वसून्सर्वांश्च सशरैः सिद्धगंधर्वपन्नगान्। दशाष्टदशभिः षडिभर्युद्धे देवान्भिनत्त्यसौ
ओजौघादतिवीर्यात्तु शीघ्रलाघवर्दशनान्। आपत्प्राप्ताः सुरा भीत्या प्रतिकर्तुं न चेश्वराः
महेशशूलसंकाशैः शरैर्मर्मविभेदिभिः। ताडिता निर्जरा युद्धे मूर्च्छिता धरणीं ययुः
तस्यैव संमुखे स्थातुं न शेकुः प्रवरास्सुराः। ततो देवा विनिर्धूतास्त्रिदिवेशेन संयुताः
शरण्यं ते हरिं तत्र शरणं ताडिता ययुः। एतस्मिन्नंतरे विष्णुः प्राह जिष्णुं खगेश्वरम्
अधुना गच्छ दैत्यस्य संमुखं रणमूर्धनि। नाशाय सततस्तूर्णं गतस्तस्यांतिकं जवात्
सरथं मार्गणैर्भित्वा विष्णुमारोधयज्जवम्। रथस्य संमुखे दैत्य उवाच विष्णुमव्ययम्
अन्य सृष्टिं करोम्यद्य हत्वा त्वां च सनिर्ज्जरम्। ततो विष्णुरुवाचेदं गर्जंतं दैत्यपुंगवम्
शक्तस्त्वं स्पर्द्धने पाप यदि युद्धे स्थिरो भव। ततः शरशतैरेव जघान विष्णुमव्ययम्
असंभ्रांतः स चिच्छेद यमदंडनिभान्शरान्। पुनः शरसहस्राणि प्रेरयामास तं रणे
तांश्च छित्वा शरैः शौरिस्तं च विव्याध मार्गणैः। प्रगौरवादहार्याभैः संस्पर्शाद्बाडवानलैः
शरैश्च भेदकैस्तीक्ष्णैः खगमैश्च मनोजवैः। लाघवात्केशवास्त्रस्य तूलशुष्कतृणोपमैः
हैमैः शरसहस्रैस्तु ताडितो दैत्यपुंगवः। बाधयाभ्यर्दितः क्रुद्धो धृत्वा शिखरिणं रणे
जघान माधवं वेगाद्धिरण्याक्षो महाबलः। तं च संचूर्णयामास गदया लीलया हरिः
एवं पर्वतसाहस्रं पातितं तु क्रमेण हि। तथैव लाघवाच्चूर्णं हरिणा दानवारिणा
पुनर्बाहुसहस्राणि कृत्वासौ दानवोत्तमः। शरैः शक्तिभिरत्युग्रैः शूलैः परशुकादिभिः
ववर्ष बहुभिर्विष्णुं क्रोधाविष्टेन चेतसा। तांस्तु तेनैव प्रहितांश्चिच्छेद सुरसत्तमः
शरैर्दीप्तैर्महाघोरैरसुराणां भयंकरैः। विव्याध सर्वगात्रेषु शंभुशूलोपमैश्शरैः
दानवाधिपतिः संख्ये ह्यव्ययो हरिरीश्वरः। स च कश्मलतां गत्वा सर्वशक्तिमनुत्तमाम्
कालजिह्वोपमां घोरामष्टघंटासमन्विताम्। हरेरुरसि पीने च विद्रुत्या पातयद्द्रुतम्
शुशुभे स सुरश्रेष्ठस्तडित्त्वत्सान्द्रमेघवत्। ततश्च चुक्रुशुर्दैत्या जयेति साधुवादिनः
ततश्चक्रं दैत्यसैन्ये दानवारिर्व्यसर्जयत्। तेषां शिरांसि संच्छिद्य माधवं पुनरागमत्
स दैत्यं शक्तिपातेन पातयामास वै रणे। चिरात्संज्ञां समालंब्य वह्निबाणेन केशवम्
निजघान रणे क्रुद्धो हरिः कौबेरमाक्षिपत्। ततो मुमोच मायास्त्रं चासुरं चातिदारुणम्
सिंहव्याघ्रलुलायांश्च तद्वद्द्विप सरीसृपान्। जघान समरे विष्णुं हिरण्याक्षः प्रतापवान्
ततो मायास्त्रसंभूतान्शस्त्रास्त्रौघान्रणे हरिः। प्रचिच्छेद शरैरेव शूलेनैवमताडयत्
स विह्वलित सर्वांगस्तत्क्षणं लोहितोक्षितः। विचकर्ष हरन्विष्णुरसृग्विप्लुतविग्रहः
तच्छूलं च त्रिभिर्बाणैः प्रविव्याध सुराधिपः। वरूथं सध्वजं केतुं रथं चैवातपत्रकम्
यंतारं च प्रचिच्छेद दशभिश्च हरिः शरैः। पातिते च रथे दैत्यः संप्लुत्याथ रथं परम्
आरुरोह स दैत्येंद्रः संमुखं चाकरोद्बली। ततो युद्धं महाघोरमभवल्लोमहर्षणम्