य इदं प्रपठेद्भक्त्या विजयस्तोत्रमादरात्। न तस्य दुर्लभं देवास्त्रिषुलोकेषु किंचन
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम्। तत्फलं समवाप्नोति कीर्तनाच्छ्रवणान्नरः
सर्वकामप्रदं नित्यं देवदेवस्य कीर्तनम्। अतः परं महाज्ञानं न भूतं न भविष्यति
संजय उवाच-। येऽसुराश्च मृता युद्धे संमुखे विमुखेऽपि वा। गतिं तेषामहं ब्रह्मन्श्रोतुमिच्छामि तत्त्वतः
असंख्याता इमे दैत्यास्त्रैलोक्ये सचराचरे। अद्याप्यासन्गताः कुत्र एतन्मे शंस भो गुरो
व्यास उवाच-। ये मृतास्संमुखे शूरा दैत्यानां प्रवरा रणे। स्वयं प्राप्य च देवत्वं भोग्यमश्नंति शाश्वतम्
प्रासादा यत्र सौवर्णा नानारत्नाविभूषिताः। सर्वकामप्रदा वृक्षाः स्वर्णदीतोय संयुताः
पद्मोत्पलसुकल्हारैर्गंधाढ्यैरन्यपुष्पकैः। दधिदुग्धाज्यखंडैश्च युता पुष्करिणी शुभा
अतीवरूपसंपन्नाः सदैव नवयौवनाः। तत्र राज्यं प्रकुर्वंति तथैव वसुधातले
एवं जन्माष्टकं प्राप्य धनिनोऽध्यक्षमंत्रिणः। अर्धसंमुखगात्रेण दिवमश्नंति शाश्वतम्
विमुखाः कातरा भीता ये च मायाविनो रणे। ते यांति निरयं घोरं ये च देवद्विजद्विषः
पतितं मूर्च्छितं भग्नमन्ययोद्धारमाहवे। हंतारो निरयं यांति ते च म्लेच्छाः कुवाचकाः
परन्यासापहर्तारो विमुखास्संति तत्त्वतः। रात्रौ वा विपिने नष्टे चोरास्साहसकारिणः
सर्वभक्षरता मूढा म्लेच्छा गोब्रह्मघातकाः। कुवाचकाः परे म्लेच्छा एते ये कूटयोनयः
तेषां पैशाचिकी भाषा लोकाचारो न विद्यते। नास्ति शौचं तपो ज्ञानं न देवपितृतर्पणम्
दानश्राद्धादिकं यज्ञे सुराणां च प्रपूजनम्। पितॄणां च न शुश्रूषा द्विजदेवतपस्विनाम्
ज्ञानलोपादतस्तेषां मलशौचं न विद्यते। मातरं भगिनीं चान्यां गृहिणीं कामयंति च
सर्वो विपर्ययो लोकात्सदाचारो मलीमसः। तार्क्ष्यस्योद्ववनानां च अन्येषां गोत्रवासिनाम्
कुलजातास्सदा दैत्या येषां पुण्यमकारणम्। दुर्गतिं च मृता यांति द्विजस्त्रीशिशुघातिनः
गवाशिनो दुरात्मानो ह्यभक्ष्यभक्षणे रताः। कीटयोनिं व्रजंत्येते तरवश्च पिपीलिकाः
न मंत्रेषु न देवेषु कल्पंते ते सुरद्विषः। अग्रजः सहजस्तेषां सदृङ्नो ग्राम्यवृत्तयः
लोमकेशप्रणेतारः क्रव्यभक्षरता भुवि। साहसं च व्रतं दानं स्नानं यज्ञादिकं च यत्
मत्स्यमांसादिषु प्रीता मृषावचनभाषिणः। सदाकामास्सदा लोभास्सदा क्रोधमदान्विताः
वधबंधरतोद्वेगा द्यूतसंगीतसंप्रियाः। कुभृत्याः कुजनप्रीताः पूतिगंधरता नराः
न देवेषु न विज्ञेषु न धर्मश्रवणेषु च। स्तोत्रमंत्रादिके पुण्ये यथाकार्येष्वनिश्चयाः
बहुरोगाधिरोषाश्च बहुरूपपरिच्छदाः। नरजातिषु दैत्यानां चिह्नान्येतानि भूतले
न जानंति परं लोकं न गुरुं स्वं न चापरं। गर्भपूरणमिच्छंति नातिथिं न गुरून्द्विजान्
न देवं न सुतं गोत्रं न मित्रं न च बान्धवं। स्वप्ने दानं न जानंति भक्षणान्न परिच्छदं
गोपायंति धनं यस्मात्ते यक्षा नररूपिणः। प्राणांतेपि धनं किचिन्न दिशंति च राजनि
ते यक्षा दुर्गतिस्थाश्च परार्थे भारवाहकाः। प्रेतानां लक्षणं यद्वा सर्वलोकविगर्हितं