विमुखाः कातरा भीता ये च मायाविनो रणे। ते यांति निरयं घोरं ये च देवद्विजद्विषः
पतितं मूर्च्छितं भग्नमन्ययोद्धारमाहवे। हंतारो निरयं यांति ते च म्लेच्छाः कुवाचकाः
परन्यासापहर्तारो विमुखास्संति तत्त्वतः। रात्रौ वा विपिने नष्टे चोरास्साहसकारिणः
सर्वभक्षरता मूढा म्लेच्छा गोब्रह्मघातकाः। कुवाचकाः परे म्लेच्छा एते ये कूटयोनयः
तेषां पैशाचिकी भाषा लोकाचारो न विद्यते। नास्ति शौचं तपो ज्ञानं न देवपितृतर्पणम्
दानश्राद्धादिकं यज्ञे सुराणां च प्रपूजनम्। पितॄणां च न शुश्रूषा द्विजदेवतपस्विनाम्
ज्ञानलोपादतस्तेषां मलशौचं न विद्यते। मातरं भगिनीं चान्यां गृहिणीं कामयंति च
सर्वो विपर्ययो लोकात्सदाचारो मलीमसः। तार्क्ष्यस्योद्ववनानां च अन्येषां गोत्रवासिनाम्
कुलजातास्सदा दैत्या येषां पुण्यमकारणम्। दुर्गतिं च मृता यांति द्विजस्त्रीशिशुघातिनः
गवाशिनो दुरात्मानो ह्यभक्ष्यभक्षणे रताः। कीटयोनिं व्रजंत्येते तरवश्च पिपीलिकाः
न मंत्रेषु न देवेषु कल्पंते ते सुरद्विषः। अग्रजः सहजस्तेषां सदृङ्नो ग्राम्यवृत्तयः
लोमकेशप्रणेतारः क्रव्यभक्षरता भुवि। साहसं च व्रतं दानं स्नानं यज्ञादिकं च यत्
मत्स्यमांसादिषु प्रीता मृषावचनभाषिणः। सदाकामास्सदा लोभास्सदा क्रोधमदान्विताः
वधबंधरतोद्वेगा द्यूतसंगीतसंप्रियाः। कुभृत्याः कुजनप्रीताः पूतिगंधरता नराः
न देवेषु न विज्ञेषु न धर्मश्रवणेषु च। स्तोत्रमंत्रादिके पुण्ये यथाकार्येष्वनिश्चयाः
बहुरोगाधिरोषाश्च बहुरूपपरिच्छदाः। नरजातिषु दैत्यानां चिह्नान्येतानि भूतले
न जानंति परं लोकं न गुरुं स्वं न चापरं। गर्भपूरणमिच्छंति नातिथिं न गुरून्द्विजान्
न देवं न सुतं गोत्रं न मित्रं न च बान्धवं। स्वप्ने दानं न जानंति भक्षणान्न परिच्छदं
गोपायंति धनं यस्मात्ते यक्षा नररूपिणः। प्राणांतेपि धनं किचिन्न दिशंति च राजनि
ते यक्षा दुर्गतिस्थाश्च परार्थे भारवाहकाः। प्रेतानां लक्षणं यद्वा सर्वलोकविगर्हितं
स्त्रीणां च पुरुषाणां च शृणुष्वैकमना मम। मलपंकधरा नित्यं सत्यशौचविवर्जिताः
दंतकुंतलवस्त्राणां वपुषो मलसंचयाः। गृहपीठादिपात्राणां सकृच्छौचं न रोचते
न पश्यंति सुखं स्त्रीणां विशंति कानने द्रुतं। विघसोच्छिष्टपूतीनां भक्षणेभिरता भुवि
अन्नपानं च शयनमन्धकारेषु रोचते। कदाचित्स्वस्थता नास्ति क्वचिद्वा शुचितातनौ
लक्षणं नरलोकेषु प्रेतानामीदृशं किल। हिताहितं न जानंति मित्रामित्रं गुणागुणम्
पापपुण्यादिकं स्थानं स्नानं देवद्विजार्चनं। अरिमित्रमुदासीनं न विंदंति स्वभावतः
मर्त्यस्थाः पशवस्ते च ज्ञायंते बुद्धिसंमतैः। बुद्ध्या नानात्वभावाश्च भ्रमंति च मृषा भुवि
यक्षरूपा नरास्ते च सर्वकर्मबहिष्कृताः। एषां भेदं प्रवक्ष्यामि लक्षणं धरणीतले
विजाता मर्त्यलोकेषु पापस्यैवानुरूपतः। मलीमस भुविप्रस्थं नागरं छद्मरूपिणं
विघसादिप्रभोक्तारं काकमाहुर्मनीषिणः। अभक्ष्ये निरतः पापः कुकुरः पूतिसंप्रियः