एवं शरसहस्रैस्तु बिभिदाते परस्परम्। मनोजवसमाः शीघ्रा गाढाः शिखरिणो यथा
बडवानलसंस्पर्शाः खगा वज्रारभेदकाः। तयोर्धनुष्मतोर्युद्धे शरास्तुल्यगुणान्विताः
एवं क्रमेण युद्धे च अहोरात्रमवर्तत। महेंद्रो द्विरदं तस्य शूलेनैव जघान ह
स निपत्य महीपृष्ठे लाघवात्स्वरथं ययौ। रथस्थस्तस्य देवस्य शक्त्या चैरावणं दृढम्
बिभेद लाघवेनाशु वज्रेणेव महागिरिं। शुशुभे कंपमानस्तु सेंद्रः स च महागजः
ततः शक्तिं समादाय आविध्य मघवाऽसुरम्। बिभेदोरसि दैत्यस्य स पपात रथोपरि
क्षणात्संज्ञां समालंब्य स विनद्य पतत्त्रिणा। बिभेद समरे शक्रं स ततः कश्मलं गतः
इंद्रः संज्ञां पुनः प्राप्य जघान विशिखैः शितैः। शतकोटिसमैर्बाणैरर्दितो व्यथयान्वितः
ततो वृत्रो महाशूलं प्राक्षिपन्निर्जरेश्वरे। शांभवास्त्रेण देवेशो वैष्णवास्त्रं मुमोच ह
उभयोरंबरे चास्त्रे वह्निकूटसमप्रभे। अन्योन्यं जघ्नतुस्तत्र स्फुलिगानि विमुंचती
स्पर्शने च स्फुलिंगानामुभयोः सेनयोर्भटाः। न शक्ताः संमुखे स्थातुं शलभा ज्वलने यथा
दग्धाः पेतुः पृथिव्यां च दिशस्सर्वाः प्रदुद्रुवुः। देवदानवयोर्वीराः शून्यस्तत्राभवद्रणः
अस्त्रं निरस्तकं दृष्ट्वा स दैत्यः क्रोधमूर्च्छितः। मायया शैलसंदोहमस्त्रं शक्रे मुमोच ह
बाणौघैः शैलसंघातं प्रचिच्छेद रणे हरिः। अघोरं प्रासृजद्दैत्यः पुरुहूते महाबले
कोटिकोटिसहस्राणि जंतूनां प्रवराणि च। सिंहशार्दूलभल्लूक वृक व्याघ्र महागजाः
दंदशूकादयः सत्वाः प्रधावंति सुरेश्वरं। क्षुरप्रैरर्धचंद्रैश्च भल्लैः शिलीमुखैस्तथा
असंप्राप्तान्प्रचिच्छेद मघवा परवीरहा। ततो वृत्रो महाबाहुर्धनुरुद्यम्य वीर्यवान्
बिभेद शरसाहस्रैर्वज्रकल्पैः शतक्रतुं। छित्वा क्षुरप्रैश्शक्रश्च धनुस्तस्य चकर्त च
सूतं चाश्वान्पृथिव्यां च पातयामास तत्क्षणात्। सकंटकांगदां भीमां संपूज्यासुरसत्तमः
जघान पद्मिनः शीर्षे मोहाद्दंती क्षितिं ययौ। सगदः सर्वदेवेशो धरणीं समुपस्थितः
ततस्तयोर्गदायुद्धमवर्तत मुहुर्मुहुः। तयोः प्रहरतोः शब्दो गदापातोद्भवो ध्रुवं
आवर्तं परिवर्तं च चक्रतुस्तौ पुनः पुनः। अध ऊर्ध्वं प्रहारं च पार्श्वयोरतिभीषणं
बभूवैवं तयोर्युद्धं लोकालोकभयंकरं। दृष्ट्वा देवगणाः सिद्धा दानवा विस्मयं गताः
युद्ध्यमानौ तु तौ वीरौ मृत्युसंशयमागतौ। देवदानववीराश्च द्रष्टुं नैव तदीशिरे
ईशब्रह्मादयः खे तु स्थिता द्रष्टुं तदद्भुतं। तयोर्हुंकारशब्देन गदापातस्वनेन च
ऊर्ध्वोर्ध्वमगमच्छब्दो ह्यशनेश्चोपजायते। भग्ने गदे द्वयोरेव करः संपुटितस्तयोः
एवं चैवार्धयामेन तयोरस्त्रे निपेततुः। एतस्मिंन्नन्तरे वीरौ खड्गचर्मधरौ तदा
प्रतियोद्धुं महाघोरमाहवे संप्रचेरतुः। निस्त्रिंशौ विद्युदुल्काभौ तयोर्गात्रे च चर्मणी
दृश्येते सर्वलोकैश्च लाघवं विस्मयं गतैः। चिच्छिदाते तयोरेव चर्मणी बहुवर्णके
भीष्मकं बलयुद्धं च तयोरेवं प्रवर्तते। मंडलं चक्रधन्वं च लाघवं च परिप्लुतं