त्वां चाहं तत्पथं दैत्य प्रेषयामि क्षणादिह। उक्तवंतं महाप्राज्ञं सुराणां च गणाधिपं
विव्याध दशभिस्तीक्ष्णैः कालानलसमप्रभैः। ततः शरसहस्रैस्तु दैत्यं विव्याध साहसात्
यमदंडसमैर्बाणैः क्षुरप्रैश्च शिलीमुखैः। कंकपत्रैर्महातीक्ष्णैर्वज्रानलसमप्रभैः
विचकर्त शरांश्चास्य लंबोदरः सुरार्चितः। पुनर्विव्याध विशिखैः सहसाभि दुरोपमैः
शरैरर्दितसर्वांगो मूर्च्छितस्त्वपतद्भुवि। ततो भद्रश्च सौभद्रो भीषणो निर्जरांतकः
स्वां स्वां गदां समादाय दुद्रुवुस्तं विनायकम्। युगपत्ते गदापातैर्निजघ्नुर्गणनायकम्
लाघवात्तु वृथा कृत्वा गदास्तेषां महाबलः। भद्रकस्य तु शीर्षे चाहनत्परशुना तदा
सौभद्रस्योत्तमांगं च असिनाग्रे निपातितम्। भीषणस्य कुठारेण खड्गेन निर्जरांतकम्
पातयित्वा च हेरम्बो महागिरिसमांस्तदा। चतुरो गणमुख्यांश्च अन्यांश्चापातयद्द्विषः
ततः संज्ञां समालभ्य त्रैपुरिश्चासुरोत्तमः। समारुह्य रथं स्वं च जघान सुरसत्तमम्
विशिखैरर्धचंद्रैश्च क्षुरप्रैर्भल्लकैस्तथा। तांस्तु चिच्छेद धर्मात्मा पुनर्विव्याध तं शरैः
चतुर्भिः सैंधवांश्चैव शरैकेन च सारथिम्। शरैः संपातयामास धरण्यां गणनायकान्
लाघवात्तु रथं चान्यं गत्वा त्रिपुरनंदनः। विशिखैर्वज्रसंकाशैः संबिभेद गणाधिपम्
रुधिरेणावसिक्तांगो रुषा घोर यमप्रभः। ललाटे च त्रिभिर्बाणैस्सप्तभिश्च स्तनांतरे
चतुर्भिर्नाभिदेशे च पंचभिर्मुष्टिमस्तके। संबिभेद महाक्रोधो बलिनं शंभुनंदनः
शरैरर्दितसर्वांगः स दैत्यो रणमूर्धनि। कश्मलं परमं गत्वा संपपात रथोपरि
ततः सूतेन धीरेण अपनीतो रणाजिरात्। विमुखं नाहनच्छूरो विनायकः सुरार्चितः
चिरात्संज्ञां समालभ्य यंतारं चाब्रवीद्वचः। गच्छ सूत रणे भीरुं विनायकं हरात्मजम्
ततो यंताब्रवीद्वाक्यं सत्यं पथ्यं च कोमलम्। हरात्मजशरान्सोढुं कस्समर्थो रणाजिरे
तस्मान्मोहगतस्त्वं च मयानीतः प्रभासुत। एतज्ज्ञात्वा त्विदानीं भो यद्युक्तं तद्विधीयताम्
एतस्मिन्नंतरे राज्ञा प्रेरितः कविसत्तमः। औषधादिप्रयोगेण गजः संज्ञामबोधयत्
अकारयच्छतगुण प्राणं च जयमादिशत्। प्राग्जलं मंत्रितं दत्वा रुरोधास्याङ्गकव्रणान्
स गजो दशनैरेव स्फोटयामास वै गिरिम्। एवं शतसहस्राणि सैन्यानि सैन्यपालकान्
पातयामास समितौ गजः परमदुर्जयः। स दैत्यस्तस्य पृष्ठस्थः शरैः कालानलप्रभैः
हत्वा त्वपातयच्चोर्व्यां मुख्यमुख्यान्सुराधिपान्। शरैस्तस्य तदा देवा यमदंडसमप्रभैः
निपतंति महावीर्या रुधिरौघपरिप्लुताः। यस्मिन्यस्मिंश्च मार्गे तु स दैत्यः सगजो गतः
तत्र तत्र चकाराशु भीषणं संचितं शरैः। गजेन पातिताः केचिद्गजारोहेण चापरे
वेगेन भ्रमणेनैव सुराः केचित्प्रतापिताः। एवं सुरगणाध्यक्षाः शस्त्रास्त्रैर्विविधैश्च तम्
सगजं युद्धनिर्भीता निजघ्नुर्बहुभिः शरैः। तथापि तद्गजं योद्धुं न शक्तास्ते महाबलाः
क्षिप्रं तांस्तु गजो दंतैस्त्रैपुरोऽपातयच्छरैः। न गता ये धरण्यां च देवा जर्जरविग्रहाः