स्पर्शने च स्फुलिंगानामुभयोः सेनयोर्भटाः। न शक्ताः संमुखे स्थातुं शलभा ज्वलने यथा
दग्धाः पेतुः पृथिव्यां च दिशस्सर्वाः प्रदुद्रुवुः। देवदानवयोर्वीराः शून्यस्तत्राभवद्रणः
अस्त्रं निरस्तकं दृष्ट्वा स दैत्यः क्रोधमूर्च्छितः। मायया शैलसंदोहमस्त्रं शक्रे मुमोच ह
बाणौघैः शैलसंघातं प्रचिच्छेद रणे हरिः। अघोरं प्रासृजद्दैत्यः पुरुहूते महाबले
कोटिकोटिसहस्राणि जंतूनां प्रवराणि च। सिंहशार्दूलभल्लूक वृक व्याघ्र महागजाः
दंदशूकादयः सत्वाः प्रधावंति सुरेश्वरं। क्षुरप्रैरर्धचंद्रैश्च भल्लैः शिलीमुखैस्तथा
असंप्राप्तान्प्रचिच्छेद मघवा परवीरहा। ततो वृत्रो महाबाहुर्धनुरुद्यम्य वीर्यवान्
बिभेद शरसाहस्रैर्वज्रकल्पैः शतक्रतुं। छित्वा क्षुरप्रैश्शक्रश्च धनुस्तस्य चकर्त च
सूतं चाश्वान्पृथिव्यां च पातयामास तत्क्षणात्। सकंटकांगदां भीमां संपूज्यासुरसत्तमः
जघान पद्मिनः शीर्षे मोहाद्दंती क्षितिं ययौ। सगदः सर्वदेवेशो धरणीं समुपस्थितः
ततस्तयोर्गदायुद्धमवर्तत मुहुर्मुहुः। तयोः प्रहरतोः शब्दो गदापातोद्भवो ध्रुवं
आवर्तं परिवर्तं च चक्रतुस्तौ पुनः पुनः। अध ऊर्ध्वं प्रहारं च पार्श्वयोरतिभीषणं
बभूवैवं तयोर्युद्धं लोकालोकभयंकरं। दृष्ट्वा देवगणाः सिद्धा दानवा विस्मयं गताः
युद्ध्यमानौ तु तौ वीरौ मृत्युसंशयमागतौ। देवदानववीराश्च द्रष्टुं नैव तदीशिरे
ईशब्रह्मादयः खे तु स्थिता द्रष्टुं तदद्भुतं। तयोर्हुंकारशब्देन गदापातस्वनेन च
ऊर्ध्वोर्ध्वमगमच्छब्दो ह्यशनेश्चोपजायते। भग्ने गदे द्वयोरेव करः संपुटितस्तयोः
एवं चैवार्धयामेन तयोरस्त्रे निपेततुः। एतस्मिंन्नन्तरे वीरौ खड्गचर्मधरौ तदा
प्रतियोद्धुं महाघोरमाहवे संप्रचेरतुः। निस्त्रिंशौ विद्युदुल्काभौ तयोर्गात्रे च चर्मणी
दृश्येते सर्वलोकैश्च लाघवं विस्मयं गतैः। चिच्छिदाते तयोरेव चर्मणी बहुवर्णके
भीष्मकं बलयुद्धं च तयोरेवं प्रवर्तते। मंडलं चक्रधन्वं च लाघवं च परिप्लुतं
वृत्रवासवयोर्युद्धं वृत्रवासवयोरिव। केशान्वृत्रस्य उत्प्लुत्य संप्रधृत्यासिना द्रुतं
शिरश्चिच्छेद सहसा मघवा रणमूर्धनि। जयशब्दस्ततस्त्वासीद्देवानां च समंततः
प्रोत्फुल्लहृदया देवा मघवंतमपूजयन्। देवदुंदुभयो नेदुर्ननृतुश्चाप्सरोगणाः
गीतं गायंति गंधर्वा मुनयः स्तुतिपाठकाः। भीताः पलायिताः सर्वे दैत्यास्त्यक्तायुधा दिशः
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे वृत्रासुरवधोनाम त्रिसप्ततितमोऽध्यायः
व्यास उवाच- चतुर्भिस्तुरगैर्जुष्टं रथं सूर्यसमप्रभं। त्रैपुरिः संरुरोहाथाब्रवीद्वाक्यं गणाधिपं
पिता मे निहतः पित्रा तव यस्माद्गणाधिप। तस्मात्त्वामद्य विशिखैर्नयामि यमसादनं
ततस्तमब्रवीद्देवो गणेशस्त्रिपुरात्मजं। तव तातेन दुष्टेन सुराणामहितं पुरा
कृतं कर्ममहत्पापं श्रुतं नो जनकेन हि। पापकर्मरतं दुष्टं ज्ञात्वा ज्ञानबलेन च
अवधीत्तं शरैकेन पितरं ते बलेन च। पंकात्प्रतारितो मोहात्प्रेषितो यममंदिरं