सौरभं शरसंघैश्च जयंतो वशमानयत्। शक्तिहस्तं च संह्रादं यमदंडं नरांतकम्
हत्वा च पातयामास स भस्मीकृतविग्रहः। कालश्च खड्गपातेन पातयामास बाभ्रवम्
शक्त्या मृत्युर्बिभेदाश्वं तथा निर्घृणकं रणे। अग्निना दह्यमानाश्च सप्तैते च महाबलाः
भद्रबाहुर्महाबाहुः सुगंधो गंध एव च। भौरिको वल्लिको भीम एते सेनाग्रगामिनः
रणे संदग्धदेहाश्च पेतुरुर्व्यां गतासवः। पाशबद्धा महावीर्या वरुणस्य महात्मनः
पेतुरुर्व्यां महासत्वाः शूराः शूरभयानकाः। शूरस्य रश्मिजालेन निहताः पञ्चदानवाः
तुरुतुंबुरुदुर्मेधस्साधका साधकाभिधाः। क्रूर क्रौंच रणेशान मोदसंमोद षण्मुखाः
शरैर्निपातिता दैत्याः संयुगे मातरिश्वना। नैर्ऋतो गदया भीमं पातयामास भूतले
शूलपातैश्च रुद्राणां शतशो दैत्यदानवाः। निपेतुः संयुगे भीताः संमुखा रणपंडिताः
वसूनां शरपातैश्च शूराणां रश्मिमालिनाम्। मेघानां करकाभिश्च वज्रपातैस्सुदारुणैः
निपातिता रणे दैत्याः शतशो बलशालिनः। कुबेरस्य गदापातैर्निपतंति सहस्रशः
शक्रस्य भिदुरेणैव भेदिता दैत्यपुंगवाः। असंख्याताः पतंत्युर्व्यां स्कंदशक्त्या तथा हताः
गणेशपर्शुपातेन पतंति मुख्यमुख्यकाः। वैकुंठकरमुक्तेन चक्रेण तीव्रकर्मणा
दैत्यानां प्रवराणां च शिरांसि निपतंति कौ। शमनो यमदंडेन कोटिकोटिसहस्रशः
अपातयत्तदा भूम्यां कालः खड्गेन दानवान्। मृत्युश्शक्त्या तथा दैत्यान्पाशी पाशेन चापरान्
पातेन तक्षकादीनां सुधांशोः शिशिरेण च। अश्वारोही खरोमन्योहनिपाशस्तथा गजान्
परिघेण गजं कुंभे दैत्यानां नाशयत्ततः। एवमश्वान्गजांश्चैव लाघवात्स न्यपातयत्
एवं सिद्धैश्च गंधर्वैरप्सरोभिर्महाबलैः। अन्याभिर्देवताभिश्च समातृगणनायकैः
निपातिता महोघोरा ये ते प्रलयदानवाः। शरैश्च खड्गपातैश्च शूलशक्तिपरश्वधैः
यष्टिपरिघकुंतैश्च पातयंत्यसुरान्सुराः। एवं संक्षीयमाणेषु दैत्यराट्समपद्यत
आदित्यरथसंकाशं रथरत्नविभूषितम्। शातकुंभमयं दिव्यं घंटाचामरभूषितम्
पताकाध्वजसंपूर्णं रम्यं शक्ररथोपमम्। समारुह्य महावीरो हिरण्याक्षोऽसुराधिपः
जघान शरजालैश्च दुर्निवार्यः सुरासुरैः। ससैन्यानि गजान्वीरो रथांश्च सह सैंधवान्
पातयामास भूमौ च शतशोथ सहस्रशः। एवं चरन्स वृंदेषु निखिलेषु दिवौकसाम्
पातयामास दैत्येंद्रः शरौघान्मृत्युसन्निभान्। क्रमेण समरे चाथ देवसैन्यान्यमंथत
यथा पुष्करिणीवृंदे गजः कंजवनं शितैः। शरपातैरथो वेगात्सिंहनादैः पुनः पुनः
धरण्यां पतिता वेगात्तदा दैत्येश्वरस्य च। दशभिश्च सुतीक्ष्णाग्रैर्जयंतं स जघान ह
रेमंतं पंचभिर्बाणैः शक्रं पंचदशेन तु। चित्ररथं विंशतिभिःपंचविंशतिभिर्गुहम्
हेरंबं त्रिशरेणैव चत्वारिंशच्छरैर्यमम्। तथैव कालं मृत्युं च पाणिना द्विगुणेन च
गुह्यकेशं जगत्प्राणं दशभिर्दशभिः शरैः। षडिभश्च सप्तभिश्चैव रुद्रान्सर्वान्पृथक्पृथक्