शुशुभे स सुरश्रेष्ठस्तडित्त्वत्सान्द्रमेघवत्। ततश्च चुक्रुशुर्दैत्या जयेति साधुवादिनः
ततश्चक्रं दैत्यसैन्ये दानवारिर्व्यसर्जयत्। तेषां शिरांसि संच्छिद्य माधवं पुनरागमत्
स दैत्यं शक्तिपातेन पातयामास वै रणे। चिरात्संज्ञां समालंब्य वह्निबाणेन केशवम्
निजघान रणे क्रुद्धो हरिः कौबेरमाक्षिपत्। ततो मुमोच मायास्त्रं चासुरं चातिदारुणम्
सिंहव्याघ्रलुलायांश्च तद्वद्द्विप सरीसृपान्। जघान समरे विष्णुं हिरण्याक्षः प्रतापवान्
ततो मायास्त्रसंभूतान्शस्त्रास्त्रौघान्रणे हरिः। प्रचिच्छेद शरैरेव शूलेनैवमताडयत्
स विह्वलित सर्वांगस्तत्क्षणं लोहितोक्षितः। विचकर्ष हरन्विष्णुरसृग्विप्लुतविग्रहः
तच्छूलं च त्रिभिर्बाणैः प्रविव्याध सुराधिपः। वरूथं सध्वजं केतुं रथं चैवातपत्रकम्
यंतारं च प्रचिच्छेद दशभिश्च हरिः शरैः। पातिते च रथे दैत्यः संप्लुत्याथ रथं परम्
आरुरोह स दैत्येंद्रः संमुखं चाकरोद्बली। ततो युद्धं महाघोरमभवल्लोमहर्षणम्
हिरण्याक्षस्य च हरेर्लोकविस्मापनं महत्। अस्त्रयुद्धं तथान्योन्यं कृतप्रतिकृतं च तत्
ततो नियुद्धे सततं दिव्यवर्षशतं गतम्। ततो दैत्यो महासत्वो ववृधे वामनो यथा
मुखेन जग्राह रुषा त्रैलोक्यं सचराचरम्। भूमंडलं समुद्धृत्य विवेश च रसातलम्
शेषाश्च विविशुर्दैत्यास्तमनु प्रीतिसंयुताः। ततो विष्णुर्महातेजा ज्ञात्वा दैत्यबलं महत्
दधार रूपं वाराहं दैत्यराजजिघांसया। धृत्वा क्रोडतनुं विष्णुर्विवेश तमनुद्रुतम्
तत्र गत्वा रसामूले रसातलगतां महीम्। दृष्ट्वा स्वदंष्ट्रयोर्दध्रे लोकाधारां वसुंधराम्
तां धृत्वा गच्छतस्तस्य विष्णोरमिततेजसः। समाजगाम दैत्येंद्रो धृष्टं वाग्भिस्तुदन्ननु
मायाक्रोडतनुर्विष्णुर्दुर्वचांसि सहन्रुषा। जलोपरि दधारेमां धरां भूधर एव च
तस्यां न्यस्य स्वसत्वं च स चकार तदाचलाम्। ततः पश्चात्स संलग्नो दैत्यराट्समुपस्थितः
क्रोधेन महताविष्टो जघान गदया हरिम्। मायया सूकरो विष्णुस्तां गदां समवंचयत्
योगयुक्तो यथा मृत्युं कौमोदक्याहनच्च तम्। ततः पुना रुषाविष्टो हिरण्याक्षो महाबलः
मुष्टिना प्राहरद्देवं दक्षिणे तु भुजे प्रभोः। एवं युद्धं महाघोरं सव्यासव्यं गतागतम्
परिभ्रमणविक्षेपं कृतानुकरणं तथा। ततो ब्रह्मादयो देवा युद्धं पश्यंति खे स्थिताः
स्वस्ति प्रजाभ्यो देवेभ्य ऋषिभ्यश्चेति चाब्रुवन्। ऊचुश्च देवदेवेशं विष्णुं वाराहरूपिणम्
मा क्रीड बालवद्देव जह्यमुं देवकंटकम्। ततो विष्णुर्महातेजा मायावाराहरूपधृत्
ब्रह्माद्यनुमतिं प्राप्य चक्रं प्राक्षिपदुल्बणम्। सहस्रसूर्यसंकाशं सहस्रारं महाप्रभम्
दैत्यांतकरणं रौद्रं प्रलयाग्निसमप्रभम्। तच्चक्रं विष्णुना मुक्तं हिरण्याक्षं महाबलम्
चकार भस्मसात्सद्यो ब्रह्मादीनां च पश्यताम्। दैत्यांतकरणं रौद्रं चक्रं चागमदच्युतम्
ततो ब्रह्मादयो देवाः शक्रमुख्याश्च लोकपाः। दृष्ट्वा च विजयं विष्णोः स्तुवंति स्म समागताः
देवा ऊचुः-। नताः स्म विष्णुं जगदादिभूतं सुरासुरेंद्रं जगतां प्रपालकम्। यन्नाभिपद्मात्किल पद्मयोनिर्बभूव तं वै शरणं गताः स्मः