शरण्यं गणपं जग्मुर्भीतास्ते वेदनातुराः। देवानां कदनं दृष्ट्वा गणाधीशः प्रतापवान्
स गजं ताडयामास वज्रानलसमैः शरैः। स गजो वेगसंरुद्धः शरेण च समुत्थितः
अथोतौ द्वौ शरैरेव बिभिदाते परस्परम्। उभौ तौ नर्दमानौ च अन्योन्यं जयमैच्छताम्
शोणितैर्लिप्तसर्वांगौ वीरमुख्यौ सुरासुरौ। अथाखुं स गजो मत्तो बिभेद दशनैः स्वकैः
आखुनाभिद्रुतो नागो घोरयुद्धं तयोः परम्। अधोर्ध्वं संविभागे च चतुर्भिर्युद्धमद्भुतम्
सशब्दं तुमुलं युद्धं सर्वलोकभयंकरम्। दशनैर्दशनैरेव शरैरेव शरोत्तमैः
तद्घोरमभवद्युद्धं देवदानवसंगरे। आखुको भेदयांचक्रे महानांगं महाबलम्
पर्शुना पृष्ठवंशाग्रे स्थित्वा तेनाहनत्पुनः। दैत्यस्य दशनद्वारे हृदिस्कंधेथ लाघवात्
सगजः स पपातोर्व्यां गतासुर्लोहितं वमन्। शशंसुर्मुनयो देवास्साधुसाध्विति चाब्रुवत्
अत्रान्येस्त्रैरमोघैश्च दैत्यानाजघ्नुराहवे। यावत्तु सेनयोर्नैव जययुद्धं समापयेत्
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे त्रैपुरिविमर्दोनाम चतुस्सप्ततितमोऽध्यायः
व्यास उवाच-। श्रुत्वा महेश्वराद्वाक्यं देवाः शक्रपुरोगमाः। दुद्रुवुर्दैत्यसंघांस्तान्सर्वे सर्वान्समंततः
आजगाम महाबाहुः कुंभो नाम महासुरः। नैर्ऋतो यक्षराजानं गदया चाहनद्भृशम्
गुह्यकेशो गदापातैर्जघान भृशमुत्तमम्। ततोन्योन्यं गदायुद्धमभवद्भीषणं तयोः
चक्रबंधं महाबंधं पुरोवध्यनिबंधनम्। प्राचुरं भीषणं यानं स्फोटतैलाभिवास्तिकम्
तेन कृत्वा महायुद्धमवसाने धनेश्वरः। पातयामास तं स्फोटं तस्य कुंभस्य चोरसि
भग्नदंष्ट्रस्ततः कुंभो निपपात महीतले। स्यंदनस्थो महावीर्यो जंभो हरिहयं तदा
जघानशरसंघैश्च तथैवैरावणं भृशम्। वासवो भिदुरेणैव संबिभेदासुरोत्तमम्
स पपात धरापृष्ठे गतासुर्लोहितोक्षितः। तथारण्यं सुघोरं च अघोरं घोरमेव च
चतुरो गणमुख्यांश्च शक्त्या बिभेद संयुगे। सेनान्यश्चैव प्रत्येकं पातयामास लाघवात्
सौरभं शरसंघैश्च जयंतो वशमानयत्। शक्तिहस्तं च संह्रादं यमदंडं नरांतकम्
हत्वा च पातयामास स भस्मीकृतविग्रहः। कालश्च खड्गपातेन पातयामास बाभ्रवम्
शक्त्या मृत्युर्बिभेदाश्वं तथा निर्घृणकं रणे। अग्निना दह्यमानाश्च सप्तैते च महाबलाः
भद्रबाहुर्महाबाहुः सुगंधो गंध एव च। भौरिको वल्लिको भीम एते सेनाग्रगामिनः
रणे संदग्धदेहाश्च पेतुरुर्व्यां गतासवः। पाशबद्धा महावीर्या वरुणस्य महात्मनः
पेतुरुर्व्यां महासत्वाः शूराः शूरभयानकाः। शूरस्य रश्मिजालेन निहताः पञ्चदानवाः
तुरुतुंबुरुदुर्मेधस्साधका साधकाभिधाः। क्रूर क्रौंच रणेशान मोदसंमोद षण्मुखाः
शरैर्निपातिता दैत्याः संयुगे मातरिश्वना। नैर्ऋतो गदया भीमं पातयामास भूतले
शूलपातैश्च रुद्राणां शतशो दैत्यदानवाः। निपेतुः संयुगे भीताः संमुखा रणपंडिताः
वसूनां शरपातैश्च शूराणां रश्मिमालिनाम्। मेघानां करकाभिश्च वज्रपातैस्सुदारुणैः