विशिखैरर्धचंद्रैश्च क्षुरप्रैर्भल्लकैस्तथा। तांस्तु चिच्छेद धर्मात्मा पुनर्विव्याध तं शरैः
चतुर्भिः सैंधवांश्चैव शरैकेन च सारथिम्। शरैः संपातयामास धरण्यां गणनायकान्
लाघवात्तु रथं चान्यं गत्वा त्रिपुरनंदनः। विशिखैर्वज्रसंकाशैः संबिभेद गणाधिपम्
रुधिरेणावसिक्तांगो रुषा घोर यमप्रभः। ललाटे च त्रिभिर्बाणैस्सप्तभिश्च स्तनांतरे
चतुर्भिर्नाभिदेशे च पंचभिर्मुष्टिमस्तके। संबिभेद महाक्रोधो बलिनं शंभुनंदनः
शरैरर्दितसर्वांगः स दैत्यो रणमूर्धनि। कश्मलं परमं गत्वा संपपात रथोपरि
ततः सूतेन धीरेण अपनीतो रणाजिरात्। विमुखं नाहनच्छूरो विनायकः सुरार्चितः
चिरात्संज्ञां समालभ्य यंतारं चाब्रवीद्वचः। गच्छ सूत रणे भीरुं विनायकं हरात्मजम्
ततो यंताब्रवीद्वाक्यं सत्यं पथ्यं च कोमलम्। हरात्मजशरान्सोढुं कस्समर्थो रणाजिरे
तस्मान्मोहगतस्त्वं च मयानीतः प्रभासुत। एतज्ज्ञात्वा त्विदानीं भो यद्युक्तं तद्विधीयताम्
एतस्मिन्नंतरे राज्ञा प्रेरितः कविसत्तमः। औषधादिप्रयोगेण गजः संज्ञामबोधयत्
अकारयच्छतगुण प्राणं च जयमादिशत्। प्राग्जलं मंत्रितं दत्वा रुरोधास्याङ्गकव्रणान्
स गजो दशनैरेव स्फोटयामास वै गिरिम्। एवं शतसहस्राणि सैन्यानि सैन्यपालकान्
पातयामास समितौ गजः परमदुर्जयः। स दैत्यस्तस्य पृष्ठस्थः शरैः कालानलप्रभैः
हत्वा त्वपातयच्चोर्व्यां मुख्यमुख्यान्सुराधिपान्। शरैस्तस्य तदा देवा यमदंडसमप्रभैः
निपतंति महावीर्या रुधिरौघपरिप्लुताः। यस्मिन्यस्मिंश्च मार्गे तु स दैत्यः सगजो गतः
तत्र तत्र चकाराशु भीषणं संचितं शरैः। गजेन पातिताः केचिद्गजारोहेण चापरे
वेगेन भ्रमणेनैव सुराः केचित्प्रतापिताः। एवं सुरगणाध्यक्षाः शस्त्रास्त्रैर्विविधैश्च तम्
सगजं युद्धनिर्भीता निजघ्नुर्बहुभिः शरैः। तथापि तद्गजं योद्धुं न शक्तास्ते महाबलाः
क्षिप्रं तांस्तु गजो दंतैस्त्रैपुरोऽपातयच्छरैः। न गता ये धरण्यां च देवा जर्जरविग्रहाः
शरण्यं गणपं जग्मुर्भीतास्ते वेदनातुराः। देवानां कदनं दृष्ट्वा गणाधीशः प्रतापवान्
स गजं ताडयामास वज्रानलसमैः शरैः। स गजो वेगसंरुद्धः शरेण च समुत्थितः
अथोतौ द्वौ शरैरेव बिभिदाते परस्परम्। उभौ तौ नर्दमानौ च अन्योन्यं जयमैच्छताम्
शोणितैर्लिप्तसर्वांगौ वीरमुख्यौ सुरासुरौ। अथाखुं स गजो मत्तो बिभेद दशनैः स्वकैः
आखुनाभिद्रुतो नागो घोरयुद्धं तयोः परम्। अधोर्ध्वं संविभागे च चतुर्भिर्युद्धमद्भुतम्
सशब्दं तुमुलं युद्धं सर्वलोकभयंकरम्। दशनैर्दशनैरेव शरैरेव शरोत्तमैः
तद्घोरमभवद्युद्धं देवदानवसंगरे। आखुको भेदयांचक्रे महानांगं महाबलम्
पर्शुना पृष्ठवंशाग्रे स्थित्वा तेनाहनत्पुनः। दैत्यस्य दशनद्वारे हृदिस्कंधेथ लाघवात्
सगजः स पपातोर्व्यां गतासुर्लोहितं वमन्। शशंसुर्मुनयो देवास्साधुसाध्विति चाब्रुवत्
अत्रान्येस्त्रैरमोघैश्च दैत्यानाजघ्नुराहवे। यावत्तु सेनयोर्नैव जययुद्धं समापयेत्