यमाक्षरकृतां मालां स्फुटं शौरिः प्रमार्जति । श्रीचंदनं सकर्पूरमगुरुं च सकुंकुमम्
केतकी दीपदानं च सर्वदा केशवप्रियम् । कार्तिके केतकीपुष्पं दत्तं येन कलौ युगे
दीपदानं महासेन कुलानां तारयेच्छतम् । सरोरुहाणि तुलसी केतकी मुनिपुष्पकम्
कार्तिके च दिनान्येव दीपदानं तु पंचमम् । केतकीमालया येन कार्तिके पुष्पमंडपम्
केशवस्य कृतं वत्स वसतिर्दिवि तस्य च । केतकीपुष्पकेनैव पूजितो गरुडध्वजः
समाः सहस्रं सुप्रीतो जायते मधुसूदनः । अर्चयित्वा हृषीकेशं कुसुमैः केतकीभवैः
पुण्यं तद्भवनं याति केशवस्य शिवं गुह । दमनकेनापि देवेशं संप्राप्ते मधुमाधवे
समभ्यर्च्य मुनिश्रेष्ठ अर्चनाल्लभते फलम् । अगस्तिकुसुमैर्देवं योऽर्चयेत जनार्दनम्
दर्शनात्तस्य भो विप्र नरकाग्निः प्रणश्यति । न तत्करोति विप्रर्षे तपसा तोषितो हरिः
यत्करोति महासेन मुनिपुष्पैरलंकृतः । विहाय सर्वपुष्पाणि मुनिपुष्पेण केशवम्
कार्तिके योऽर्चयेद्भक्त्या वाजिमेधफलं लभेत् । मुनिपुष्पकृतां मालां यो ददाति जनार्दने
देवेंद्रोऽपि मुनिश्रेष्ठ कुरुते तस्य सत्कथाम् । गवामयुतदानेन यत्फलं प्राप्यते गुह
मुनिपुष्पेण चैकेन कार्तिके लभते फलम् । कौस्तुभेन यथा प्रीतो यथा च वनमालया
तुलसीदलेन संप्रीतः कार्तिके च तथा हरिः । सिऊ!त उवाच। प्रश्रयावनतं दृष्ट्वा कुमारं भक्तितत्परम्
पुनः प्रोवाच भगवान्महादेवो वृषध्वजः । ईश्वर उवाच। शृणु दीपस्य माहात्म्यं कार्तिके शिखिवाहन
पितरश्चैव वांच्छंति सदा पितृगणैर्वृताः । भविष्यति कुलेऽस्माकं पितृभक्तः सुपुत्रकः
कार्तिके दीपदानेन यस्तोषयति केशवम् । घृतेन दीपको यस्य तिलतैलेन वा पुनः
ज्वलते यस्य सेनानीरश्वमेधेन तस्य किम् । तेनेष्टं क्रतुभिः सर्वैः कृतं तीर्थावगाहनम्
दीपदानं कृतं येन कार्तिके केशवाग्रतः । कृष्णपक्षे विशेषेण पुत्र पंचदिनानि च
पुण्यानि तेषु यो दत्ते दीपं सोऽक्षयमाप्नुयात् । एकादश्यां परैर्दत्तं दीपं प्रज्वाल्य मूषिका
मानुष्यं दुर्ल्लभं प्राप्य परां गतिमवाप सा । लुब्धकोऽपि चतुर्दश्यां पूजयित्वा महेश्वरम्
निर्भक्षः परमं प्राप्य विष्णुलोकं जगाम सः । श्वपाकस्याश्रयाद्वैश्या दीपं कृत्वा परैः कृतम्
शुद्धा लीलावती भूत्वा जगाम स्वर्गमक्षयम् । गोपः कश्चिदमावस्यां पूजां दृष्ट्वा तु शार्ङ्गिणः
मुहुर्मुहुर्जयेत्युक्त्वा राजराजेश्वरोऽभवत् । तस्माद्दीपाः प्रदातव्या रात्रावस्तमते रवौ
गृहेषु सर्वगोष्ठेषु सर्वेष्वायतनेषु च । देवालयेषु देवानां श्मशानेषु सरस्सु च
घृतादिना शुभार्थाय यावत्पंचदिनानि च । पापिनः पितरो ये च लुप्तपिंडोदकक्रियाः । तेपि यांति परां मुक्तिं दीपदानस्य पुण्यतः
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्त्तिकमाहात्म्ये दीप गंध धात्री माहात्म्यवर्णनो नाम एकविंशत्यधिकशततमोऽध्यायः
कार्तिकेय उवाच। दीपावलिफलं नाथ विशेषाद्ब्रूहि सांप्रतम् । किमर्थं क्रियते सा तु तस्याः का देवता भवेत्
किं च तत्र भवेद्देयं किं न देयं वद प्रभो । प्रहर्षः कोऽत्र निर्दिष्टः क्रीडा कात्र प्रकीर्तिता
सूत उवाच। इति स्कंदवचः श्रुत्वा भगवान्कामशोषणः । साधूक्त्वा कार्तिकं विप्राः प्रहसन्निदमब्रवीत्