विशिखाः शतशस्तत्र विनिश्चेरुस्समंततः। शक्रः कोपात्पुनः शीघ्रं धनुरुद्यम्य वीर्यवान्
जघान विशिखैरुग्रैः सर्वगात्रेषु संज्वलन्। ततो मार्गणसाहस्रैरष्टभिस्त्वधिकं तथा
बिभिदाते ततोन्योन्यं चिच्छिदाते परस्परम्। शरैर्निरंतराकाशं ददृशुस्तत्र संयुगे
निपतंति धरापृष्ठे खड्गपातैः सहस्रशः। एवं सुदीर्घकाले तु गते तस्मिन्महाहवे
मायास्त्रं दर्शयामास क्रूरकृन्नमुचिस्तदा। तामसं त्रिषुलोकेषु कृतं स्यात्तु निरंतरम्
परस्परं न पश्यंति देवासुरगणा भृशम्। सूर्यचंद्रग्रहाणां च वह्नीनां च दिवौकसाम्
तस्मिंस्तमसि दुष्पारे गभस्तिर्नैव दृश्यते। दैत्यस्य च ततस्तूर्णं शरैरग्निशिखोपमैः
विभग्नाः सर्वदेवाश्च शक्रश्चरणसंमुखे। शरैर्विभिन्नदेहास्तु निपेतुर्धरणीतले
प्रभग्नाश्चापरे शूरास्संयांति च दिशो दश। कूटं तस्य परिज्ञाय सर्वदेवार्चितो हरिः
सौम्यमस्त्रं मुमोचाथ दिवि सूर्यशतप्रभम्। विलंबितं समालोक्य शक्त्या च बहुघंटया
जघानोरसि दैत्यस्य स पपात व्यथान्वितः। चिरात्संलभ्य संज्ञां च दैतेयः क्रोधमूर्च्छितः
गत्वा वेगात्सुरश्रेष्ठमैरावतं दधार ह। त्रासयामास सुतरामिंद्रस्य द्विरदं रुषा
धृत्वा स तु गजं सेंद्रं मुमोच धरणीतले। ततो भूमिगतः शक्रः कश्मलं च क्षणं गतः
अवप्लुत्य स दैत्येंद्रो गजदंतांतरस्थितः। शक्रं ग्रहीतुकामस्य वधार्थं यूथपस्य सः
असिनाऽसुरमुख्यस्य शिरश्छित्वा न्यपातयत्। सर्वे प्रजहृषुर्देवा गंधर्वा ललितं जगुः। मुदितास्ते च मुनयः स्तुवंति सुरसत्तमम्
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे द्वितीय नमुचिवधोनामैकसप्ततितमोऽध्यायः
व्यास उवाच- दिव्यं रथं समास्थाय धनुर्हस्तो बलैर्युतः। गत्वा च माधवं संख्ये देवासुरगणाग्रतः
क्रोधेन महताविष्टो मधुर्निर्जरमर्दनः। अब्रवीत्परुषं वाक्यमव्ययं हरिमीश्वरम्
नारायण न जानासि युद्धधर्ममितः कथम्। अन्यायाद्दुर्वधोपायं कृत्वा नष्टो न शोचसि
अनेन पंकयोगेन व्यवहारा कृतस्य च। सुरत्वं चोपनष्टं स्यादन्यसृष्टिं करोम्यहम्
त्वामेव निहनिष्यामि सह देवगणैरिह। इत्युक्त्वा धनुरादाय जघान विशिखैर्विभुम्
माधवस्तान्बिभेदाथ शरैर्वज्रसमप्रभैः। बहुभिस्सर्वगात्रेषु जघान च मधुं ततः
मायया छादितः सोभूद्दैत्यस्तं सुरसत्तमाः। ये वै शूराश्च रुद्राद्यास्त्रिदशास्सत्त्वधारिणः
देव्यो नानाविधाश्चापि सायुधा वाहनान्विताः। सेनान्यो गणपा देवा लोकेश हरविष्णवः
अन्ये ग्रहादयो देवाः सर्वे युध्यन्ति संगताः। विनष्टाश्च तदा देवा मधोर्वै मायया ध्रुवम्
संमुखे विमुखे चैव शरशक्त्यृष्टिवृष्टिभिः। पतंति सहसा देवा भूमौ शस्त्राभिपीडिताः
एतस्मिन्नंतरे विष्णुर्गृहीत्वा च सुदर्शनम्। असुरान्मायया देवान्जघान रणमूर्धनि
अथ तेषां शिरांस्येष छित्वा चैव सहस्रशः। पातयामास देवेशो दैत्यानां च सुरात्मनाम्
एवमन्यान्विभुर्दैत्यान्द्रावयामास संगरात्। तं दृष्ट्वा मुनयो देवाः सर्वे विस्मयमाययुः
कर्णे कर्णे प्रजल्पंते देवा मुनिगणास्तथा। सदा देवैकगोप्ता च हरिरव्यय ईश्वरः