कुर्वंति सततं वीरा व्रतं यज्ञं सनातनम्। कदाचिद्दैवयोगाच्च गृहस्थश्च स कोविदः
वह्नौ जुहोति विप्रर्षि राज्यं मंत्रेण मंत्रवित्। तस्मिन्काले च तस्यैव मूत्रकृच्छ्रं सुदारुणम्
तत्प्रोज्झितुं गतः सोपि रक्षार्थं स्थाप्य चेटिकाम्। तस्यास्त्वनवधानेन शुना चाज्यं च भक्षितम्
भिया तया ततः पात्रं स्वीयमूत्रेण संभृतम्। असंलक्ष्या जुहोदग्नौ स विप्रस्त्वरया ततः
आश्चर्यं च ततो वह्नौ लक्षितं तेन तत्क्षणात्। कूटं हेममयं साक्षात्स्वर्णं जांबूनदप्रभं
गृहीत्वा तन्मुदा विप्रः पापयोगं चकार ह। पप्रच्छ विस्मयाद्दासीं कथमेतद्वद प्रिये
मुदा तत्र यथावृत्तं कथितं तु तया द्विज। ततो नित्यं यथाकालं तच्च तस्य प्रवर्तते
समृद्धिरद्भुता गेहे लोकविस्मयकारिणी। ततः परस्पराच्छ्रुत्वा सर्वैरेव च तत्पुरे
कृतं कर्म दुराचारं श्रुत्वा लोभादसाधुभिः। गुरुलोभाच्च सुमहत्स्वांते पंकं विशत्यपि
पंकादेव भयान्मोहान्मतिभ्रंशोऽभवत्ततः। अथ किल्बिषकूटेन दग्धमेव पुरं च तत्
स्त्रियो दुष्टा जना दुष्टाः सर्वे पापबलात्तदा। वृद्धो ज्ञाता द्विजस्तत्र तत्कार्ये न मतिं दधौ
तस्य भार्या तदा साध्वी पुरुदुःखेन संयुता। भर्तारं कृच्छ्रसन्तप्ता पुरकार्यं जगाद सा
ब्राह्मण्युवाच-। कष्टं मे वर्तते नाथ दृष्ट्वा त्वां दुःखसंयुतम्। ग्रामाचारमिमं यद्वाप्यऽपरं कर्तुमर्हसि
ततस्तत्र स दोषज्ञः स्मित्वा वचनमब्रवीत्। यस्तु जीवति पापेन त्यक्त्वा धर्मं परं हितम्
स वैधेयो महाभागे प्रगच्छत्यपुनर्भवम्। एते विप्रा दुराचाराः सदारास्सपरिच्छदाः
अतिपातकयोगाच्च महापातकसंमताः। सह पापेन महता प्रयास्यंति रसातलम्
अंतेऽपुनर्भवं प्राप्यापराधांतो न विद्यते। अहमेकोत्र तिष्ठामि स्वपुण्यपरिरक्षणात्
ततस्सा तमुवाचेदं लोकहास्यवचस्तव। वक्तुमर्हसि नश्चाग्रे न पुरोऽन्यस्य कस्यचित्
द्विज उवाच-। यदि यास्यामि चान्यत्र इतोऽहं तत्क्षणात्प्रिये। सवित्तैः स्वजनैरेव पुरीयास्यत्यथोगतिम्
इत्युक्त्वा परमप्रीतः संगृह्य च धनं स्वकम्। क्षिप्रं स च तया सार्धं ययौ सीमांतरं द्विजः
स्थित्वाऽपश्यत्पुरी तावत्स्थिरा तिष्ठति पूर्ववत्। सा चाह तं पतिं साध्वी पुरी चेयं न नश्यति
विमृश्यतामुवाचेदं विप्रवर्यस्सुविस्मितः। किं नु तिष्ठति तत्रैव द्रव्यमस्मद्गृहाद्बहिः
विचार्य सा धवं प्राह मया भ्रांत्या उपानहौ। नानीते तिष्ठतस्तत्र धारयिष्यामि किं नु वै
एवमुक्त्वा पतिं साध्वी गृहीत्वा ते उपागता। पत्युरभ्याशतो दृष्टं पुरं निर्व्यथनं गतम्
ततो विप्रादयो वर्णाः कच्चराः पुरवासिनः। तिष्ठंति नरके घोरे दुःखिताश्चापुनर्भवे
कृच्छाद्यमपुरं यांति नास्ति तेषां च निष्कृतिः। पूतिगंधं ततो मेध्यं वर्जनीयं प्रकीर्तितम्
पूर्ववद्भक्षणे प्रीतो ह्यद्यपापं करोति च। स्तेयशीलो निशाचारी बुधैर्ज्ञेयस्स वंचकः
अबुधः सर्वकार्येषु अज्ञातः सर्वकर्मसु। समयाचारहीनस्तु पशुरेव स बालिशः
एवमुष्ट्रादयस्संति भक्षादि नकुलादयः। हिंस्रो ज्ञातिजनोद्वेगरिते युद्धे च कातरः
विघसादिप्रियो नित्यं नरः श्वा कीर्तितो बुधैः। चौर्यकर्मरतो नित्यं बहुमित्रप्रवंचकः