मानुष्यं दुर्ल्लभं प्राप्य परां गतिमवाप सा । लुब्धकोऽपि चतुर्दश्यां पूजयित्वा महेश्वरम्
निर्भक्षः परमं प्राप्य विष्णुलोकं जगाम सः । श्वपाकस्याश्रयाद्वैश्या दीपं कृत्वा परैः कृतम्
शुद्धा लीलावती भूत्वा जगाम स्वर्गमक्षयम् । गोपः कश्चिदमावस्यां पूजां दृष्ट्वा तु शार्ङ्गिणः
मुहुर्मुहुर्जयेत्युक्त्वा राजराजेश्वरोऽभवत् । तस्माद्दीपाः प्रदातव्या रात्रावस्तमते रवौ
गृहेषु सर्वगोष्ठेषु सर्वेष्वायतनेषु च । देवालयेषु देवानां श्मशानेषु सरस्सु च
घृतादिना शुभार्थाय यावत्पंचदिनानि च । पापिनः पितरो ये च लुप्तपिंडोदकक्रियाः । तेपि यांति परां मुक्तिं दीपदानस्य पुण्यतः
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्त्तिकमाहात्म्ये दीप गंध धात्री माहात्म्यवर्णनो नाम एकविंशत्यधिकशततमोऽध्यायः
कार्तिकेय उवाच। दीपावलिफलं नाथ विशेषाद्ब्रूहि सांप्रतम् । किमर्थं क्रियते सा तु तस्याः का देवता भवेत्
किं च तत्र भवेद्देयं किं न देयं वद प्रभो । प्रहर्षः कोऽत्र निर्दिष्टः क्रीडा कात्र प्रकीर्तिता
सूत उवाच। इति स्कंदवचः श्रुत्वा भगवान्कामशोषणः । साधूक्त्वा कार्तिकं विप्राः प्रहसन्निदमब्रवीत्
श्रीशिव उवाच। कार्तिकस्यासिते पक्षे त्रयोदश्यां तु पावके । यमदीपं बहिर्दद्यादपमृत्युर्विनश्यति
मृत्युना पाशहस्तेन कालेन भार्यया सह । त्रयोदशीदीपदानात्सूर्यजः प्रीयतामिति
कार्तिके कृष्णपक्षे च चतुर्दश्यां विधूदये । अवश्यमेव कर्त्तव्यं स्नानं च पापभीरुभिः
पूर्वविद्धा चतुर्दश्या कार्तिकस्य सितेतरे । पक्षे प्रत्यूषसमये स्नानं कुर्यादतंद्रितः
तैले लक्ष्मीर्जले गंगा दीपावल्यां चतुर्दशीम् । प्राप्तः स्नानं हि यः कुर्याद्यमलोकं न पश्यति
अपामार्गस्तथा तुंबी प्रपुन्नाटं च वाह्वलम् । भ्रामयेत्स्नानमध्ये तु नरकस्य क्षयाय वै
सीतालोष्टसमायुक्त सकंटक दलान्वित । हर पापमपामार्ग भ्राम्यमाणः पुनः पुनः
अपामार्गं प्रपुन्नाटं भ्रामयेच्छिरसोपरि । ततश्च तर्पणं कार्यं यमराजस्य नामभिः
यमाय धर्मराजाय मृत्यवे चांतकाय च । वैवस्ताय कालाय सर्वभूतक्षयाय च
औदुंबराय दध्नाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय वै नमः
नरकाय प्रदातव्यो दीपः संपूज्य देवताः । ततः प्रदोषसमये दीपान्दद्यान्मनोहरान्
ब्रह्मविष्णुशिवादीनां भवनेषु विशेषतः । कूटागारेषु चैत्येषु सभासु च नदीषु च
प्राकारोद्यानवापीषु प्रतोली निष्कुटेषु च । मंदुरासु विविक्तासु हस्तिशालासु चैव हि
एवं प्रभातसमये ह्यमावास्यां तु पावकं । स्नात्वा देवान्पितॄन्भक्त्या संपूज्याथ प्रणम्य च
कृत्वा तु पार्वणं श्राद्धं दधिक्षीरघृतादिभिः । भोज्यैर्नानाविधैर्विप्रान्भोजयित्वा क्षमापयेत्
ततोपराह्णसमये पोषयेन्नागरान्प्रिय । तेषां गोष्ठीं च मानं च कृत्वा संभाषणं नृपः
वक्तृणां वत्सरं यावत्प्रीतिरुत्पद्यते गुह । अप्रबुद्धे हरौ पूर्वं स्त्रीभिर्लक्ष्मीः प्रबोधयेत्
प्रबोधसमये लक्ष्मीं बोधयित्वा तु सुस्त्रिया । पुमान्वै वत्सरं यावल्लक्ष्मीस्तं नैव मुंचति
अभयं प्राप्य विप्रेभ्यो विष्णुभीता सुरद्विषः । सुप्तं क्षीरोदधौ ज्ञात्वा लक्ष्मीं पद्माश्रितां तथा
त्वं ज्योतिः श्री रविश्चंद्रो विद्युत्सौवर्णतारकः । सर्वेषां ज्योतिषां ज्योतिर्दीपज्योतिः स्थिता तु या