मधुस्तदागतस्तूर्णमंतर्धानं तमोवृतः। पातयामास विष्णौ च मायया शतपर्वतान्
ततस्तान्पर्वतांश्छित्वा तमसोऽन्तर्गतो युधि। क्रोधात्सुदर्शनेनैव शिरश्छित्वा निपातितः
ततो ब्रह्मादिभिर्देवैश्शंभुना त्रिदशैरपि। मधुसूदन इतिख्यातिर्विष्णोर्लोकेषु कारिता
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे मधुवधोनामद्विसप्ततितमोऽध्यायः
व्यास उवाच- ततो वृत्रो महातेजा दैत्यानां प्रवरो युधि। दिग्गजाढ्यं गजारूढः प्राद्रवद्बलसूदनम्
आगच्छंतं ततो वृत्रं शरैः कालानलप्रभैः। विव्याध सर्वगात्रेषु द्विरदस्थो महाहवे
ततो वृत्रस्तु शीर्षं च जिष्णोरेव पतत्रिणा। विव्याध सहसा तेन स चचाल महाबलः
आत्मानं च समाश्वास्य धनुरुद्यम्य वीर्यवान्। ववर्ष शरवर्षेण तस्य दैत्यस्य विग्रहे
शरांश्छित्वा बिभेदाशु शरैराशीविषोपमैः। शतक्रतुं महावीर्यः सर्वदेवाधिपं युधि
ततः शरसहस्रैस्तु दैत्यं विव्याध देवराट्। परस्परं शरा यांति यथा सप्ताश्व रश्मयः
एवं शरसहस्रैस्तु बिभिदाते परस्परम्। मनोजवसमाः शीघ्रा गाढाः शिखरिणो यथा
बडवानलसंस्पर्शाः खगा वज्रारभेदकाः। तयोर्धनुष्मतोर्युद्धे शरास्तुल्यगुणान्विताः
एवं क्रमेण युद्धे च अहोरात्रमवर्तत। महेंद्रो द्विरदं तस्य शूलेनैव जघान ह
स निपत्य महीपृष्ठे लाघवात्स्वरथं ययौ। रथस्थस्तस्य देवस्य शक्त्या चैरावणं दृढम्
बिभेद लाघवेनाशु वज्रेणेव महागिरिं। शुशुभे कंपमानस्तु सेंद्रः स च महागजः
ततः शक्तिं समादाय आविध्य मघवाऽसुरम्। बिभेदोरसि दैत्यस्य स पपात रथोपरि
क्षणात्संज्ञां समालंब्य स विनद्य पतत्त्रिणा। बिभेद समरे शक्रं स ततः कश्मलं गतः
इंद्रः संज्ञां पुनः प्राप्य जघान विशिखैः शितैः। शतकोटिसमैर्बाणैरर्दितो व्यथयान्वितः
ततो वृत्रो महाशूलं प्राक्षिपन्निर्जरेश्वरे। शांभवास्त्रेण देवेशो वैष्णवास्त्रं मुमोच ह
उभयोरंबरे चास्त्रे वह्निकूटसमप्रभे। अन्योन्यं जघ्नतुस्तत्र स्फुलिगानि विमुंचती
स्पर्शने च स्फुलिंगानामुभयोः सेनयोर्भटाः। न शक्ताः संमुखे स्थातुं शलभा ज्वलने यथा
दग्धाः पेतुः पृथिव्यां च दिशस्सर्वाः प्रदुद्रुवुः। देवदानवयोर्वीराः शून्यस्तत्राभवद्रणः
अस्त्रं निरस्तकं दृष्ट्वा स दैत्यः क्रोधमूर्च्छितः। मायया शैलसंदोहमस्त्रं शक्रे मुमोच ह
बाणौघैः शैलसंघातं प्रचिच्छेद रणे हरिः। अघोरं प्रासृजद्दैत्यः पुरुहूते महाबले
कोटिकोटिसहस्राणि जंतूनां प्रवराणि च। सिंहशार्दूलभल्लूक वृक व्याघ्र महागजाः
दंदशूकादयः सत्वाः प्रधावंति सुरेश्वरं। क्षुरप्रैरर्धचंद्रैश्च भल्लैः शिलीमुखैस्तथा
असंप्राप्तान्प्रचिच्छेद मघवा परवीरहा। ततो वृत्रो महाबाहुर्धनुरुद्यम्य वीर्यवान्
बिभेद शरसाहस्रैर्वज्रकल्पैः शतक्रतुं। छित्वा क्षुरप्रैश्शक्रश्च धनुस्तस्य चकर्त च
सूतं चाश्वान्पृथिव्यां च पातयामास तत्क्षणात्। सकंटकांगदां भीमां संपूज्यासुरसत्तमः
जघान पद्मिनः शीर्षे मोहाद्दंती क्षितिं ययौ। सगदः सर्वदेवेशो धरणीं समुपस्थितः