नित्यकष्टा नरास्तत्र कलहश्च गृहे गृहे। नृपा म्लेच्छाः सुरापाश्च तथा मंत्रिपुरोहिताः
मनुष्यैश्च बलिस्तेषां मत्स्यैर्मांसैर्निरामिषः। पाषंडायासयोगेभ्यः प्रधाना गुणवार्तयोः
धनिकैः कोकिलैर्मंदैर्व्याप्तं तैस्तु महीतलम्। ततोन्योन्यं प्रिया मूढा वने वा नगरेषु च५० 1.76.
भक्ष्याभक्ष्यं समश्नंति मत्स्यमांसादिकं नराः। वने द्विजातयश्चान्ये भुंजते चानुपापकम्
भक्तिमंतं पशुं चान्यत्सर्वे यांत्यपुनर्भवम्। पातयंति पितॄन्पापाः सर्वे ते पूर्वदेवकाः
पिशाचा राक्षसा ये च मुर्त्यका गुह्यका ध्रुवम्। एते चाविनयप्रीता न देवा न च मानुषाः
संजय उवाच-। कथं च मर्त्यभावेषु लक्षंजानंतितात्त्विकाः। एतं मे संशयं नाथ दूरीकुरु ततस्ततः
व्यास उवाच-। कृतपापानुरूपास्तु द्विजातिष्वन्यजातिषु। असुरा राक्षसाः प्रेताः स्वभावं न त्यजंति ते
जाता ये चासुरा मर्त्ये सदाते कलहोत्सुकाः। कुहकाः कच्चराः क्रूराः विज्ञेया राक्षसाभुवि
जनोद्विग्नादिकं दानं तथा देवार्चनं भुवि। उग्रभावाद्धनं लब्ध्वा राज्यं भुञ्जंति शाश्वतम्
जयं शौर्यादिकं पुण्यं पुनःपापक्षयं व्रजेत्। एवमुर्व्यां तथा नाके नागलोके यमालये
उग्रेण तपसा कश्चित्सुरत्वं लभते दिवि। वासुदेवं समाराध्य प्रह्लादः सुरपूजितः
हरं तथान्धको दैत्यः स्तुत्वा तत्सभ्यकोऽभवत्। तस्यैव गणमुख्यत्वं लेभे भृंगी महाबलः
एते चान्ये च बहवो बलिरिंद्रो भविष्यति। गच्छंति सद्गतिं तात इहामुत्र च सर्वदा
केचिद्दैत्यकुले जाताः पृथिव्यां सुरसत्तमाः। भावयंति पितॄन्सर्वान्शतशोथ सहस्रशः
एकेनापि सुपुत्रेण कुलत्राणं च धीमता। एकोपि वैष्णवः पुत्रः कुलकोटिं समुद्धरेत्
जितेंद्रियोपि धर्मात्मा द्विजदेवार्चने रतः। क्षये धर्मे कलौ शेषे पुरे जनपदेषु च
एको रक्षति धर्मात्मा पुरे ग्रामं जनं कुलम्। विज्ञातृमेदुरं चासीद्ब्राह्मणानां पुरं महत्
तत्र सर्वे द्विजाः शश्वत्संध्योपासनतत्पराः। वेदपाठरता धीरा देवातिथिद्विजार्चकाः
यज्ञव्रताग्निकर्माणः षट्कर्मपरिनिश्चयाः। अतिकृच्छ्रे च तेषां वै न पापे वर्तते मनः
कुर्वंति सततं वीरा व्रतं यज्ञं सनातनम्। कदाचिद्दैवयोगाच्च गृहस्थश्च स कोविदः
वह्नौ जुहोति विप्रर्षि राज्यं मंत्रेण मंत्रवित्। तस्मिन्काले च तस्यैव मूत्रकृच्छ्रं सुदारुणम्
तत्प्रोज्झितुं गतः सोपि रक्षार्थं स्थाप्य चेटिकाम्। तस्यास्त्वनवधानेन शुना चाज्यं च भक्षितम्
भिया तया ततः पात्रं स्वीयमूत्रेण संभृतम्। असंलक्ष्या जुहोदग्नौ स विप्रस्त्वरया ततः
आश्चर्यं च ततो वह्नौ लक्षितं तेन तत्क्षणात्। कूटं हेममयं साक्षात्स्वर्णं जांबूनदप्रभं
गृहीत्वा तन्मुदा विप्रः पापयोगं चकार ह। पप्रच्छ विस्मयाद्दासीं कथमेतद्वद प्रिये
मुदा तत्र यथावृत्तं कथितं तु तया द्विज। ततो नित्यं यथाकालं तच्च तस्य प्रवर्तते
समृद्धिरद्भुता गेहे लोकविस्मयकारिणी। ततः परस्पराच्छ्रुत्वा सर्वैरेव च तत्पुरे
कृतं कर्म दुराचारं श्रुत्वा लोभादसाधुभिः। गुरुलोभाच्च सुमहत्स्वांते पंकं विशत्यपि
पंकादेव भयान्मोहान्मतिभ्रंशोऽभवत्ततः। अथ किल्बिषकूटेन दग्धमेव पुरं च तत्