शुष्यंति जंतवस्तत्र म्रियंते चातुरा जनाः। अथ शक्रादयो देवा ब्रह्माणं समुपागताः
इममर्थं तदा प्रोचुर्देवांश्च विधिरब्रवीत्। आदिर्ब्रह्मतनोर्देवाः सत्त्वगो जनकः प्रभुः
अयं रजोमयः साक्षात्सुधांशुस्तनुमध्यगः। एताभ्यां पालिता लोकास्त्रैलोक्ये सचराचराः
दिव्योपपादका देवा ये वात्रैव जरायुजाः। अंडजाः स्वेदजाश्चैव ये वात्रैवोद्भिज्जादयः
सूर्यस्यास्य प्रभावं तु वक्तुमेव न शक्नुमः। अनेन रक्षिता लोका जनिताः पालिता ध्रुवम्
अस्यैव सदृशो नास्ति सर्वेषां परिरक्षणात्। यं च दृष्ट्वाप्युषःकाले पापराशिः प्रलीयते
तमाराध्य जना मोक्षं साधयंति द्विजातयः। संध्योपासनकाले तु विप्रा ब्रह्मविदः किल
उद्बाहवो भवंत्येव ते च देवप्रपूजिताः। अस्यैव मंडलस्थां च देवीं संध्यास्वरूपिणीं
समुपास्य द्विजास्सर्वे लभंते स्वर्गमोक्षकौ। धरायां पतितोच्छिष्टाः पूतास्ते चास्य रश्मिभिः
संध्योपासनमात्रेण कल्मषात्पूततां व्रजेत्। दृष्ट्वा चांडालकं गोघ्नं पतितं कुष्ठसंगतम्
महापातकसंकीर्णमुपपातकसंवृतम्। पश्यंति ये नरास्सूरं ते पूता गुरुकिल्बिषात्
अस्योपासनमात्रेण सर्वरोगात्प्रमुच्यते। नांधत्वं न च दारिद्र्यं दुःखं न च शोच्यताम्
लभते च इहामुत्र समुपास्य विरोचनम्। अदृष्टा नैव लोकैश्च देवा हरिहरादयः
ध्यानरूपप्रगम्यास्ते दृष्टो देवो ह्ययं स्मृतः। देवा ऊचुः। अस्तु प्रसादनाराध्यश्चास्तूपासनपूजनम्
अस्यैव दर्शनं ब्रह्मन्प्रलयानलसंमितम्। सर्वे नरादयस्सत्वा मृतावस्थां गता भुवि
अस्य तेजःप्रभावेण प्रणष्टास्सागरादयः। न समर्था वयं सोढुं कथमन्ये पृथग्जनाः
तस्मात्तवप्रसादाच्च पूजयामो यथा रविम्। यजंति च नरा भक्त्या तदुपायो विधीयताम्
देवानां वचनं श्रुत्वा गतो ब्रह्मखगेश्वरम्। गत्वा स्तोतुं समारेभे सर्वलोकहिताय वै
देवत्वं सर्वलोकस्य चक्षुर्भूतो निरामयः। ब्रह्मरूपधरः साक्षाद्दुष्प्रेक्ष्यः प्रलयानलः
सर्वदेवस्थितस्त्वं हि सदा वायुसखस्तनौ। अन्नादिपाचनं त्वत्तो जीवनं च भवेद्ध्रुवम्
उत्पत्तिप्रलयौ देव त्वमेको भुवनेश्वरः। त्वदृते सर्वलोकानां दिनैकं नास्ति जीवनम्
प्रभुस्त्वं सर्वलोकानां त्राता गोप्ता पिता प्रसूः। चराचराणां सर्वेषां त्वत्प्रसादाद्धृतं जगत्
देवेषु त्वत्समो नास्ति भगवंस्त्वखिलेषु च। सर्वत्र तेऽस्ति सद्भावस्त्वयैव धारितं जगत्
रूपगंधादिकारी त्वं रसानां स्वादुता त्वया। एवं विश्वेश्वरः सूरो निखिलस्थितिकारकः
तीर्थानां पुण्यक्षेत्राणां मखानां जगतः प्रभो। त्वमेकः प्रयतो हेतुस्सर्वसाक्षी गुणाकरः
सर्वज्ञः सर्वकर्ता च हर्ता पाता सदोत्सुकः। ध्वांतपंकामयघ्नश्च दारिद्र्यदुःखनाशनः
प्रेत्येह च परो बंधुः सर्वज्ञः सर्वलोचनः। त्वदृते सर्वलोकानामुपकारी न विद्यते
आदित्य उवाच-। पितामह महाप्राज्ञ विश्वेंद्र विश्वभावक। ब्रूहि शीघ्रं परं यत्ते करिष्यामि मतं विधे
ब्रह्मोवाच-। मयूखस्त्वतिचंडश्च लोकानामतिदुःसहः। यथैव मृदुतामेति तथा कुरु सुरेश्वर
आदित्य उवाच-। किरणाः कोटिकोटिर्मे लोकनाशकराः पराः। न चाभीष्टकरा लोके प्रयोगाच्छिन्धि तान्प्रभो