नमोनमो मत्स्यवपुर्द्धराय नमोस्तु ते कच्छपरूपधारिणे। नमः प्रकुर्मश्च नृसिंहरूपिणे तथा पुनर्वामनरूपिणे नमः
नमोस्तु ते क्षत्रविनाशनाय रामाय रामाय दशास्यनाशिने। प्रलंबहंत्रे शितिवाससे नमो नमोस्तु बुद्धाय च दैत्यमोहिने
म्लेच्छांतकायापि च कल्किनाम्ने नमः पुनः क्रोडवपुर्धराय। जगद्धितार्थं च युगेयुगे भवान्बिभर्ति रूपं त्वसुराभवाय
निषूदितोऽयं ह्यधुना किल त्वया दैत्यो हिरण्याक्ष इति प्रगल्भः। यश्चेंद्रमुख्यान्किललोकपालान्संहेलया चैव तिरश्चकार
स वै त्वया देवहितार्थमेव निपातितो देववर प्रसीद। त्वमस्य विश्वस्य विसर्गकर्ता ब्राह्मेण रूपेण च देवदेव
पाता त्वमेवास्य युगेयुगे च रूपाणि धत्से सुमनोहराणि। त्वमेव कालाग्निहरश्च भूत्वा विश्वं क्षयं नेष्यसि चांतकाले
अतो भवानेव च विश्वकारणं न ते परं जीवमजीवमीश। यत्किंच भूतं च भविष्यरूपं प्रवर्त्तमानं च तथैव रूपम्
सर्वं त्वमेवासि चराचराख्यं न भाति विश्वं त्वदृते च किंचित्। अस्तीति नास्तीति च भेदनिष्ठं त्वय्येव भातं सदसत्स्वरूपम्
ततो भवंतं कतमोपि देव न ज्ञातुमर्हत्यविपक्वबुद्धिः। ऋते भवत्पादपरायणं जनं तेनागता स्मश्शरणं शरण्यम्
व्यास उवाच-। ततो विष्णुः प्रसन्नात्मा उवाच त्रिदिवौकसः। तुष्टोस्मि देवा भद्रं वो युष्मत्स्तोत्रेण सांप्रतम्
य इदं प्रपठेद्भक्त्या विजयस्तोत्रमादरात्। न तस्य दुर्लभं देवास्त्रिषुलोकेषु किंचन
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम्। तत्फलं समवाप्नोति कीर्तनाच्छ्रवणान्नरः
सर्वकामप्रदं नित्यं देवदेवस्य कीर्तनम्। अतः परं महाज्ञानं न भूतं न भविष्यति
संजय उवाच-। येऽसुराश्च मृता युद्धे संमुखे विमुखेऽपि वा। गतिं तेषामहं ब्रह्मन्श्रोतुमिच्छामि तत्त्वतः
असंख्याता इमे दैत्यास्त्रैलोक्ये सचराचरे। अद्याप्यासन्गताः कुत्र एतन्मे शंस भो गुरो
व्यास उवाच-। ये मृतास्संमुखे शूरा दैत्यानां प्रवरा रणे। स्वयं प्राप्य च देवत्वं भोग्यमश्नंति शाश्वतम्
प्रासादा यत्र सौवर्णा नानारत्नाविभूषिताः। सर्वकामप्रदा वृक्षाः स्वर्णदीतोय संयुताः
पद्मोत्पलसुकल्हारैर्गंधाढ्यैरन्यपुष्पकैः। दधिदुग्धाज्यखंडैश्च युता पुष्करिणी शुभा
अतीवरूपसंपन्नाः सदैव नवयौवनाः। तत्र राज्यं प्रकुर्वंति तथैव वसुधातले
एवं जन्माष्टकं प्राप्य धनिनोऽध्यक्षमंत्रिणः। अर्धसंमुखगात्रेण दिवमश्नंति शाश्वतम्
विमुखाः कातरा भीता ये च मायाविनो रणे। ते यांति निरयं घोरं ये च देवद्विजद्विषः
पतितं मूर्च्छितं भग्नमन्ययोद्धारमाहवे। हंतारो निरयं यांति ते च म्लेच्छाः कुवाचकाः
परन्यासापहर्तारो विमुखास्संति तत्त्वतः। रात्रौ वा विपिने नष्टे चोरास्साहसकारिणः
सर्वभक्षरता मूढा म्लेच्छा गोब्रह्मघातकाः। कुवाचकाः परे म्लेच्छा एते ये कूटयोनयः
तेषां पैशाचिकी भाषा लोकाचारो न विद्यते। नास्ति शौचं तपो ज्ञानं न देवपितृतर्पणम्
दानश्राद्धादिकं यज्ञे सुराणां च प्रपूजनम्। पितॄणां च न शुश्रूषा द्विजदेवतपस्विनाम्
ज्ञानलोपादतस्तेषां मलशौचं न विद्यते। मातरं भगिनीं चान्यां गृहिणीं कामयंति च
सर्वो विपर्ययो लोकात्सदाचारो मलीमसः। तार्क्ष्यस्योद्ववनानां च अन्येषां गोत्रवासिनाम्
कुलजातास्सदा दैत्या येषां पुण्यमकारणम्। दुर्गतिं च मृता यांति द्विजस्त्रीशिशुघातिनः
गवाशिनो दुरात्मानो ह्यभक्ष्यभक्षणे रताः। कीटयोनिं व्रजंत्येते तरवश्च पिपीलिकाः