स्त्रीणां च पुरुषाणां च शृणुष्वैकमना मम। मलपंकधरा नित्यं सत्यशौचविवर्जिताः
दंतकुंतलवस्त्राणां वपुषो मलसंचयाः। गृहपीठादिपात्राणां सकृच्छौचं न रोचते
न पश्यंति सुखं स्त्रीणां विशंति कानने द्रुतं। विघसोच्छिष्टपूतीनां भक्षणेभिरता भुवि
अन्नपानं च शयनमन्धकारेषु रोचते। कदाचित्स्वस्थता नास्ति क्वचिद्वा शुचितातनौ
लक्षणं नरलोकेषु प्रेतानामीदृशं किल। हिताहितं न जानंति मित्रामित्रं गुणागुणम्
पापपुण्यादिकं स्थानं स्नानं देवद्विजार्चनं। अरिमित्रमुदासीनं न विंदंति स्वभावतः
मर्त्यस्थाः पशवस्ते च ज्ञायंते बुद्धिसंमतैः। बुद्ध्या नानात्वभावाश्च भ्रमंति च मृषा भुवि
यक्षरूपा नरास्ते च सर्वकर्मबहिष्कृताः। एषां भेदं प्रवक्ष्यामि लक्षणं धरणीतले
विजाता मर्त्यलोकेषु पापस्यैवानुरूपतः। मलीमस भुविप्रस्थं नागरं छद्मरूपिणं
विघसादिप्रभोक्तारं काकमाहुर्मनीषिणः। अभक्ष्ये निरतः पापः कुकुरः पूतिसंप्रियः
प्रवृत्तस्सर्वगृह्येषु भक्ष्याभक्ष्यसजीवनः। भूम्यां पश्वादियोनीनां कुलेषु प्राप्तसंभवाः
शुनो विगृह्य हस्तेन म्लेच्छानां भक्षणप्रियाः। विशेषात्सूकराणां च तथा च रणयोधिनां
पोषणे भक्षणे प्रीताः पूतिगर्ह्येष्वसाधुषु। पर्वतेकरणाद्वह्नेः काष्ठसंचयसंग्रहे
विज्ञेयास्ते सदा म्लेच्छाः क्षत्रियाणां भयाकुलाः। लोकानां नष्टधर्मे च सदा शौचविवर्जिते
कुलीनानां तदा म्लेच्छा भविष्यंति च दस्यवः। तेषां संसर्गतोन्ये च संबंधादन्नभोजनात्
मैथुनात्तस्य योषासु तद्भावं तु व्रजंति ते। तस्मिन्काले जनास्सर्वे दुःखरोगप्रतापिताः
दुर्भिक्षान्न परामूढाः सदा राजप्रपीडिताः। तत्रासत्येरता मर्त्याः सर्वशौचविवर्जिताः
न श्रूयंते जनैरेव पुराणागमसंहिताः। मद्यमांसप्रियाः पापास्सर्वभक्षास्सुदारुणाः
दारुणाचारनिरता नित्यं छलपरायणाः। न पुष्णंति सुतास्तातं प्रसुवं च गुरूनपि
न शुश्रूषंति वै भृत्याः स्वामिनं गुणशालिनम्। भर्तारं न स्त्रियः काश्चिच्छ्वशुरौ च स्वमातरः
नित्यकष्टा नरास्तत्र कलहश्च गृहे गृहे। नृपा म्लेच्छाः सुरापाश्च तथा मंत्रिपुरोहिताः
मनुष्यैश्च बलिस्तेषां मत्स्यैर्मांसैर्निरामिषः। पाषंडायासयोगेभ्यः प्रधाना गुणवार्तयोः
धनिकैः कोकिलैर्मंदैर्व्याप्तं तैस्तु महीतलम्। ततोन्योन्यं प्रिया मूढा वने वा नगरेषु च५० 1.76.
भक्ष्याभक्ष्यं समश्नंति मत्स्यमांसादिकं नराः। वने द्विजातयश्चान्ये भुंजते चानुपापकम्
भक्तिमंतं पशुं चान्यत्सर्वे यांत्यपुनर्भवम्। पातयंति पितॄन्पापाः सर्वे ते पूर्वदेवकाः
पिशाचा राक्षसा ये च मुर्त्यका गुह्यका ध्रुवम्। एते चाविनयप्रीता न देवा न च मानुषाः
संजय उवाच-। कथं च मर्त्यभावेषु लक्षंजानंतितात्त्विकाः। एतं मे संशयं नाथ दूरीकुरु ततस्ततः
व्यास उवाच-। कृतपापानुरूपास्तु द्विजातिष्वन्यजातिषु। असुरा राक्षसाः प्रेताः स्वभावं न त्यजंति ते
जाता ये चासुरा मर्त्ये सदाते कलहोत्सुकाः। कुहकाः कच्चराः क्रूराः विज्ञेया राक्षसाभुवि
जनोद्विग्नादिकं दानं तथा देवार्चनं भुवि। उग्रभावाद्धनं लब्ध्वा राज्यं भुञ्जंति शाश्वतम्