मिथुने कलहो नित्यं मर्त्यस्तु परिकीर्तितः। प्रकृत्या चपलो नित्यं सदा भोजनचंचलः
प्लवगः काननप्रीतो नरः शाखामृगो भुवि। सूचको भाषया बुध्या स्वजनेऽन्यजनेषु च
उद्वेगजनकत्वाच्च स पुमानुरगः स्मृतः। बलवान्क्रांतशीलश्च सततं चानपत्रपः१०० 1.76.
पूतिमांसप्रियो भोगी नृसिंहस्समुदाहृतः। तत्स्वनादेव सीदंति भीता अन्ये वृकादयः
द्विरदादि नरा ये च ज्ञायंते दूरदर्शिनः। एवमादि क्रमेणैव विजानीयान्नरेषु च
सुराणां लक्षणं ब्रूमो नररूपं व्यवस्थितम्। द्विजदेवातिथीनां च गुरुसाधुतपस्विनाम्
पूजातपोरतोनित्यं धर्मशास्त्रेषु नीतिषु। क्षमाशीलो जितक्रोधः सत्यवादी जितेंद्रिंयः
दयालुर्दयितो लोके रूपवान्मधुरस्वरः। वागीशः सर्वकार्येषु गुणी दक्षो महाबलः
साक्षरश्चापि विद्वांश्च गीतनृत्यार्थतत्त्ववित्। आत्मविद्यादिकार्येषु सर्वतंत्रीस्वरेषु च
हविष्येषु च सर्वेषु गव्येषु च निरामिषे। सद्योगास्वादद्रव्ये च प्रत्यग्रे चातिशोभने
गंधमाल्येषु वस्त्रेषु शास्त्रेष्वाभरणेषु च। संप्रीतश्चातिथौ दाने पार्वणादिषु कर्मसु
स्नानदानादिभिः कार्ये व्रतैर्यज्ञैः सुरार्चनैः। कालो गच्छति पाठैश्च न क्लीबं वासरं भवेत्
अयमेव मनुष्याणां सदाचारो निरंतरम्। देववन्मानवाचारो गीयते मुनिसत्तमैः
किंतु सत्त्वाधिको देवो मनुष्यो भीत एव च। गंभीरः सर्वदा देवः सदैव मानवो मृदुः
द्वयोस्तुत्या च संप्रीतिर्न दैत्यादौ भवेत्किल। प्रीतिभावं परं सौख्यं सौहृदं सुकृतं शुभम्
दैवमानुषयोरेव दैत्यराक्षसयोस्तथा। प्रेतादीनां च प्रेतेषु पशौ प्रीतिः पशोरपि
काकादयः स्वजातौ च तथान्ये च स्वजातिषु। प्रीता भवंति चाप्रीता विद्या तेषां च लक्षणम्
एवं पुण्यविशेषेण सविशेषा सुजातिषु। प्रियाप्रियं विजानीयात्पुण्यापुण्यं गुणागुणम्
दंपत्योर्न सुखं किंचिज्जातिभेदान्नृणां भुवि। स्वजातिषु भवेत्प्रीतिर्मुक्तो वा निरयेपि वा
अतिपुण्याल्लभेदायुः शोभनाः पुण्यकारिणः। पापात्मानो लभंतेऽन्तं ये च दैत्यादयो नराः
कृते जाताः सुरा भूमौ न दैत्याश्चान्यजातयः। त्रेतायामेकपादं च द्विपदं द्वापरे युगे
संध्यायां च कलेरेव सर्वपादं च संकुलम्। देवादीनां भवेज्जातं भारतं यत्प्रवर्तितम्
ये ते दुर्योधनस्यैव योधाः सैन्यादयस्तथा। ते च दैत्यादयः सर्वे ये च कर्णादयो भुवि
गांगेयो वसुमुख्यश्च द्रोणो देवमुनिः प्रभुः। अश्वत्थामा हरः साक्षाद्धरिर्नंदकुलोद्भवः
पंचेंद्राः पांडवा जाता विदुरो धर्म एव च। गांधारी द्रौपदी कुंती चैता देव्यो धरातले
देवदैत्याः कलेर्मध्ये दैत्याश्शेषे च मानवाः। उत्पत्स्यंते सदा प्रेताः क्रव्यादाः पशुपक्षिणः
तेषां च कुलटा दासी नित्यकष्टा यवीयसी। नित्यं द्वंद्वेषु संप्रीत्या तेषामाचारभाषिणी
किल्बिषेषु च सर्वेषु कलहेऽन्यायकर्मणि। रता दैत्यादयो ये ते सर्वे निरयगामिनः
वैशंपायन उवाच-। दैत्यादीनां मृषाभावात्सुरत्वं न सुरालयम्। कथं भोग्यं कथं सौख्यमारोग्यं बलसंचयम्
राज्यमायुस्तथा कीर्तिरभीष्टं दयितं बलम्। नीतिविद्यादिकं भाव्यं जन्मवृद्धं सनातनम्