स जघान त्रिभिर्बाणैः कालमृत्युसमप्रभैः। प्रचिच्छेद स धर्मात्मा ते त्वन्यैर्विशिखैस्त्रिभिः
ततस्तूच्चैः शरैः प्राज्यैर्युगांतानलसप्रभैः। निजघान यमं संख्ये स चिच्छेद शरैः शरान्
एतस्मिन्नंतरे क्रुद्धौ परस्परजयैषिणौ। जघ्नतुः समरेन्योन्यं महाबलपराक्रमौ
अहोरात्रं तयोर्युद्धमवर्त्तत सुदारुणम्। एतस्मिन्नन्तरे क्रुद्धः शक्त्या प्रशमनं रुषा
बिभेद दैत्यशार्दूलो ह्यहंकारयुतो बली। तामेवाथ रुषा धर्मो गृहीत्वा शक्तिकां द्रुतं
निजघान तयैवामुंस्तनयोरंतरे भृशम्। स विह्वलित सर्वांगो मुखादागतशोणितः
ततः क्रुद्धो महातेजा धृत्वा दंडं सुदारुणम्। अमोघं पातयामास तस्य दैत्यस्य विग्रहे
साश्वं रथं तथा सूतं योद्धारं शस्त्रसंचयम्। चकार भस्मसात्तं च शमनः क्रोधमूर्च्छितः
पतिते च तथा दैत्ये दुर्धर्षो नाम दानवः। शमनं शूलहस्तस्तु प्रदुद्राव जिघांसया
शूलहस्तं समायांतं बडवानलसन्निभम्। आससाद रणे मृत्युः शक्तिहस्तोतिनिर्भयः
स च दृष्ट्वाऽसुरो मृत्युं शूलेनैव जघान ह। शक्तिं चैव ततो मृत्युः प्रचिक्षेप रणाजिरे
संदह्य सहसा शूलं वह्निकूटसमप्रभम्। दैत्यस्य हृदयं भित्वा गता सा च धरातलम्
सरथः स पपातोर्व्यां शक्तिजर्जरविग्रहः। अथान्यो दुर्मुखो मृत्युं कृष्टचापो महाबलः
खड्गचर्मधरः कालो रथ एव गतोभवत्। दृष्ट्वा तं विशिखैः प्राज्यैर्जघान स यमं रणे
स चाप्लत्य रथाद्देवो ह्यसिना च सकुंडलम्। शिरश्चिच्छेद सहसा पातयित्वा च भूतले
हतशेषं बलं सर्वं प्रदुद्राव दिशो दश
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे देवांतकर्दुर्धर्षदुर्मुखवधोनाम सप्ततिमोऽध्यायः
व्यास उवाच- अथान्यो नमुचिः क्रुद्धः स्यंदनस्थो दिवौकसः। विशिखैरर्दयामस घोरैराशीविषोपमैः
ततस्तु संयुगे देवाः सिद्धकिन्नरपन्नगाः। न शक्नुवंति बाणानां वेगं सोढुं समंततः
रथमुच्चैश्श्रवोश्वेन युक्तं मातलिनेरितम्। पुरुहूतः समास्थाय प्रागमत्तं महाबलम्
दृष्ट्वा शक्रं महावीर्यं नमुचिर्दैत्यपुंगवः। अब्रवीद्वासवं संख्ये वचनं सानुगं तदा
प्राकृतं निर्जरं हत्वा न यशोस्ति न च प्रियम्। न लाभकृतकं वापि न जयस्तु पुरष्टुत
तस्मात्वयि हतेत्रैव सर्वं भवति शाश्वतम्। देवराज्यं प्रलप्स्यामि सुखं भोग्यं सुरालये
तमब्रवीन्महातेजाः शक्रः परपुरंजयः। शूरता वाक्यमात्रेण सर्वत्र सुलभा भवेत्
महापराक्रमं यद्वा अस्ति ते दानवाधम। दर्शयस्वाहवे वीर्यं पुरं नेष्यामि भास्करेः
एतच्छ्रुत्वा महातेजाश्चुकोप दैत्यपुंगवः। पंचभिर्निशितैर्बाणैर्जघान सुरसत्तमम्
तांस्तु चिच्छेद मघवा क्षुरप्रैः पंचभिर्द्रुतम्। जग्मतुस्तौ महावीर्यौ समरे विषयैषिणौ
अन्योन्यं सहसा वेगाच्छरैश्चिच्छिदतुः शरान्। बिभिदातेथ गात्राणि विशिखैर्भिदुरोपमैः
अत्यपूर्वं कृतं कर्म ताभ्यामेव रणे भृशम्। लाघवं शरसंधान ग्रहमोक्षं सुदुर्लभम्
दृष्ट्वा तु विस्मयं जग्मुर्देवासुरगणास्तदा। एतस्मिन्नंतरे दैत्यो मायास्संप्रमुमोच ह