम्। कोरदूषकपत्रं च रंभाच्छागीघृतं तथा
केशकीटादिकं वर्ज्यमुष्णोदस्नानमेव च। अल्पबीजादिकं सर्वं व्रते सूरस्य वर्जयेत्
अन्यच्च नाचरेत्तत्र धर्मचिंतां विना व्रती। सौरव्रतं महापुण्यं पुराणैरभिनंदितम्
वर्षकोटिसहस्राणि वर्षकोटिशतानि च। आदित्यस्य समं भोग्यं लभते दिवि शाश्वतम्
एवं स्वर्गक्षयादेव राजा भूमौ महाधनी। मर्त्यलोके पुराभ्यासात्करोति भास्करव्रतम्
तथा स्वयं सुखं भोग्यं लभते दिवि शाश्वतम्। आरोग्यं संपदं जन्मी भास्करस्य प्रसादतः
रविवारे भवेद्या च सप्तमी माघशुक्लके। महाजयेति विख्याता अन्यत्र विजया स्मृता
विजया कोटिलक्षं स्यादनंतं स्यान्महाजया। तत्रैकेन व्रतेनैव मुच्यते जन्मबंधनात्