उत्पत्तिप्रलयौ देव त्वमेको भुवनेश्वरः। त्वदृते सर्वलोकानां दिनैकं नास्ति जीवनम्
प्रभुस्त्वं सर्वलोकानां त्राता गोप्ता पिता प्रसूः। चराचराणां सर्वेषां त्वत्प्रसादाद्धृतं जगत्
देवेषु त्वत्समो नास्ति भगवंस्त्वखिलेषु च। सर्वत्र तेऽस्ति सद्भावस्त्वयैव धारितं जगत्
रूपगंधादिकारी त्वं रसानां स्वादुता त्वया। एवं विश्वेश्वरः सूरो निखिलस्थितिकारकः
तीर्थानां पुण्यक्षेत्राणां मखानां जगतः प्रभो। त्वमेकः प्रयतो हेतुस्सर्वसाक्षी गुणाकरः
सर्वज्ञः सर्वकर्ता च हर्ता पाता सदोत्सुकः। ध्वांतपंकामयघ्नश्च दारिद्र्यदुःखनाशनः
प्रेत्येह च परो बंधुः सर्वज्ञः सर्वलोचनः। त्वदृते सर्वलोकानामुपकारी न विद्यते
आदित्य उवाच-। पितामह महाप्राज्ञ विश्वेंद्र विश्वभावक। ब्रूहि शीघ्रं परं यत्ते करिष्यामि मतं विधे
ब्रह्मोवाच-। मयूखस्त्वतिचंडश्च लोकानामतिदुःसहः। यथैव मृदुतामेति तथा कुरु सुरेश्वर
आदित्य उवाच-। किरणाः कोटिकोटिर्मे लोकनाशकराः पराः। न चाभीष्टकरा लोके प्रयोगाच्छिन्धि तान्प्रभो
ततो विरिंचिना तूर्णं रविवाक्यवशाद्ध्रुवं। आहूय विश्वकर्माणं कृत्वा वज्रमयीं भ्रमि
चिच्छेद च रवेर्भानून्प्रलयानलसन्निभान्। तैरेव रचितं तत्र विष्णोश्चक्रं सुदर्शनम्
अमोघं यमदंडं च शूलं पशुपतेस्तथा। कालस्य च परः खड्गश्शक्तिर्गुरुप्रमोदिनी
चंडिकायाः परं शस्त्रं विचित्रं शूलकं तथा। चक्रे ब्रह्माज्ञया शीघ्रं तेनैव विश्वकर्मणा
सहस्रकिरणं शिष्टमन्यच्चैव प्रशातितम्। अजनोपायभावेन पुनश्च कश्यपान्मुने
अदितेर्गर्भसंजात आदित्य इति वै स्मृतः। अयं चरति विश्वांते मेरुशृंगं भ्रमत्यपि
सदोर्ध्वं दिनरात्रं च धरण्या लक्षयोजने। ग्रहाश्चंद्रादयस्तत्र चरंति विधिनोदिताः
सूरः संचरते मासान्द्वादशद्वादशात्मकः। संक्रमादस्य संक्रांतिः सर्वैरेव प्रतीयते
तासु यद्वा फलं ब्रूमो लोकानां निखिलं मुने। धनुर्मिथुनमीनेषु कन्यायां षडशीतयः
वृषवृश्चिककुंभेषु सिंहे विष्णुपदी स्मृता। तर्पणं चाक्षयं विद्धि दानं देवार्चनं तथा
षडशीतिसहस्राणि षडशीतौ फलं भवेत्। विष्णुपद्यां तु लक्षं तु अयने कोटिकोटकं
विष्णुपद्यां तु यद्दानमक्षयं परिकीर्तितं। दातुर्वदामि सान्निध्यं सदा जन्मनिजन्मनि
शीते तूलपटीदानान्न दुःखं जायते तनौ। तुलादाने तल्पदाने द्वयोरेवाक्षयं फलं
सर्वोपकरणां शय्यां यो ददाति विमत्सरः। वर्णमुख्याय विप्राय स राजपदवीं लभेत्
तथैवाग्निं जलं दत्वा नदीतीरे पथिप्रगे। दत्वा च तैलतांबूलमूर्व्या अधिपतिर्भवेत्५० 1.77.50 सत्यभावाद्द्विजं नत्वा धनी चाक्षयतां व्रजेत्। माघे मास्यसिते पक्षे पंचदश्यामहर्मुखे
पितॄंस्तिलजलैरेव तर्पयित्वाक्षयो दिवि। सुलक्षणां च गां दत्वा हेमशृंगां मणिप्रभाम्
रौप्यखुरप्रदेशां च तथा कांस्यसुदोहनाम्। एतां दत्वा द्विजाग्र्याय सार्वभौमो भवेन्नृपः
दत्वान्नाभरणं राजा मंडलेशो धनीश्वरः। तिलधेनुं तु यो दद्यात्सर्वोपस्करणान्विताम्
सप्तजन्मार्जितात्पापान्मुक्तो नाकेऽक्षयो भवेत्। भोज्यान्नं ब्राह्मणे दत्वा अक्षयं स्वर्गमश्नुते
धान्यं वस्त्रं तथा भृत्यं गृहपीठादिकं च यत्। यो ददाति द्विजाग्र्याय तं च लक्ष्मीर्न मुंचति