त्वामेव निहनिष्यामि सह देवगणैरिह। इत्युक्त्वा धनुरादाय जघान विशिखैर्विभुम्
माधवस्तान्बिभेदाथ शरैर्वज्रसमप्रभैः। बहुभिस्सर्वगात्रेषु जघान च मधुं ततः
मायया छादितः सोभूद्दैत्यस्तं सुरसत्तमाः। ये वै शूराश्च रुद्राद्यास्त्रिदशास्सत्त्वधारिणः
देव्यो नानाविधाश्चापि सायुधा वाहनान्विताः। सेनान्यो गणपा देवा लोकेश हरविष्णवः
अन्ये ग्रहादयो देवाः सर्वे युध्यन्ति संगताः। विनष्टाश्च तदा देवा मधोर्वै मायया ध्रुवम्
संमुखे विमुखे चैव शरशक्त्यृष्टिवृष्टिभिः। पतंति सहसा देवा भूमौ शस्त्राभिपीडिताः
एतस्मिन्नंतरे विष्णुर्गृहीत्वा च सुदर्शनम्। असुरान्मायया देवान्जघान रणमूर्धनि
अथ तेषां शिरांस्येष छित्वा चैव सहस्रशः। पातयामास देवेशो दैत्यानां च सुरात्मनाम्
एवमन्यान्विभुर्दैत्यान्द्रावयामास संगरात्। तं दृष्ट्वा मुनयो देवाः सर्वे विस्मयमाययुः
कर्णे कर्णे प्रजल्पंते देवा मुनिगणास्तथा। सदा देवैकगोप्ता च हरिरव्यय ईश्वरः
सर्वसाक्षी त्वयं देवो दैत्यजिष्णुर्युगे युगे। कथं हंति सुरान्सर्वान्कल्पांत इह जायते
एतस्मिन्नंतरे दूरे मधुर्मायां प्रयोजिता। हररूपधरो भूत्वा अब्रवीद्धरिमव्ययम्
दैत्यानामग्रतः पाप रणे देवान्समंततः। हत्वा किं ते शिवं चाद्य धर्मकीर्ति यशो गुणाः
महतोन्मत्तभावेन न जानासि परान्स्वकान्। अतस्त्वां निशितैर्बाणैर्नयामि यमसादनम्
एवमुक्त्वा शरैरुग्रैर्जघान केशवं रणे। निचकर्त शरांस्तांस्तु माधवो वाक्यमब्रवीत्
जानामि त्वां रणे दैत्यं हररूपधरं प्रियम्। शूरं शूरविकर्माणं मधुं मायानियोजितम्
मिथ्यालोकं प्रदास्यामि पातयित्वा रणाजिरे। एतस्मिन्नंतरे तीक्ष्णैः शरैर्विव्याध संयुगे
जटिलं वृषकेतुं च वृषभस्थं महेश्वरम्। तयोर्युद्धमतीवासीद्देवदानवयोस्तदा
परस्परं भिंदतोश्च प्राप्तान्प्राप्तान्शरान्शरैः। क्षुरप्रेण धनुस्तस्य चिच्छेद हरिरव्ययः
ततश्च पातयामास घोटकं वृषरूपिणम्। स दैत्यश्शूलहस्तोथ प्रदुद्राव जगत्पतिम्
भ्रामयित्वा ततः शूलं जघान परमेश्वरम्। त्रिभिश्चिच्छेद बाणैश्च शूलं कालानलप्रभम्
ततः क्रूरो महाबाहुर्मधुर्मायातिमायिकः। देवीरूपं समास्थाय सिंहस्थः प्रययौ हरिः
शरैर्बहुविधैर्विष्णुं जघानैवाब्रवीद्वचः। स्वामी तु मे सुरश्रेष्ठ त्वयैव पातितो युधि
अहं त्वां च हनिष्यामि सुतौ स्कंदविनायकौ। उक्तवंतं च दैतेयं जघान बहुमार्गणैः
स पपात महीपृष्ठे गतासुर्लोहितोद्गिरः। पितरौ निहतौ दृष्ट्वा मायाबद्धो महाबलः
स्कंदः शक्तिं समादाय प्रायाद्योधयितुं हरिम्। ततो धाताऽब्रवीद्वाक्यं स्कंदं मोहप्रपीडितम्
पश्य ते पितरौ दूरे पश्यंतौ युद्धमीदृशम्। अंतरिक्षे भ्रमंतौ च संस्थितौ लोकसाक्षिणौ
एतच्छ्रुत्वा ततो दृष्ट्वा तत्रैवांतरधीयत। ततो धुंधुश्च सुंधुश्च भ्रातरावतिदर्पितौ
वधं प्रति हरेर्युद्धे पेततुर्गरुडोपरि। खड्गहस्तं च धुंधुं च सगदं सुंधुमेव च
चिच्छेद नंदकेनैकं गदया सादयत्परम्। पेततुस्तौ धरापृष्ठे प्रवीरौ क्षतविक्षतौ