गंधमाल्येषु वस्त्रेषु शास्त्रेष्वाभरणेषु च। संप्रीतश्चातिथौ दाने पार्वणादिषु कर्मसु
स्नानदानादिभिः कार्ये व्रतैर्यज्ञैः सुरार्चनैः। कालो गच्छति पाठैश्च न क्लीबं वासरं भवेत्
अयमेव मनुष्याणां सदाचारो निरंतरम्। देववन्मानवाचारो गीयते मुनिसत्तमैः
किंतु सत्त्वाधिको देवो मनुष्यो भीत एव च। गंभीरः सर्वदा देवः सदैव मानवो मृदुः
द्वयोस्तुत्या च संप्रीतिर्न दैत्यादौ भवेत्किल। प्रीतिभावं परं सौख्यं सौहृदं सुकृतं शुभम्
दैवमानुषयोरेव दैत्यराक्षसयोस्तथा। प्रेतादीनां च प्रेतेषु पशौ प्रीतिः पशोरपि
काकादयः स्वजातौ च तथान्ये च स्वजातिषु। प्रीता भवंति चाप्रीता विद्या तेषां च लक्षणम्
एवं पुण्यविशेषेण सविशेषा सुजातिषु। प्रियाप्रियं विजानीयात्पुण्यापुण्यं गुणागुणम्
दंपत्योर्न सुखं किंचिज्जातिभेदान्नृणां भुवि। स्वजातिषु भवेत्प्रीतिर्मुक्तो वा निरयेपि वा
अतिपुण्याल्लभेदायुः शोभनाः पुण्यकारिणः। पापात्मानो लभंतेऽन्तं ये च दैत्यादयो नराः
कृते जाताः सुरा भूमौ न दैत्याश्चान्यजातयः। त्रेतायामेकपादं च द्विपदं द्वापरे युगे
संध्यायां च कलेरेव सर्वपादं च संकुलम्। देवादीनां भवेज्जातं भारतं यत्प्रवर्तितम्
ये ते दुर्योधनस्यैव योधाः सैन्यादयस्तथा। ते च दैत्यादयः सर्वे ये च कर्णादयो भुवि
गांगेयो वसुमुख्यश्च द्रोणो देवमुनिः प्रभुः। अश्वत्थामा हरः साक्षाद्धरिर्नंदकुलोद्भवः
पंचेंद्राः पांडवा जाता विदुरो धर्म एव च। गांधारी द्रौपदी कुंती चैता देव्यो धरातले
देवदैत्याः कलेर्मध्ये दैत्याश्शेषे च मानवाः। उत्पत्स्यंते सदा प्रेताः क्रव्यादाः पशुपक्षिणः
तेषां च कुलटा दासी नित्यकष्टा यवीयसी। नित्यं द्वंद्वेषु संप्रीत्या तेषामाचारभाषिणी
किल्बिषेषु च सर्वेषु कलहेऽन्यायकर्मणि। रता दैत्यादयो ये ते सर्वे निरयगामिनः
वैशंपायन उवाच-। दैत्यादीनां मृषाभावात्सुरत्वं न सुरालयम्। कथं भोग्यं कथं सौख्यमारोग्यं बलसंचयम्
राज्यमायुस्तथा कीर्तिरभीष्टं दयितं बलम्। नीतिविद्यादिकं भाव्यं जन्मवृद्धं सनातनम्
दानाध्ययनकर्माणि यज्ञादि च कथं प्रभो। एतदाप्ताय शिष्याय मह्यं भो वक्तुमर्हसि
व्यास उवाच-। दैत्यानां साहसादेव तपो भवति निश्चितम्। व्रतं यज्ञादिकं चैव संप्रीतिः स्वजनस्य च
यो दांतो विगुणैर्मुक्तो नीतिशास्रार्थतत्त्वगः। एतैश्च विविधैः पूतः स भवेत्सुरलक्षणः
पुराणागमकर्माणि नाकेष्वत्र च वै द्विज। स्वयमाचरते पुण्यं स धरोद्धरणक्षमः
विशेषाद्वैष्णवं दृष्ट्वा प्रीयते पूजयेच्च यः। विमुक्तस्सर्वपापेभ्यस्स धरोद्धरणक्षमः
षट्कर्मनिरतो विप्रस्सर्वयज्ञरतस्सदा। धर्माख्यानप्रियो नित्यं स धरोद्धरणक्षमः
विश्वासघातिनो ये च कृतघ्ना व्रतलोपिनः। द्विजदेवेषु विद्विष्टाः शातयंति धरां नराः
ये च मद्यरताः पापा द्यूतकर्मरतास्तथा। पाषंडपतितालापाः शातयंति धरां नराः
सुकर्मरहिता ये च नित्योद्वेगाश्च निर्भयाः। स्मृतिशास्त्रार्थकोद्विग्नाश्शातयंति धरां नराः
निजवृत्तिं परित्यज्य कुर्वंति चाधमां च ये। गुरुनिंदारता द्वेषाच्छातयंति धरां नराः