दातारं ये रोधयंति पातके प्रेरयंति च। दीनानाथान्पीडयंति शातयंति धरां नराः
एते चान्ये च बहवः पापकर्मकृतो नराः। पुरुषान्पातयित्वा तु शातयंति धरां नराः
य इदं शृणुयाद्रम्यं गुह्याद्गुह्यं परं हितम्। न तस्य दुर्गतिर्दुःखं दौर्भाग्यं दीनता भुवि
न दैत्यादौ भवेज्जन्म स्वर्लोके शाश्वतं सुखम्। नाकाले मरणं तस्य न च पापैः प्रलिप्यते
इह सर्वजनाध्यक्षस्त्रिदिवे त्रिदिवेश्वरः। कल्पंकल्पं दिवं भुक्त्वा मोक्षमार्गं व्रजत्यसौ
वैशंपायन उवाच- प्रभवत्ययमाकाशे नित्यं द्विजवर प्रभो। कोऽयं को वा प्रभावोस्य कुत्र जातो घृणीश्वरः
किं करोति हि कार्यं वै यतो रश्मिमयो भृशम्। देवैर्मुनिवरैस्सिद्धैश्चारणैर्दैत्यराक्षसैः
निखिलैर्मानुषैः पूज्यः सदैव ब्राह्मणादिभिः। व्यास उवाच-। परमं ब्रह्मणस्तेजो ब्रह्मदेहाद्विनिस्सृतम्
साक्षाद्ब्रह्ममयं विद्धि धर्मकामार्थमोक्षदम्। मयूखैर्निर्मलैः कूटमतिचंडं सुदुःसहम्
दृष्ट्वा प्रदुद्रुवुर्लोकाः करैश्चंडैः प्रपीडिताः। ततश्च सागराः सर्वे वरनद्यो नदादयः
शुष्यंति जंतवस्तत्र म्रियंते चातुरा जनाः। अथ शक्रादयो देवा ब्रह्माणं समुपागताः
इममर्थं तदा प्रोचुर्देवांश्च विधिरब्रवीत्। आदिर्ब्रह्मतनोर्देवाः सत्त्वगो जनकः प्रभुः
अयं रजोमयः साक्षात्सुधांशुस्तनुमध्यगः। एताभ्यां पालिता लोकास्त्रैलोक्ये सचराचराः
दिव्योपपादका देवा ये वात्रैव जरायुजाः। अंडजाः स्वेदजाश्चैव ये वात्रैवोद्भिज्जादयः
सूर्यस्यास्य प्रभावं तु वक्तुमेव न शक्नुमः। अनेन रक्षिता लोका जनिताः पालिता ध्रुवम्
अस्यैव सदृशो नास्ति सर्वेषां परिरक्षणात्। यं च दृष्ट्वाप्युषःकाले पापराशिः प्रलीयते
तमाराध्य जना मोक्षं साधयंति द्विजातयः। संध्योपासनकाले तु विप्रा ब्रह्मविदः किल
उद्बाहवो भवंत्येव ते च देवप्रपूजिताः। अस्यैव मंडलस्थां च देवीं संध्यास्वरूपिणीं
समुपास्य द्विजास्सर्वे लभंते स्वर्गमोक्षकौ। धरायां पतितोच्छिष्टाः पूतास्ते चास्य रश्मिभिः
संध्योपासनमात्रेण कल्मषात्पूततां व्रजेत्। दृष्ट्वा चांडालकं गोघ्नं पतितं कुष्ठसंगतम्
महापातकसंकीर्णमुपपातकसंवृतम्। पश्यंति ये नरास्सूरं ते पूता गुरुकिल्बिषात्
अस्योपासनमात्रेण सर्वरोगात्प्रमुच्यते। नांधत्वं न च दारिद्र्यं दुःखं न च शोच्यताम्
लभते च इहामुत्र समुपास्य विरोचनम्। अदृष्टा नैव लोकैश्च देवा हरिहरादयः
ध्यानरूपप्रगम्यास्ते दृष्टो देवो ह्ययं स्मृतः। देवा ऊचुः। अस्तु प्रसादनाराध्यश्चास्तूपासनपूजनम्
अस्यैव दर्शनं ब्रह्मन्प्रलयानलसंमितम्। सर्वे नरादयस्सत्वा मृतावस्थां गता भुवि
अस्य तेजःप्रभावेण प्रणष्टास्सागरादयः। न समर्था वयं सोढुं कथमन्ये पृथग्जनाः
तस्मात्तवप्रसादाच्च पूजयामो यथा रविम्। यजंति च नरा भक्त्या तदुपायो विधीयताम्
देवानां वचनं श्रुत्वा गतो ब्रह्मखगेश्वरम्। गत्वा स्तोतुं समारेभे सर्वलोकहिताय वै
देवत्वं सर्वलोकस्य चक्षुर्भूतो निरामयः। ब्रह्मरूपधरः साक्षाद्दुष्प्रेक्ष्यः प्रलयानलः
सर्वदेवस्थितस्त्वं हि सदा वायुसखस्तनौ। अन्नादिपाचनं त्वत्तो जीवनं च भवेद्ध्रुवम्